The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)

Open to allArthur Avalon (Sir John Woodroffe)600 segments · 204 pp
page 198

तच्चिन्तनप्रकारमाह बृहच्छ्रीक्रमे—

कलां कलङ्करहितां चिदानन्दमुपेयुषीम् । बिम्बरूपनिदानञ्च शुद्धस्फटिकसन्निभम् ॥ पराविराजिवामोरुमदालसवपुःस्त्रियम् । नादोपरि महादेवं पश्यन्ति ज्ञानचक्षुषा ॥ इति ॥

कलां कुण्डलिनीम् । चिदानन्दं बिन्दुरूपशिवमुपेयुषीं प्राप्तवतीमित्यर्थः । बिम्बरूपनिदानं परशिवम् ।

तथान्यत्र—

शून्यरूपं परशिवं प्रापयित्वा तु कुण्डलीम् । ततः सामरसीभूतां पाययित्वा परामृतम् । पुनस्तेन पथा देवीं प्रापयेत् कुलगह्वरम् ॥ इति ॥

यथा—

साङ्गत्यन्तु तयोः कृत्वा सामरस्यं विभाव्य च । तदुद्भूतरसेनैव तर्पयेद्देहदेवताम् ॥ इति ॥

प्रकारान्तरमाह गन्धर्व्वमालिकायाम्—

सहस्रारं शिवपुरं रम्यं दुःखविवर्ज्जितम् । सर्व्वतोऽलङ्कृतैर्द्दिव्यं नित्यपुष्पफलद्रुमैः ॥ सदाशिवपुरं रम्यं कल्पवृक्षसुशोभितम् । पञ्चभूतात्मकं वृक्षं गुणत्रयसमन्वितम् ॥ चतुर्व्वेदचतुःशाखानित्यपुष्पसमन्वितम् । पीतं श्वेतं तथा कृष्णं रक्तपुष्पञ्च पार्व्वति ॥ हरितञ्च विचित्रञ्च नानापुष्पमनोहरम् । एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् ॥

तत्रोपरि सुपर्य्यङ्कं नानावस्त्रोपशोभितम् । मन्दारपुष्पसहितं नानागन्धानुमोदितम् ॥ तत्रोपरि महादेवः सदा तिष्ठति सुन्दरि । ध्यायेत् सदाशिवं देवं शुद्धस्फटिकसन्निभम् ॥ बद्धरत्नसमाकीर्णं दीर्घबाहुं मनोहरम् । सुखप्रसन्नवदनं स्मेरास्यं सततं प्रिये ॥ श्रवणे कुण्डलोपेतं रत्नहारेण शोभितम् । गले पद्मसहस्रेण मालया शोभितम् वपुः ॥ अष्टबाहुं त्रिनयनं शिवं पद्मदलेक्षणम् । पादयोर्नूपुरं रम्यं शब्दब्रह्ममयं वपुः ॥ एवं स्थूलवपुस्तस्य भावयेत् कमलेक्षणे । पद्ममध्ये स्थितं देवं निरीहं शवरूपवत् । शवरूपो महादेवः कृत्यं नास्ति कदाचन ॥

तथा—

ध्यायेत् कुण्डलिनीं देवीं स्वयम्भूलिङ्गवेष्टिनीम् । हंसेन मनुना देवीं सहस्रारं समानयेत् ॥ सदाशिवो महादेवो यत्रास्ते परमेश्वरि । देवीं रूपवतीं कामसमुल्लासविहारिणीम् ॥ मुखारविन्दगन्धेन मोदितं परमं शिवम् । प्रबोध्य परमेशानि तत्रैवोपविशेत् प्रिये ॥ शिवस्य मुखपद्मं हि चुचुम्बे कुण्डली शिवे । सदाशिवेन देवेशि क्षणमात्रं रमेत् प्रिये ॥ अमृतं जायते देवि तत्क्षणात् परमेश्वरि । तदुद्भवामृतं देवि लाक्षारससमायुतम् ॥

नीत्वा तां कुलकुण्डलीं लयवशात् जीवेन सार्द्धं सुधी- र्म्मोक्षे धामनि शुद्धपद्मसदने शैवे परे स्वामिनि । ध्यायेदिष्टफलप्रदां भगवतीं चैतन्यरूपां परां योगीन्द्रो गुरुपादपद्मयुगलालम्बी समाधौ यतः॥५२॥

तेनामृतेन देवेशि तर्पयेत् परदेवताम् । षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ॥ आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः । यातायातक्रमेणैव तत्र कुर्य्यान्मनोलयम् ॥ एवमभ्यस्यमानस्तु अहन्यहनि पार्वति । जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ॥

एवम्प्रकारान्तरस्तन्त्रान्तरे अनुसन्धेयः ॥ ५१ ॥

कुण्डलिनीध्यानयोगमुक्त्वा समाधियोगमाह नीत्वेति । अस्यायमर्थः । समाधौ यतः योगीन्द्रः सुधीः तां पूर्व्वोक्तोत्थापनक्रमेण ब्रह्मद्वारं प्राप्तवतीं भगवतीं कुण्डलिनीं जीवेन सार्द्धं लयवशात् लयक्रमेण शुद्धपद्मसदने सहस्रार- मध्ये परे परंविन्दुरूपे शिवे शिवपदे स्वामिनि स्वामिनिकटे नीत्वा इष्टफलप्रदाम् इष्टदेवतारूपां तां स्वामिरूपपरंविन्दुना सहैकीभावं प्रापयित्वा परां परंविन्दु

(५२) नीत्वेति । तस्यास्तु साधकाय ओमित्याह नीत्वेति । सुधीः जनः तां कुलकुण्डलिनीं जीवेन जीवात्मना सार्द्धं लयवशात् लीनां कृत्वा शैवे शिव- सम्बन्धीयमोक्षे धामनि नीत्वा ध्यायेदिति । “अपानः कर्षति प्राणं प्राणोऽपानश्च कर्षति” इत्येतत्क्रमेण यदा प्राणो जीवम् आकर्षयति तदैव जीवात्मना सार्द्धं तस्या आनयनम् । कीदृशे ? शुक्लपद्मे सहस्रारपद्मे सदनं स्थानं यस्य । परे उत्कृष्टे अथवा परे स्थानस्वामिनि सर्व्वेषामधिकारिणि संहारकारणत्वात् । तां कीदृशीम् ? इष्टफलं प्रददाति इति इष्टफलप्रदां । भगवतीं श्रीकाममाहात्म्यवतीं चैतन्यरूपां चेतना- स्वरूपां । परां प्रकृष्टां । गुरोः पादपद्मयुगलालम्बी योगीशः एवंक्रमेण भावयेदिति सम्बन्धः । समाधौ ध्यानधारणादौ यतः । [एतन्मते “शुक्लपद्मसदने” इति पाठः]।

