The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)
आज्ञाचक्रमाह आज्ञानामेत्यादिना । गौतमीये—“आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ।” चन्द्रतुल्यक्लेदजनकं ध्यानस्थानं प्रकाशस्वरूपम् । हक्षाभ्यां विशुद्धाभ्यां कलाभ्याम् अक्षराभ्यां युक्तं द्विपत्रम् अतीवशुभ्रम् । मायातन्त्रेऽपि—“आज्ञाख्यं द्विदलं शुभ्रम्” इति ।
दक्षिणामूर्त्तावपि—
आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचिन्तयेत् ।
हाकिनीति ।
तन्त्रान्तरेऽपि—
आज्ञापुरं शारदचन्द्रशुभ्रं हाकिन्यथोक्ता शिवगेहमेतत् ।
विद्या पुस्तकम् । मुद्रा ज्ञानमुद्रा अङ्गुष्ठतर्ज्जनीमिलिता ।
तन्त्रे—
आज्ञास्थां शुक्लवर्णा डमरुकसहितामक्षसूत्रं कपालं विद्यां मुद्रां दधानां त्रिनयनविलसदुक्तषट्कोणयुक्ताम् (?) । इति ।
सूक्ष्मञ्च तत्प्रकाशस्वरूपञ्चेति तत् तथा ।
मायातन्त्रेऽपि—
आज्ञाख्यं द्विदलं शुभ्रं कर्णिकायां मनोलयम् । इति ।
सिद्धं नित्यं सिद्धशब्दो नित्यार्थः इति वैयाकरणाः । इतरशिवपदं इं कालं तरति इति इतरं शिवस्य परशिवस्य पदं इतरञ्च तत् शिवपदञ्चेति तत् ।
लिङ्गचिह्नेन लिङ्गाकारेण प्रकाशो यस्य तत् । विद्युन्मालेव प्रकाशो यस्य तत् ।
योगिनीहृदये—
इतरञ्च पुनस्तथा शरच्चन्द्रनिभं सदा । इति ।
आनन्दलहर्य्यामपि—
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
ताराषोढ़ान्यासाधिकारतन्त्रे—
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट् शिवाः परिकीर्त्तिताः ॥
मूलाधारादिविशुद्धपद्मेषु पञ्चशिवन्यासमभिधाय—
आज्ञाचक्रे च देवेशि हक्षवर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥ इत्युक्तम् ॥
स च सहस्रारनिर्गुणपरशिवस्यांशस्वरूपी अपरः शिवो ज्ञेयः । अत एव ब्रह्मशिवत्वात् ब्रह्मस्वरूपमित्युक्तम् । न तु ब्रह्म इत्युक्तम् । परमकुलपदम् एतत् पर्य्यन्तं परमकुलपदमित्युपसंहारेणोक्तम् ।
तथाच श्रीमते—
तत्रैतद्दक्षिणं षट्कमाज्ञापूर्व्वं कुलोद्भवम् । इति ।
आनन्दलहर्य्यामपि—
महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥
अत्र कं जलं स्वाधिष्ठाने मणिपूरे हुतवहमिति व्यत्ययेनान्वयः । ब्रह्मसूत्रेति ब्रह्मसूत्रस्य ब्रह्मनाड्याः प्रबोधो यस्मात् तत् । वेदानामादिबीजं प्रणवः तदत्र चिन्तयेत् । विलसितपरमोऽपूर्व्वसिद्धप्रसिद्धो यस्य सः । अत्रान्तरात्मा अस्तीत्याह शुद्धबुद्धेत्यादिना । शुद्धबुद्धः शुद्धस्वभावः स चासौ अन्तरात्मा
चेति सः । प्रदीपस्येव आभा दीप्तिर्यस्य ज्योतिषः एवम्भूत ज्योतिःप्रणवाभ्यां विरचितौ स्वरूपवर्णौ यस्य स वर्णशब्दः ।
श्रीक्रमेऽपि—
भ्रूमध्ये अन्तरात्मानमरूपंसर्व्वकारणम् । ॐकारज्योतीरूपन्तु प्रदीपाभं जगन्मयम् ॥
अत एव प्रकाशः ज्योतिःस्वरूपः । तदूर्द्ध्वे पूर्व्वोक्तान्तरात्मोर्द्ध्वे अर्द्धचन्द्रः चन्द्रार्द्धे बिन्दुरूपी मकारः तदुपरि नाद इति व्यत्ययेनान्वयः । एवं नाद- प्राग्बोधिनी लिखिष्यमाणयोगिनीहृदयात् ज्ञेया । असौ नादः अतीवशुक्ल इत्याह वनेत्यादिना । वनं जलं तद्वत् धवलवर्णः यश्च पीयूषाधारश्चन्द्रः तत्समूहहासी तदधिकशुक्ल इति भावः ।
योगिनीहृदयेऽपि—
इन्दौ तदर्द्धे बोधिन्यां नादे नादान्त एव च । इति ।
इन्दौ बिन्दौ तदर्द्धे अर्द्धचन्द्रे ।
स्वच्छन्दसंग्रहेऽपि—
तत्र बिन्दोर्यथा बिन्द्वावरणे स तदूर्द्ध्वतः । सूर्य्यकोटिप्रतीकाशम् अतिदप्तं महद्गुणम् ॥
तन्मध्ये दशकोटीनां संख्या योजनपञ्चकम् । तत्कर्णिकायामासीनः शान्त्यतीतेश्वरः प्रभुः ॥
पञ्चवक्त्रो दशभुजो विद्युत्पुञ्जनिभाकृतिः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरनुक्रमात् ॥
परिवार्य्य स्थिताश्चित्राः (श्वैताः) शान्त्यतीतेश्वरस्य च । वामभागे समासीना शान्त्यतीता मनोन्मनी ॥
पञ्चवक्त्रधराः सर्व्वा दशबाह्विन्दुभूषणाः । बिन्दुतत्त्वं समाख्यातं कोट्यर्ब्बुदशतैर्व्वृतम् ॥
अर्द्धचन्द्रं तदूर्द्ध्वन्तु बोधिनी तस्य चोपरि । ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमलापि च ॥
अर्द्धचन्द्रोत्थिता ह्येताः कलाः पञ्च प्रकीर्त्तिताः । बन्धती बोधिनी बोधा ज्ञानबोधा तमोपहा ॥
निबोधिताः(का)कलाः पञ्च कण्ठिताः सुरसुन्दरि । ब्रह्मादिपरमेशानां परप्राप्तिनिबोधनात् । निबोधिकेति सा प्रोक्ता तस्या भेदाद्वरानने ॥
बोधिन्याख्यं यदुक्तं ते नादस्तस्योपरि स्थितः । पद्मकिञ्जल्कसङ्काशः कोटिसूर्य्यसमप्रभः ॥
पुरैः परिवृतोऽसंख्यैर्म्मध्ये पञ्चकलावृतः । इन्धिका दीपिका चैव रेचिका मोचिका तथा ॥
ऊर्द्ध्वगा मध्यगा त्रासा पञ्चमी परमा कला । चन्द्रकोटिसमप्रख्यं तन्मध्येऽर्बुदयोजनम् ॥
पद्ममध्ये समासीनमूर्द्ध्वगामिनमीश्वरम् । चन्द्रायुतप्रतीकाशं पञ्चवक्त्रं त्रिलोचनम् ॥
ऐन्दवाद्यैरावृतं च शूलपाणिं जटाधरम् । तस्योत्सङ्गगतामूर्द्ध्वगामिनीं परमां कलाम् ॥
ध्यायेदिति शेषः । निरालम्बामिति तद्वक्ष्यमाणाम् ।
टीकाकारधृततन्त्रे—
त्यजेत् शैथिल्यमङ्गानां नासाग्रे रोपयेद्दृशौ । मुखं विवृणुयात् किञ्चित् दन्तैर्द्दन्तान् न संस्पृशेत् ॥
रसनामन्तरा कुर्य्यादनङ्गे धारयेन्मनः । इयं सा परमा मुद्रा निरालम्बेति पञ्चमी ॥
इह स्थाने एवं मुद्रां बद्ध्वा सदाभ्यासात् धृतपवनात् पवनसुहृदां वह्नीनां कलाः पश्यति । तदनन्तरं तन्मध्यान्तःप्रविलसितरूपान् ज्वलद्दीपाकारान्
पश्यति । पश्चात् नवीनसूर्य्यप्रकाशाकारं गगनभूमध्यमिलितं पश्यति । इह स्थाने भगवान् साक्षात्कारविषयो भवति ।