स्वरूपां ध्यायेत् । चैतन्यरूपामिति । तदनन्तरं परंविन्दुमपि तन्मध्यशून्यमध्ये चिदात्मनि विलाप्य शुद्धचैतन्यरूपां ध्यायेदिति समुदायार्थः । ततः सोऽहम्भावेन जीवात्मनोरैक्यं ज्ञात्वा तत्र चित्तं विलाप्य सर्व्वव्यापकसम्पूर्णज्ञानात्मना स्थिर- चित्तः सन् तिष्ठेदिति शेषः ।

तदुक्तं श्रीमदाचार्य्यस्वामिना—

मकारं कारणं प्राज्ञश्चिदात्मनि विलापयेत् । चिदात्माहं नित्यशुद्धबुद्धमुक्तसदद्वयः ॥ परमानन्दसन्दोहो वासुदेवोऽहमोमिति । ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ॥ चिदात्मनि विलीनञ्चेत्तच्चित्तं नैव चालयेत् । पूर्णबोधात्मना तिष्ठेत् पूर्णाचलसमुद्रवत् ॥ इति ॥

भकारमिति प्रणवपक्षे । अत्र कारणं परंविन्दुः । वासुदेवोऽहमिति “वैष्णवं तल्लपन्ति” इत्यनेनैकवाक्यतया वैष्णवपक्षे । तेन यो यद्देवतोपासकः, स सोऽहमिति ज्ञात्वा । ॐ इति प्रणवोपासनायाम् । अन्यत्र तत्तन्मन्त्रमय- कुण्डलिनीस्वरूपं ज्ञात्वा इति बोध्यम् ।

तन्त्रान्तरे—

किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगम् । ¹महामूल्य(शून्य)मयं कृत्वा पूर्णस्तिष्ठति योगिराट् ॥ इति ॥

जीवेन सार्द्धं नीत्वेति पूर्व्वप्रदर्शितवचनात् हंस इति जीवात्मानं हृदयस्थं दीपकलिकाकारं हंस इति मन्त्रेण मूलाधारमानीय तेन सार्द्धं कुण्डलिनीं नयेत् ।

लयवशादिति । लयक्रममाह—

त्रिकोणाख्ये तु देवेशि लङ्कारं चिन्तयेत्ततः । ब्रह्माणन्तत्र सञ्चिन्त्य कामदेवञ्च चिन्तयेत् ॥

¹ “महाशून्ये लयं गत्वा” इति तारारहस्यवृत्तिकाधृतपाठः ।

¹जीवं तत्रैव निश्चित्य प्रणवोच्चारणेन च । पदे च गमनं पत्यौ विसर्गनाशकामिनी ॥ घ्राणं सञ्चिन्त्य देवेशि महेशि प्राणवल्लभे । डाकिनीं परमाराध्यां शक्तिञ्च भावयेत्ततः ॥ एतानि गिरिजे मातः पृथ्वीं नीत्वा गणेश्वरि ॥

तथा—

ततश्च² पृथिवीं धन्यां गन्धं³ नीत्वा महेश्वरि । आकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे ॥ कुण्डलिन्या सह प्राणं गन्धमादाय साधकः । सोऽहं तु⁴ मनुना देवि स्वाधिष्ठाने प्रवेशयेत् ॥

तथा—

तत्कर्णिकायां वरुणं तत्रापि भावयेत् हरिम् ।⁵ पुराणकारिणीं⁶ शक्तिं चिन्तयित्वा वरानने ॥ एतानि गन्धञ्च शिवे रसं नीत्वा वरानने । जीवात्मानं कुण्डलिनीं रसञ्च मणिपूरके ॥

तथा—

तत्कर्णिकायां सुश्रोणि वह्निं सञ्चिन्त्य साधकः । तत्र रुद्रः स्वयं कर्त्ता संहारे सकलस्य च ॥ लाकिनीशक्तिसंयुक्तं भावयेत्तं मनोहरम्⁷ । ततश्चक्षु⁸रिन्द्रियञ्च ध्यात्वा तेजोमयं शिवे ॥

¹ वीजं तत्रैव संचिन्त्यं पाणावादानमेव च । पदे च गमनं पायौ विसर्ग नसि कामिनि ॥ इति पाठान्तरम् ॥

² “ पूर्व्वोक्तां ” इति पाठान्तरम् ॥

³ “ गन्धे ” इति पाठान्तरम् ॥

⁴ “ सोऽहमिति ” इति पाठान्तरम् ॥

⁵ इतः परं “ रसनेन्द्रियकूपस्थं जलञ्च कामलालसे ” पुस्तकान्तरे इत्यधिकः पाठः ॥

⁶ “ युवानं राकिणी ” इति पाठान्तरम् ॥

⁷ हरे.

⁸ तत्र चक्षु.

एतद्रसानि¹ सुभगे रूपं² नीत्वा महाभगे । जीवात्मानं कुण्डलिनीं रूपञ्चानाहते नयेत् ॥

तथा—

तत्कर्णिकायां वायुञ्च जीवस्थाननिवासिनम् । तत्र योनिमण्डलञ्च बाणलिङ्गविराजितम् ॥ शाकिनीशक्तिसंयुक्तं तत्र वायुं त्वगिन्द्रियम् ॥ एतानि रूपं संयुज्य स्पर्शे त्वमलकारिणि । जीवं कुण्डलिनीं स्पर्शं विशुद्धे स्थापयेत्ततः ॥

तथा—

तत्कर्णिकायामाकाशं शिवञ्च शाकिनीयुतम् । वाचः श्रोत्रञ्च आकाशे संस्थाप्य नगनन्दिनि ॥ एतानि स्पर्शं शब्दे वै नीत्वा शङ्करि मत्प्रिये । जीवं कुण्डलिनीं शब्दञ्चाज्ञाचक्रे निधापयेत् ॥

इत्यन्तं कङ्कालमालिन्याम् । त्रिकोणाख्ये प्रक्रान्तमूलाधारत्रिकोणे । तन्मध्ये लङ्कारचिन्तनमिति । एवं प्रणवोच्चारणेन जीवानयनमिति मतान्तरम् । विसर्ग- नाशकामिनीति । विसर्ग उपसर्गः कामोद्वेग इति यावत् । तन्नाशयितुं शीलं यस्याः सा कुण्डलिनी पत्यौ पदे सहस्रदलकमलस्थबिन्दुमयशिवे गमनं साधकेन कार्य्येति शेषः । एतानि लङ्कारब्रह्मकामदेवडाकिनीशक्तिघ्राणेन्द्रियाणि पृथ्वीं नीत्वा पृथव्यां विलाप्य पृथिवीं गन्धतत्त्वे विलाप्य जीवात्मानं कुण्डलिनीं गन्धतत्त्वं प्रणवेनाकृष्य सोऽहंमन्त्रेण स्वाधिष्ठाने समानयेत् इति शेषः । एवं सर्व्वत्र बोध्यम् । जीवं कुण्डलिनीं शब्दतत्त्वमाज्ञाचक्रे नीत्वा शब्दतत्त्वं तत्रस्थाहङ्कारे अहङ्कारं महत्तत्त्वे महत्तत्त्वं हिरण्यगर्भाख्यसूक्ष्मप्रकृतौ प्रकृतिं परबिन्दौ विलापयेत् ।

¹ एतानि रसञ्च.

² रूपे.

तदुक्तं मन्त्रतन्त्रप्रकाशे—

अहङ्कारे हरेद्व्योम सशब्दं तन्महत्यपि । महच्च सर्व्वशक्तीनामव्यक्ते कारणे परे ॥ सच्चिदानन्दरूपं यत् वैष्णवं कारणं परम् । पृथिव्यादिक्रमात् सर्व्वं तत्र लीनं विचिन्तयेत् ॥ इति ॥

सर्व्वशक्तिमव्यक्ते हिरण्यगर्भाख्यसूक्ष्मप्रकृतौ महद्धरेत् प्रकृतिञ्च परे परबिन्दु- रूपकारणे हरेदित्यर्थः ।

अत्र—

समाधिकालात् प्रागेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात् सर्व्वं चिदात्मनि विलापयेत् ॥

इत्याचार्य्यविधानात् स्थूलानां सूक्ष्मे लयः । पृथिव्यादिकमनाहतपर्य्यन्तं तेषामुक्तक्रमेण लये पृथिव्याश्रितत्वेन पादघ्राणेन्द्रिययोः पृथिवीप्रपञ्चसमुदा- यस्य च पृथिवीस्थाने विलापनम् । एवं जलस्थाने पाणिरसनेन्द्रियजलप्रपञ्चानाम्। वह्निस्थाने पायुचक्षुरिन्द्रियवह्निप्रपञ्चानाम् । वायुस्थाने उपस्थत्वगिन्द्रियवायु- प्रपञ्चानाम् । आकाशस्थाने वाक्श्रोत्रेन्द्रियाकाशप्रपञ्चानां लयः । आज्ञाचक्रे सूक्ष्ममहदहङ्कारादिकं तेषामुक्तक्रमेण कारणे लयः । ततः क्षकाराद्यकारान्तवर्णान् विलोमेन विलाप्य स्थूलसूक्ष्मक्रमात् सर्व्वमित्यत्र सर्व्वमित्युपादानात् ब्रह्ममात्राव- स्थितये आज्ञाचक्रोर्द्धस्थितपूर्व्वोपदर्शितबिन्दुबोधिन्यादिसकलकारणशरीरमपि विलोमेनादिकारणे परंबिन्दौ विलापयेदिति ।

तत्प्रकारमाह—

सङ्कल्पचैवं ततो न्यासस्थानाद्वर्णांश्च संहरेत् । प्रतिलोमे ळक्षलयो ळकारस्य हकारके ॥ हलयश्च सकारे च सलयश्च षकारके । क्रमेणैवमपर्य्यन्तं लयमुत्पाद्य यत्नतः ॥ इति ॥

तथा—

तदर्णौ संहरेद्बिन्दौ कलायान्तं नियोजयेत् । तां नादेनान्तरं नादं नादान्ते संहरेत् पुनः ॥ तमुन्मन्यां समायोज्य विष्णुवक्त्रे नयेच्च ताम् । तं पुनर्गुरुवक्त्रे तु योजयेत् साधकोत्तमः । ततश्च योजयेद्वर्णान्निलयेत् परमे शिवे ॥ इति ॥

विष्णुवक्त्रे पुंबिन्दौ ।

सूर्य्यबिन्दुर्म्मुखं प्रोक्तमधस्तादिन्दुपावकौ । इत्यादि । बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः ।

इत्यादिवचनयोरेकवाक्यतया तस्यैव वक्त्रत्वात् ।

नीत्वा तां पुंसि बिन्द्वात्मनि तमथ परात्मन्यथो कालतत्त्वे तद्वै शक्तौ चिदात्मन्यपि च नयतु तां केवले धाम्नि शान्ते ।

इति केशवाचार्य्यवचनैकवाक्यत्वाच्च । अत्र स्वस्वकारणे संहरणदर्शनात् नादान्तस्य व्यापकशक्तौ तामुन्मन्यां तां समन्यां तां विष्णुवक्त्रे इति बोध्यम् । एवंप्रकारेण वर्णानां संहरणे षट्चक्राणां संहारः पद्मदलानां वर्णमयत्वात् ।

तदुक्तं विश्वसारे—

आदिवर्णात्मकं पत्रं पद्मानां परिकीर्त्तितम् ॥ इति ॥

अथ वर्णपद्मोभयसंहरणप्रकारमाह सम्मोहनतन्त्रे—

वादिसान्तान् दलस्थार्णान् संहरेत् कमलासने । तं षट्पत्रमये पद्मे बादिलान्ताक्षरान्विते । स्वाधिष्ठाने समायोज्य बोधयेदाज्ञया गुरोः ॥ इत्यादि ॥ द्विपत्रे हक्षलसिते योजयित्वा ततः सुधीः । तदर्णौ संहरेद्बिन्दौ तं कलायां नियोजयेत् ॥ इत्यन्तवचनम् ।