ननु सर्व्वव्यापित्वात् अपरिच्छिन्नस्य ईश्वरस्य कथं परिच्छित्तिस्थाने अभिव्यक्तिरित्यत आह राहुरिति । यथा अम्बरगतो राहुर्न दृश्यते किन्तु शशिसूर्य्ययोर्म्मण्डलमेव दृश्यते तथायं चिदात्मा एवम्भूतकर्म्मविशेषकरणात् अत्रैव साक्षाद्भवति । प्राणनिधने मरणकाले इह स्थाने प्राणान् वायून् ऊर्द्ध्व- गामिन्या नाड्या समारोप्य वेदान्तविदितं “नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतिविदितं परं नित्यं देवमित्यादिविशेषितं पुरुषं प्रविशति ।
तथा गीतायामपि—
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्म्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ इति॥*॥
लयस्थानं वायोरिति । तदुपरि पूर्व्वोक्तनादोपरि चकारात् नादस्यापि लयस्थानम् । यत्र वायुर्नादश्च अथैनं जगदधरीकृत्य ब्रह्मरन्ध्रस्यादिस्थाने प्रलीयते तत् वायोर्नादस्यापि लयस्थानं नादान्तमिति यावत् । अत्र अर्द्धनारीश्वरोऽस्तीत्याह महानन्दमित्यादिना । महान् आनन्दो यत्र तं महानन्दस्वरूपम् । शिवार्द्धं शिवाया अर्द्धं शिवस्याकारम् अर्द्धनारीश्वरमित्यर्थः ।
तथा च श्रीक्रमे—
चेतसा संप्रपश्यन्ति नादान्ते वृषभध्वजम् । तमर्द्धदेहं वरदं कारणत्रयमातरम् । पुटद्वयविनिष्क्रान्तो वायुर्यत्र प्रलीयते ॥
स्वच्छन्दसंग्रहेऽपि—
हलाकारस्तु नादान्ते भित्त्वा सर्व्वमिदं जगत् । अधःशक्त्या विनिर्भेद्य ऊर्द्ध्वशक्त्यवसानकम् ॥
नाड्या ब्रह्मबिले लीनस्त्वव्यक्तो ध्वनिलक्षणः । अतो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदैर्युतम् ॥
तत्र ब्रह्मशिवो ज्ञेयः शशाङ्कशतसन्निभः । दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः ॥
ब्रह्माणी त्वपरा शक्तिः ब्रह्मणोत्सङ्गगामिनी । द्वारं सन्मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥
हलाकारो लाङ्गलसदृशः ।
देवीस्थानं सहस्रारं प्रविशेदकुलं प्रिये ।
इति श्रीक्रमादकुलाख्यसहस्रारपद्ममाह तदूर्द्ध्वं इत्यादिना । शङ्खिन्या नाड्याः शिखरे अग्रे शून्यदेशे चित्रिण्या मेरुदण्डस्य च शून्यदेशे तेन सहस्रारं न मेरुदण्डस्य मध्ये न चित्रिण्या ग्रथितम् ।
मायातन्त्रेऽपि—
मूलादिषट्सरोजातं चित्रिणीग्रथितं प्रिये । लिङ्गाधोर्द्ध्वनाभिवक्षःकण्ठभ्रूमध्यदेशजम् ॥
अत एव स्वच्छन्दसंग्रहे—
द्वादशार्णं ललाटोर्द्ध्वं रूपेणार्द्धावसानकम् । द्व्यङ्गुलोर्द्ध्वशिरोदेशं परं व्योम प्रकीर्त्तितम् ॥
श्रीक्रमे—
आसव्यकर्णात् देवेशि शङ्खिनी च शिरोपरि ।
हलाद्यनन्तरम् ।
शङ्खिनीनालं संप्राप्य चास्थिशून्यं बिभर्त्ति यः । अमृतं यत् त्रिकूटस्थं परमानन्दलक्षणम् ॥