लाक्षाभं परमामृतं परशिवात् पीत्वा पुनः कुण्डली नित्यानन्दमहोदयात् कुलपथान्मूले विशेत् सुन्दरी । तद्दिव्यामृतधारया स्थिरमतिः सन्तर्पयेद्दैवतं योगी योगपरम्पराविदितया ब्रह्माण्डभाण्ड- स्थितम् ॥ ५३ ॥

ततश्च मूलकमले चतुर्व्वर्णं संहृत्य तत्पद्मं स्वाधिष्ठाने संहरेत् । एवंक्रमेणाज्ञा- चक्रस्थहक्षपर्य्यन्तं संहृत्य तत्पद्मं बिन्दौ बिन्दुं बोधिन्याम् एवं पूर्व्ववत् सर्व्वं परंबिन्दौ विलापयेदिति । एवञ्चाज्ञाचक्रसंहरणे तत्कर्णिकास्थहाकिनीतरलिङ्ग- प्रणवादीनां निराधारस्थित्यसम्भवात् प्रकृतिपर्य्यन्तसंहरणानन्तरं तानपि परंबिन्दौ संहरेत् । शुद्धपद्मसदने किम्भूते ? मोक्षे धामनि मुक्तिसम्पादकस्थाने इत्यर्थः । योगीन्द्रं विशेषयति गुरुपादपद्मयुगलालम्बीति । गुरूपदेशेनैव सर्व्वसिद्धिरित्य- तस्तत्पदाश्रितः सन्निति भावः ।

समाधौ यत इति । समाधिलक्षणमाह कुलार्णवे—

यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्मृतम् । स्वरूपशून्यं यद्ध्यानं तत् समाधिर्व्विधीयते ॥

तथान्यत्र—समत्वभावना नित्यं जीवात्मपरमात्मनोः । समाधिमाहुर्म्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ॥ इति ॥

“ योगश्चित्तवृत्तिनिरोधः ” इति पातञ्जलसूत्रम् । तस्मिन् यतः तदभ्यासयुक्त इत्यर्थः ॥ ५२ ॥

उक्तप्रकारसकलयोगचिन्तनानन्तरं यत्कर्त्तव्यं तदाह लाक्षाभमिति । अस्यार्थः । कुण्डलिनी सुन्दरी परशिवात् परमामृतं पीत्वा नित्यानन्दमहो-

(५३) लाक्षाभमिति । इदानीमस्या आगमनं स्वस्थाने इति तदाह सा कुण्डलिनी पूर्णानन्दस्य महान् उदयो यस्मात् परमशिवात् सदाशिवात् परमामृतं

दयान्निःसृत्य कुलपथात् चित्रिणीनाड़ीमध्यस्थब्रह्मपथं प्राप्य मूले मूलाधारे पुनः प्रविशेदित्यन्वयः । पीत्वेति पूर्व्वोक्ततत्तद्ध्यानानन्तरं शिवशक्त्योः सामरस्यं विभाव्य सामरस्यानन्देन परशिवादुत्पन्नपरमामृतेन कुण्डलिनीं तर्पयेत् । तत्तर्पणामृतं पीत्वेत्यर्थः ।

साङ्गत्यन्तु तयोः कृत्वा पाययित्वा परामृतम् ॥

इति पूर्व्वोक्तवचने पाययित्वेत्यनेन पानकार्य्यप्रेरणबोधनात् ।

अमृतं विशेषयति लाक्षाभमिति । अलक्तरसवद्रक्ताभमित्यर्थः । नित्या- नन्दमहोदयादिति नित्यानन्दस्य महोदयो महाप्रकाशो यत्र तस्मादित्यर्थः । मूले विशेदिति । येन प्रकारेणोत्ताननं पुनस्तेन प्रकारेण मूलाधारे आनयनम् । तेन यदा लिङ्गादिभेदक्रमेणोर्द्ध्वं गच्छति तदा तद्रूपेणैव पुनराधारमायाति ।

तदुक्तं श्रीमदाचार्य्यस्वामिना—

सुधाधारासारैश्चरणयुगलान्तर्व्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसा । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ इति ॥

अत्र श्लोके रसाम्नायमहसेति । आम्नायते कथ्यते विधीयत इति यावत् । तेनाम्नायो विधानम् महः प्रकाशः । पुनरित्यनेन पूर्व्वरूपरसविधानप्रकाशेन स्वां भूमिं मूलाधारमवाप्य इत्यर्थात्तथा प्रतीयते । लयक्रमेण गमने तु पुनः सृष्टिक्रमेणागमनम् ।

तदुक्तं यथा—ततः सा कुण्डली शक्तिर्मुद्राकारा सुरेश्वरी । पुनस्तेन प्रकारेण गच्छत्याधारपङ्कजे ॥ इति ॥

पीत्वा तेनैव कुलपथेन मूले मूलाधारपद्मे । सा कीदृशी ? सुन्दरी । अमृतं कीदृशम् ? लाक्षाभं रजःसम्बन्धात् ईदृशी भावनैव कर्त्तव्या महाग्रन्थोक्तत्वात् । अतो योगी ध्यानपरम्पराक्रमेण ज्ञातया तद्दिव्यामृतधारया स्थिरमतिः सन् ब्रह्माण्ड- भाण्डस्थितं सर्व्वदैवतं सन्तर्पयेत् ॥ ५३ ॥

ज्ञात्वैतत् क्रममुत्तमं यतमना योगी यमाद्यैर्युतः श्रीदीक्षागुरुपादपद्मयुगलामोदप्रवाहोदयात् । संसारे न हि जन्यते न हि कदा संक्षीयते संक्षये नित्यानन्दपरम्पराप्रमुदितः शान्तः सतामग्रणीः॥५४॥

तथा भूतशुद्धिप्रकरणे—

परात्मनः पृथिव्यादितद्गतत्त्वानि च क्रमात् । जीवं कुण्डलिनीं चापि स्वस्थानं प्रापयेत् क्रमात् ॥ इति ॥