सहस्रारं महापद्मं रक्तकिञ्जल्कशोभितम् । द्रुतहेमाम्बुजं जातधारपातप्रवर्षणम् ॥
विसर्गाधः पद्ममिति सर्गः शक्तिर्निशाकरः ॥
इति नारदोक्तेन विसर्गस्य सहस्रारपद्मधारिण्या ऊर्द्ध्वस्थितायाः शक्तेरधःपद्मम् ।
निर्व्वाणपद्धत्यामपि—
कुलरूपं भवेत् शक्तिः विसर्गमण्डलं प्रिये । सहस्रारं महापद्मं रक्तकिञ्जल्कशोभितम् ॥
सारसमुच्चयेऽपि “सहस्रारपद्मं विसर्गादधस्तात्” । पूर्णपूर्णेन्दुशुभ्रं पूर्णं पीयूषपूर्णं तच्च पूर्णेन्दुशुभ्रञ्चेति तत् । बालसूर्य्यरश्मिसमकेसरसमूहो यस्य तत् । पद्मन्तु शुक्लवर्णम् ।
यथा मायातन्त्रे—
महाशून्ये सहस्रारं निशाकरसहोदरम् । अधोवक्त्रं कर्णिकायाः चन्द्रोर्द्ध्वं शक्तिरूपिणी ॥
ललाटाद्यैरकाराद्यैः समस्तमातृकाक्षरैः युक्तम् । तन्मध्ये पूर्णचन्द्रः स्निग्धसन्तानं हसतीति स्निग्धसन्तानहासी । तस्यान्तश्चन्द्रमण्डलस्य मध्ये त्रिकोणं तत्तु अकथादित्रिरेखात्मकं तत्त्रिकोणे हलक्षवर्णत्रयम् । तदन्तस्त्रिकोणमध्ये शून्यं परलिङ्गं परलिङ्गस्य तेजोवर्णत्वात् शून्यं शून्याकारमिति यावत् ।
तथाच गौतमीये—
सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते । अकथादित्रिरेखासु हलक्षत्रयभूषिते । तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् ॥
योगिनीहृदये—
सूक्ष्मरूपं समन्तात्तु वृतं परमलिङ्गकम् । बिन्दुरूपं परानन्दकन्दं नित्यं पदोदितम् ॥
व्याख्यातञ्च अमृतानन्दस्वामिना यथा परलिङ्गस्य तेजोवर्णः द्वादशवर्णो हंसः अतः सूक्ष्मरूपम् अत एव बिन्दुरूपं नित्यञ्च मातृकात्वादुत्पत्तिविनाशरहितम् । पदात् पदं प्राप्य उदितं प्रकाशितम् । तदेवाह परमामोदसन्तानराशेः परं कन्दं सूक्ष्ममिति । शशिसमस्तकलाशुद्धरूपम् । “नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतिबोधितो यः परशिवः स द्विधा भूत्वा परमशिवाख्यः सगुणः शिवः प्रकाशात्मा अत्र परबिन्दुचक्रे निवसति इत्याह— इह स्थाने इत्यादिना । परशिवसमाख्यानसिद्धप्रसिद्धं यस्य सः ।
तदुक्तं सङ्केतपद्धत्याम्—
अकारः सर्व्ववर्णाग्र्यः प्रकाशः परमः शिवः । हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्त्तितः । अनयोः सामरस्यं यत् परस्मिन् महसि स्फुटम् ॥
तत्र अमृतानन्दस्वामिनः अ इति ब्रह्म श्रुत्या अकारवाच्यः परशिवः तस्यांशित्वेन परमशिवोऽप्यकारवाच्यः प्रकाशरूपब्रह्मांशित्वात् । विमर्शाख्यः विमर्शिनी सशक्तिरित्यन्तेनाहुः “सर्व्वात्मा पुरुष एवेदं सर्व्वं यद्भूतं यच्च भव्यम्” इति श्रुतेः । रसो द्रव्यविशेषः पर इति प्रसिद्धस्तस्य विसरः समूहस्तद्वत्सितः शुक्लः । “सन्दोहविसरव्रजाः” इत्यमरः । अज्ञानमोहान्धस्य हंसः सूर्य्यः सुधाधारासारं अतितरां विमुञ्चन् यतेः स्वात्मज्ञानं स्वस्य शिवाभेदज्ञानं दिशति । भगवान् ऐश्वर्य्यादियुक्तः स परमशिवः परमहंस इत्याह समास्ते इत्यादिना । सकलसुखसमूहस्य लहरी तरङ्गः तस्य परीवाहः । “जलोच्छासाः परीवाहाः” इत्यमरः । परम इति नाम्ना समुचितः परमहंस इत्यर्थः । स च मायावच्छिन्नः ।