विशेषस्तु—प्रकाशमाना प्रथमप्रयाणे प्रतिप्रयाणेऽप्यमृतायमाना ॥ इति ॥

तदनन्तरं तद्दिव्यामृतधारया पूर्व्वदर्शितशिवशक्तिसामरस्योत्पन्नपरमामृतस्य ब्रह्म- रन्ध्रान्मूलाधारपर्य्यन्तगलितधारया । अतएवोक्तं तृतीयश्लोके—“ ब्रह्मद्वारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेशम् ” इति । स्थिरमतिः स योगी । दैवतम् इष्टदैवतं षट्चक्रस्थडाकिन्यादिदैवतञ्च सन्तर्पयेदित्यर्थः ।

तेनामृतेन देवेशि तर्पयेत् परदेवताम् । षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ॥

इति पूर्व्वोक्तवचनात् । अमृतधारां विशेषयति । योगपरम्पराविदितयेति । योगस्य गुरूपदेशपरम्पराप्राप्तत्वात् योगपरम्परेत्युक्तिरिति भावः । तेन गुरूपदे- शपरम्पराविदितयेति फलितार्थः । अमृतं विशेषयति ब्रह्माण्डभाण्डस्थितमिति ब्रह्माण्डस्य भाण्डं आधारपात्रं कुण्डलिनी तस्याः सर्व्वेषां योनिरूपत्वात् । तत्र स्थितं कुण्डलिनीपात्रस्थितमित्यर्थः ॥ ५३ ॥

उक्तयोगक्रमज्ञानफलमाह ज्ञात्वैतदिति । श्रीदीक्षागुरुपादपद्मयुगलामोद- प्रवाहोदयादिति । आमोद आनन्दः तस्य प्रवाहोऽविच्छिन्नोत्तरोत्तरसम्बन्धस्तेन

(५४) ज्ञात्वैतदिति । एतत् उत्तमं क्रमं ज्ञात्वा संयतमनाः सन् योगी जनः यमाद्यभ्यासेषु श्रीदीक्षागुरुपादपद्मयुगलामोदप्रवाहोदयात् संसारे न हि जन्यते ।

योऽधीते निशि सन्ध्ययोरथ दिवा योगी स्वभावस्थितो मोक्षज्ञाननिदानमेतदमलं शुद्धञ्च गुप्तं परम् । श्रीमत् श्रीगुरुपादपद्मयुगलालम्बी यतान्तर्मना- स्तस्यावश्यमभीष्टदैवतपदे चेतो नरीनृत्यते ॥ ५५ ॥

नित्यानन्द इति यावत् तस्योदयो यस्मात्तादृशपादपद्मयुगलाज्ज्ञात्वेत्यर्थः । दीक्षागुरुरिति प्रथमोपस्थितत्वेन गौरवातिशयेन च तद्ग्रहणम् । तदभावे अन्यगुरोरपि ज्ञातव्यम् ।

अतएवोक्तम्—मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्व्वन्तरं व्रजेत् ॥ इति ॥

नित्यानन्दपरम्पराप्रमुदित इति । नित्यानन्दधारारूपहर्षयुक्त इत्यर्थः । सतां योगिरूपप्रशस्तजनानामग्रगण्य इत्यर्थः ॥ ५४ ॥

षट्चक्रश्लोकाध्ययनफलमाह । योऽधीत इति । स्वभावे स्थित आत्म- भावे नियुक्त इत्यर्थः । यतान्तर्म्मना इति यतं योगाभ्यासेन स्थिरीकृतम् अन्तरात्मनि मनो येन तादृश इत्यर्थः । स्पष्टमन्यत् ॥ ५५ ॥ * ॥

इति श्रीपूर्णानन्दयतिविरचितश्रीतत्त्वचिन्तामण्यन्तर्गत- षट्चक्रविवरणश्लोकार्थपरिष्कारिण्याम् अष्टमं प्रकरणं समाप्तम् ॥ * ॥

न हि कदा संक्षये संक्षीयते । प्रलयेऽपि तस्य क्षयो नास्तीत्यर्थः । सः कीदृशः ? पूर्णानन्दपरम्परया प्रमुदितं स्वान्तं यस्य सः तथा । सतामग्रणीरपि भवति । [अत्र मते “पूर्णानन्दपरम्पराप्रमुदितस्वान्तः ” इति पाठः ।]

(५५) योऽधीते इति । अथैतत् सुगुप्तक्रमं यः स्वीयभावस्थितः सन् निशि सन्ध्ययोः दिवा अधीते तस्यावश्यमेव अभीष्टदैवतपदे चित्तं मुहुर्नृत्यति । यतं निश्चलम् अन्तर्म्मनो यस्य स तथेति ।

इति षट्चक्रभेदटिप्पणी समाप्ता ।

पादुकापञ्चकम्

शिवोक्तम्

ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे ॥ १ ॥

पञ्चवक्त्रकृतपञ्चपादुकास्तोत्रमंहसमुदायनाशकम् । तस्य रोचिरमलाख्यटीकया कोऽपि कालीचरणः प्रकाशयेत् ॥

अथ त्रिलोकोद्धारकर्त्ता सदाशिवः स्तोत्ररूपेण श्रीगुरुध्यानयोगं कथयिष्यन् तदर्थं प्रथमतो गुरोरधिवासस्थानं निरूपयति ब्रह्मरन्ध्रेति । अस्यार्थः ब्रह्मरन्ध्रसरसीरुहस्य ब्रह्मरन्ध्रविशिष्टं यत् सरसीरुहं सहस्रदलकमलं तस्योदरे तन्मध्ये तत्कर्णिकायामिति यावत् । द्वादशार्णसरसीरुहं द्वादशवर्णविशिष्टं पद्मं भजे सेवे इत्यर्थः । अत्र भजे इति क्रियया अस्मत्कर्त्तृत्वोपस्थितेः शिववाक्यात् शिवेन स्वीयभजनीयत्वं दर्शयता सर्व्वेषां शिवोक्तमन्त्रोपासकानां भजनीयत्वं सूचितम् । एवं सर्व्वत्र बोध्यम् ।

ब्रह्मरन्ध्रस्थानमाह कङ्कालमालिनीतन्त्रे सहस्रदलपद्ममुपक्रम्य—

तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्य्यस्य मण्डलं तत्र चन्द्रमण्डलमेव च । ततो वायुर्म्महानामा ब्रह्मरन्ध्रं ततः स्मृतम् ॥ इति ॥

केचित्तु तादृशपद्मोदरे तत्कर्णिकास्थत्रिकोणोदरे इति वदन्ति । तन्न । अत्रोदरशब्दस्य मध्यवाचकत्वात् पद्ममध्यं कर्णिकैव प्रतीयते न तु कर्णिका- मध्यत्रिकोणमध्यम् अनुपस्थितेः ।

व्यक्तमाह श्यामासपर्य्याधृतवचनम्—

शिरःपद्मे सहस्रारे शुक्लवर्णे त्वधोमुखे । तरुणारुणकिञ्जल्के सर्व्ववर्णविभूषिते । कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे ॥ इत्यादि ॥

अत्र कर्णिकान्तःपुटे इति सुव्यक्तम् । द्वादशार्णेति द्वादशवर्णाः सहखफ्रें- हसक्षमलवरयूम् इति गुरुमन्त्रात्मकद्वादशवर्णाः तद्विशिष्टपद्ममिति तन्त्रज्ञाः । केचित्तु द्वादशवर्णो वाग्भवबीजं तद्युक्तपद्ममिति वदन्ति ।

तन्न तथात्वे—

कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे । तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे ॥ अकथादित्रिरेखीये हलक्षत्रयभूषिते । हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् ॥

इति वचने मन्त्रमये वाग्भवबीजरूपगुरुमन्त्रमये इत्यनेन द्वादशार्णेत्यस्य पौनरुक्त्यापत्तेः । द्वादशार्णेति द्वादश अर्णाः वर्णाः यत्र तदिति व्युत्पत्त्या सरोरुहे द्वादशवर्णयोगः प्रतीयते ।

यद्यप्यत्र द्वादशवर्णानां विशेषाभिधानं तद्योगस्थानञ्च नाभिहितं तथापि—

हंसाभ्यां परिवृत्तपत्रकमले दिव्यैर्ज्जगत्कारणै- विश्वोत्तीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया ।

इति गुरुगीतायां हंसाभ्यां परिवृत्तपत्रेत्यनेन तादृशसरोरुहस्य हंसयुक्तपत्रं प्रतीयते । तयोरेव षडावृत्त्या द्वादशवर्णा भवन्ति तद्युक्तं पत्रम् । अत्र

तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डली- भावलक्ष्यमवलालयं भजे ॥ २ ॥

पत्रावच्छेदे वर्णयोगकथनात् पत्रस्यापि द्वादशसंख्यकत्वं व्यक्तीभूतमिति सुधीभिर्भाव्यम् । द्वादशार्णसरोरुहं विशेषयति नित्येति । नित्यलग्नमविना- भावसम्बन्धेन सहस्रदलपद्मेन मिलितम् । अवदातं शुक्लवर्णमद्भुतं ब्रह्मतेजो- मयत्वादिनात्याश्चर्य्यम् । कुण्डलीविवरकाण्डमण्डितमिति । कुण्डल्या विवरं सहस्रदलकमलकर्णिकास्थशिवसमीपे कुण्डलीगमनपथरूपं छिद्रम् । तदधिकरण- भूतकाण्डं नालं चित्रिणी नाड़ी तेन भूषितम् । यथा मृणालोपरि पद्मस्थि- तिस्तद्वत् चित्रिणीनाड़ीरूपमृणालभूषितमित्यर्थः ॥ १ ॥

उक्तपद्मकर्णिकायामकथादित्रिकोणमध्ये गुरुश्चिन्तनीयः अतस्तज्ज्ञानाय त्रिकोणं निरूपयिष्यन्नाह तस्येति । अस्यार्थः कन्दलितकर्णिकापुटे इति । कन्दलं परस्पराक्रमणपूर्व्वकं वाग्विवादः । अत्र लक्षितलक्षणया परस्पराक्रमणमात्रं गृह्यते । पुटम् आधारभूतस्थानम् । ततश्च तस्य पूर्व्वोक्तसहस्रदलकमलद्वादश- दलकमलोभयस्य कन्दलिते परस्पराक्रान्ते कर्णिकापुटे कर्णिकात्मकाधारस्थाने अवलालयं भजे सेवे इत्यन्वयः । केचित्तु तस्य द्वादशदलस्येति व्याख्यायन्ति । तन्न तथात्वे श्रीनाथस्य सहस्रदलकमलद्वादशदलकमलोभयस्थले स्थितिविधाय- कवक्ष्यमाणवचनानामसङ्गत्यापत्तेः ।

अवला शक्तिः सा चात्र बिन्दुत्रयाङ्कुरभूतवामाज्येष्ठारौद्रीनामक- त्रिशक्तिरूपरेखात्रयमिलितत्रिकोणरूपा कामकला तद्रूपालयमित्यर्थः ।

कामकलायास्तद्रूपत्वमाह यामले—

अथ कामकलां वक्ष्ये तत्तद्देवात्मरूपकम् ।

इत्युपक्रम्य—

त्रिबिन्दुः सा त्रिशक्तिः सा त्रिमूर्त्तिः सा सनातनी ।

इत्याद्युक्तम् । सा कामकला पूर्व्वदर्शितत्रिशक्तिरूपा इत्यर्थः ।

अवलालयं विशेषयति कॢप्तरेखमकथादिरेखयेति । अकारादिषोड़शस्वरैः वामा रेखा ककारादिषोड़शवर्णैर्ज्येष्ठा रेखा थकारादिषोड़शभी रौद्री रेखा इति रेखात्रयेण कॢप्ता चिह्निता रेखा यत्र तादृशावलालयमित्यर्थः ।

तदुक्तं बृहच्छ्रीक्रमे कामकलाप्रकरणे—

बिन्दोरङ्कुरभावेन वर्णावयवरूपिणी ॥ इति ॥

पुनः किम्भूतम् ? कोणलक्षितहलक्षमण्डलीभावलक्ष्यमिति । कोणेषु उक्तत्रिको- णस्यान्तरालेषु सम्मुखदक्षिणवामकोणेषु लक्षितैः प्रकाशितैः हलक्षवर्णैः मण्डली- भावेन तत्तद्वर्णाङ्कितस्थानरूपेण लक्ष्यते ज्ञायते असौ तादृशमित्यर्थः । अत्र त्रिकोणस्य विशेषज्ञानं विना सम्यग्ध्यानं न भवतीत्यतः प्रमाणान्तरेण त्रिकोणं विशेषयति । अत्र त्रिकोणं वामावर्त्तेन लेखनीयम् ।