तथाच तन्त्रान्तरे—
सरोरुहमधोमुखं प्रविलसत् सहस्रच्छदं क्रमादरुणकेसरप्रकरभास्वरनिर्म्मलम् ।
तदन्तरपि चिन्तयेदमृतरोचिषो मण्डले पुराणपुरुषं परं परिगतं महामायया ॥ इति ॥
मायोपाधिविनिर्म्मुक्तं शुद्धमित्यभिधीयते । मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा ॥
इति वेदान्तोक्तेः । शिव इत्यादि स्पष्टम् ।
परमपुरुषमिति भारते—
अव्यक्तं मन इत्याह शरीरं परमुच्यते । अव्यक्तके पुरे शेते पुरुषस्तेन चोच्यते ॥
खगतिः खेचरः स्यात् । यद्वा खे ब्रह्मणि गतिः स्यात् । “खं ब्रह्म” इत्याद्युपनिषत् । ऊर्द्ध्वशक्तिरूपां कलामाह तत्रास्ते इत्यादिना । प्रातःसूर्य्यतुल्या चन्द्रस्य षोड़शकला अमानाम्नीति यावत् ।
अमा षोड़शभागेन देवि प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥
इति वचनात् । सूक्ष्मत्वात् शतधाविभक्तमृणालतन्तुभागैकरूपा क्षयोदय- रहितत्वान्नित्या अधोमुखी सृष्ट्युन्मुखी । पूर्णानन्दसमूहो यस्याम् । या अभिगलत्पीयूषधारा तस्या धरा ।
स्वच्छन्दसंग्रहे—
ब्रह्माणी त्वपराशक्तिः ब्रह्मणोत्सङ्गगामिनी । द्वारं सुमोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥
तां भित्त्वा तु वरारोहे ऊर्द्ध्वशक्तिं परां शिवाम् । शक्तितत्त्वात्मिकां देवीं प्रसुप्तभुजगाकृतिम् ॥
शक्तितत्त्वं समाख्यातं भुवनैराश्रितं महत् । शक्तिं तत्त्वात्मिकामूर्द्ध्वशक्तेरुपरि संस्थिताम् ॥
योगिनीहृदयेऽपि—
शक्तौ पुनर्व्व्यापिकायां समनोन्मनीगोचरे ॥ इति ॥
व्यापिनीतत्त्वं शक्तितत्त्वस्वरूपमाह निर्व्वाणाख्य इत्यादिना । सूक्ष्मत्वात् सहस्रधा विभजितस्य केशभागस्यैकभागतुल्या अर्द्धचन्द्रवत् कुटिला सर्व्वार्क- तुल्यप्रभा द्वादशादित्यप्रभा । परात् षोड़श्याः कलायाः परतः । तदन्तर्गता चन्द्रमण्डलान्तर्गता न तु षोड़श्याः कलायाः अन्तर्गता ।
यथा सारसमुच्चये षोड़शीं कलामभिप्रेत्य—
एतस्याः परतः स्थिता भगवती भूताधिदेवाधिपा निर्व्वाणाख्यकलार्द्धचन्द्रकुटिला सा षोड़शान्तर्गता । वालाग्रस्य सहस्रधा विभजितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलोकजननी या द्वादशार्कप्रभा ॥ इति ॥
स्वच्छन्दसंग्रहे—
षोड़शान्तमिति ख्यातं व्योमस्थानेन्दुमण्डलम् ॥ इति ॥
तत्रैव—
आधारं भावनानाञ्च प्रवक्ष्यामि समासतः । सूक्ष्मा चैव सुसूक्ष्मा च तथाचैव मृतामृता ॥