तदुक्तं शाक्तानन्दतरङ्गिण्याम्—

वामावर्त्तेन विलिखेदकथादित्रिकोणकम् ॥ इति ॥

काल्यूर्द्ध्वाम्नाये—

त्रिबिन्दुं परमं तत्त्वं ब्रह्मविष्णुशिवात्मकम् । वर्णमयं त्रिकोणन्तु जायते बिन्दुतत्त्वतः ॥ इति ॥

तथा—

अकारादिविसर्गान्ता ब्रह्मरेखा प्रजापतिः । ककारादितकारान्ता विष्णुरेखा परात्परा । थकारादिसकारान्ता शिवरेखा त्रिबिन्दुतः ॥

तत्पुटे पटुतड़ित्कड़ारिम- स्पर्द्धमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मयं वपु- र्नादबिन्दुमणिपीठमण्डलम् ॥ ३ ॥

तन्त्रजीवने—

रजःसत्त्वतमोरेखा योनिमण्डलमण्डिता ॥

तथा—

उपरिष्टात् सत्त्वरेखा रजोरेखा स्ववामतः । तमोरेखा दक्षभागे रेखात्रयमुदाहृतम् ॥

एतद्वचनपर्य्यालोचनयापि अकथादीनां वामावर्त्तत्वमायातम् ।

स्वतन्त्रतन्त्रे—

अकथादित्रिपंक्त्या तु हळक्षमध्यमण्डितम् ॥ इति ॥

एतेन हळक्षवर्णानां त्रिकोणमध्ये स्थितिरित्युक्तम् । अलं विस्तरेण ॥ २ ॥

उक्तत्रिकोणमध्ये मणिपीठोपरि गुरुस्थितिरित्यतस्तत्र मणिपीठं वर्णयति तत्पुट इति । अयमर्थः । तत्पुटे उक्तत्रिकोणमध्ये नादबिन्दुमणिपीठमण्डलं हृदि मनसि चिन्तयामीत्यन्वयः । नादबिन्दुमणिपीठमण्डलमिति । नादबिन्दु- भ्यां सह मणिपीठमण्डलम् अथवा नादश्च बिन्दुश्च मणिपीठमण्डलञ्च तदित्यर्थः । केचित्तु नादबिन्दुरूपमणिपीठमण्डलमिति वदन्ति । तन्न तथात्वे नादस्य शुक्ल- वर्णत्वात् बिन्दोः रक्तवर्णत्वात् पटुतड़ित्कड़ारिमेत्यादिविशेषणस्यासंलग्नापत्तेः ।

तथाहि—

परशक्तिमयः साक्षात्त्रिधासौ भिद्यते पुनः । बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः ॥

इति शारदावचनस्य परशक्तिमयो बिन्दुः ते बीजनादबिन्दवः वह्नीन्द्वर्क- स्वरूपिणः इत्यर्थकत्वे नादस्य चन्द्रस्वरूपत्वात् शुक्लत्वं बिन्दोः सूर्य्यस्वरूपत्वात् रक्तत्वमायातम् ।

व्यक्तमाह षट्चक्रवर्णने पूर्णानन्दः—

तदूर्द्ध्वे नादोऽसौ बलधवलसुधाधारसन्तानहासी ॥ इति ॥

बृहच्छ्रीक्रमे—

बालसूर्य्यप्रतीकाशमासीद्बिन्दुमदक्षरम् ॥ इति ॥

एवञ्च तयोः शुक्लरक्तत्वे मणिपाटलप्रभत्वं सर्व्वथाऽसम्भवम् । अतः प्रदर्शितार्थ एव साधीयान् । एवञ्चाधो नादः ऊर्द्ध्वे बिन्दुः मध्ये मणिपीठमण्डलं चिन्त- नीयमिति व्यवस्था ।

व्यक्तमाह कङ्कालमालिनीतन्त्रे गुरुध्याने—

सहस्रदलपद्मस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादबिन्दोर्म्मध्ये सिंहासनोज्ज्वलम् ॥ तस्मिन्निजगुरुं मित्यं रजताचलसन्निभम् ॥ इत्यादि ॥

मणिपीठमण्डलं विशेषयति पटुतड़ित्कड़ारिमस्पर्द्धमानमणिंपाटलप्रभमिति । स्वकार्य्यसुसम्पादनयोग्यत्वं पटुत्वम् । ततश्च स्वप्रकाशरूपस्वकार्य्यसुसम्पादन- विरोधिदोषराहित्येन सर्व्वव्यापकातिप्रकाशमानानां तड़ितां कड़ारिम्ना सदृशकड़ा- रिम्ना पिङ्गलवर्णेन स्पर्द्धमानैर्म्मणिभिः पाटलप्रभमित्यर्थः । मणिपीठस्य मणिमय- सर्व्वाङ्गत्वात् । अस्य नादबिन्दुमणिपीठमण्डलस्य वपुश्चिन्मयं ज्ञानमयमित्यर्थः । अन्ये तु चिन्मयं वपुः द्वादशस्वरस्वरूपं वाग्भवबीजं गुरुमन्त्रं वपुश्चिन्तयामीति वदन्ति । तन्मन्दम् । गुरोः शुक्लवर्णत्वात् तद्बीजस्यापि शुक्लत्वेन मणिपाटल- प्रभत्वविशेषणं न सङ्गच्छते ॥ ३ ॥

ऊर्द्ध्वमस्य हुतभुक्शिखात्रयं तद्विलासपरिबृंहणास्पदम् । विश्वघस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥ ४ ॥

हंसपीठोपरि नादबिन्दुमध्यस्थमणिपीठोर्द्ध्वत्रिकोणे गुरोरधिवासः । अत- स्तयोर्ज्ञानार्थं हंसत्रिकोणयोः स्वरूपं ज्ञापयिष्यन्नाह ऊर्द्ध्वमिति । अस्यार्थः । अहम् आदिहंसयोर्युगं व्यामृशामि । एवमस्य मणिपीठस्योर्द्ध्वे हुतभुक्शिखात्रयं व्यामृशामि । तद्विलासेन हुतभुक्शिखात्रयस्य सुप्रकाशेन परिबृंहणास्पदम् उद्दिश्यमानमणिपीठरूपास्पदं व्यामृशामीति तत्प्रतिबन्धकविषयचिन्तादित्यागेन स्वस्वस्थाने स्थिरतरं भावयामीति प्रत्येकं क्रियान्वयः ।

हुतभुक्शिखात्रयमिति । हुतभुक्शिखादित्रयं हुतभुक्शिखात्रयम् । शाकपार्थिवादित्वात् मध्यपदलोपे तत्पदसिद्धिः । हुतभुक् वह्निस्तच्छिखा वह्निबिन्दोरङ्कुरभूतदक्षिणादीशपर्य्यन्तगता वामा रेखा । आदिना ईशान- कोणस्थचन्द्रबिन्दोरङ्कुरभूतेशानादिमरुत्कोणपर्य्यन्तगता ज्येष्ठा रेखा । मरु- त्कोणस्थसूर्य्यबिन्दोरङ्कुरभूततदादिवह्निबिन्दुसङ्गता रौद्री रेखा । एवं त्रिबिन्दु- त्रिरेखामिलितत्रिकोणं कामकलारूपम् ।

तदुक्तं बृहच्छ्रीक्रमे—

बिन्दोरङ्कुरभावेन वर्णावयवरूपिणी । बिन्द्वग्रे कुटिलीभूता याम्यादीशानमागता ॥ मनोरमा शक्तिरूपा सा शिखा चित्कला परा । शक्तीशानगता रेखा प्रत्यगाग्नेयमात्रगा ॥ ज्येष्ठा सा परमेशानी त्रिपुरा परमेश्वरि ।

व्यक्तीभूय पुनर्व्वामे प्रथमाङ्कुरमागता । इच्छया नादसंलग्ना रौद्री शृङ्गाटमागता ॥ इति ॥

सा शिखेति आग्नेयमात्रगा वह्निसम्बन्धिनी मात्रा सा शिखा वह्निशिखेत्यर्थः ।

माहेश्वरीसंहितायाम्—

सूर्य्यश्चन्द्रस्तथा वह्निरिति बिन्दुत्रयं भवेत् । ब्रह्मा विष्णुस्तथा शम्भुरिति रेखात्रयं मतम् ॥ इति ॥

एतत्त्रिकोणमध्ये गुरुस्थितिं स्पष्टमाह प्रेमयोगतरङ्गिणीधृतवचनम् ।

सहस्रदलमुपक्रम्य—

तन्मध्ये तु त्रिकोणन्तु विद्युदाकारमुत्तमम् । बिन्दुद्वयञ्च तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे च शिवः परमसंज्ञकः ॥ इति ॥

अतएव शङ्कराचार्य्येणापि आनन्दलहर्य्याम् इदं सुव्यक्तमभिहितम् । श्रीनाथस्य विसर्गारूढ़त्वात् इति ललितारहस्यकारेणोक्तञ्च । विसर्गस्तु त्रिकोणोर्द्ध्ववर्त्ति- चन्द्रसूर्य्यरूपबिन्दुद्वयमिति ।

आदिहंसयोर्युगमित्यत्रादिनान्तरात्मसंज्ञकपरमहंस एव गृह्यते न तु दीपकलिकाकारजीवात्महंसः । अयं हंसः प्रकृतिपुरुषरूपः ।

तदुक्तमागमकल्पद्रुमे पञ्चशाखायाम्—

हङ्कारो बिन्दुरित्युक्तो विसर्गः स इति स्मृतः । बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः ॥ पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ इति ॥

केचित्तु अस्य मणिपीठस्योर्द्ध्वं आदिहंसयोर्युगं व्यामृशामीति व्याख्यायन्ति । तन्मन्दं पूर्व्वोक्तकङ्कालमालिनीवचनबोधितहंसोर्द्ध्वं नादबिन्दुमध्यस्थमणिपीठे नादबिन्दोरधःस्थहंसस्थितेः सर्व्वत्रासम्भवात् । एतेन हुतभुक्सिखासखमिति

तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥ ५ ॥

केषाञ्चित् कल्पितपाठो निरस्तः । तथात्वे ऊर्द्ध्वमस्येत्यस्य वैयर्थ्यापत्तेः । यद्वा अस्य मणिपीठमण्डलस्योर्द्ध्वं आदिहंसयोर्युगं व्यामृशामि । कङ्कालमालिनीवचने नादबिन्दुमध्यस्थितमणिपीठाधःस्थले हंसस्थितिः प्राप्ता । अत्र मणिपीठोर्द्ध्वस्थिति- कथने महान् विरोधः । अतस्तयोरविवादाय हंसं विशेषयति हुतभुक्शिखात्रयमिति । ततश्चाधःस्थले हंस इत्यानुपूर्व्विकस्य स्थितिः । ऊर्द्ध्वम् पूर्व्वोक्तत्रिकोणाकार- कामकलारूपेण परिणतस्य तस्य स्थितिरित्यविरोधः कामकलाया हंसरचित- मूर्त्तिकत्वात् ।

पुनर्व्विशेषयति विश्वघस्मरमहोच्चिदोत्कटमिति ।

ङभक्षेलृघसौ चाथ घसिङक्षरणे व्युसक् ।

तथाच—

देञ् याचे चिदिह्लांदे दीप्तौ च्युदकनुदिच्छिदि वा ।

इति धातुपाठात् घसधातोर्भक्षणार्थत्वम् । चिदो दीप्त्यर्थत्वम् । ततश्च विश्वानां घस्मरा भक्षिका अर्थात् संहारिका या महोच्चित् महाप्रकाशस्तया उत्कटं दूरतरं सर्व्वाधिकबलवदित्यर्थः ॥ ४ ॥

श्रीनाथचरणारविन्दचिन्तनाधिकरणपीठं निरूप्येदानीं तद्ध्यानयोगं सूच- यंस्तौति तत्रेति द्वाभ्याम् । अस्यार्थः तत्र मणिपीठस्थत्रिकोणमध्ये नाथचरणार- विन्दयोर्द्वन्द्वं मानसं स्मरति ध्यायते इत्यन्वयः ।

Commentary
page 198

No commentary for this page.