चतुर्द्दिक्षु स्थितास्तासां मध्यस्था व्यापिनी स्मृता । पञ्चवक्त्रा त्रिनेत्रा च सतेजाख्या च पञ्चमी ॥ इति ॥
समनापदमाह एतस्या इत्यादिना । परं उत्तरकालं मातीति परमा ध्वंसरहिता नित्येत्यर्थः । सूक्ष्मत्वात् केशाग्रस्य कोटिभागैकभागरूपा अतः अतिगुह्या । निरवधि विलसन्ती या अमृतधारा तस्या धरा । मुनिमनसि लसिततत्त्वबोधं शिवाभेदज्ञानं वहन्ती ।
अहन्तेदन्तयोरैक्यमिति विद्या निगद्यते ॥
इति परापञ्चाशिकावचनात् ब्रह्मणोऽतिनैकट्येन तथोक्तम् ।
तथा—
समनान्तर्व्वरारोहे पाशजालमनन्तकम् ।
इति वचनात् अत्रापि पाशजालम् । एतस्या निर्व्वाणकलायाः मध्यदेशे इति सामीप्ये सप्तमी । तथा च मध्यदेशसमीपे किञ्चिदुपरीत्यर्थः ।
तथाच स्वच्छन्दसंग्रहे—
चिदानन्दस्वरूपा तु परा शक्तिस्तदूर्द्ध्वतः । समना नाम सा शक्तिः सर्व्वकारणकारणम् ॥
सर्व्वान्तानि बिभर्त्तीयं शिवेन समधिष्ठिता । अत्र रूढ़ः स भवने शिवः परमकारणम् । शिवः सर्व्वस्य कर्त्तेयं शक्तिः कारणमुच्यते ॥
उन्मनीपदमाह तस्या मध्यान्तराले इत्यादिना । तस्याः समनायाः मध्या- न्तराले अत्र सामीप्ये सप्तमी । शिवतनुप्राप्तिस्थानम् उन्मनीति यावत् ।
स्वच्छन्दसंग्रहे—
शिवतनुं समाख्यातं तदूर्द्ध्वं शक्तितनुतः ॥ इति ॥
तथा तत्रैव—
शिवशक्तिद्वयञ्चैव शिवतनुं प्रकीर्त्तितम् ।
सूक्ष्मार्थशक्त्यवच्छिन्नं शिवतनुमित्यर्थः ।
तथाच तत्रैव—
यावत् सा समना शक्तिस्तदूर्द्ध्वं उन्मनी स्मृता । नात्र कालकलाभानं न तनुं न च देवताः ॥
अनिर्व्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते । शिवशक्तिरिति ख्याता निर्व्विकल्पा निरञ्जना ॥
तत्त्वातीतं वरारोहे—
इत्यादि अग्रे लिखिष्यते । मनःसहितत्वात् समना । “यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह” इति श्रुत्या मनोऽतीतत्वादुन्मना इत्यमृतानन्दस्वामिनः ।
शक्तिमध्यगतो नादः समनान्तं प्रसर्पति ॥
इति स्वच्छन्दसंग्रहात् नात्र कालकलांशस्य भानम् । परमकुलपदमिति परं उन्मन्याः परं अकुलपदम् अकुलाख्यपरशिवात्मकपदं विश्वस्य विश्रामस्थानत्वात् । पदमिति अमलं सत्त्वादित्रिगुणयु(मु)क्तम् । शाश्वतं नित्यम् । योगेन प्राप्तं नित्यानन्दमभिधानं यस्य तत् । “नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतेः । शुद्धबोधस्य शुद्धज्ञानस्य प्रकाशो यस्मात् । तथाच टीकाकारधृततन्त्रे “उन्मन्यन्ते परशिवः” इति ।
स्वच्छन्दसंग्रहे उन्मनीमभिधाय—
तत्त्वातीतं वरारोहे वाङ्मनो नैव गोचरम् ।
“यतो वाचो निवर्त्तन्ते” इत्यादि श्रुतेः । तत्त्वं “तत्त्वमसि” इति श्रुतेः ।
स्वाभाविके परे धाम्नि विवरं तत्त्वसंज्ञकम् ॥
इति शिवतन्त्रात् ।
श्रीमते—
अकुलेश्वरदेवस्य सम्बन्धः प्रथमः स्थितः । रूपातीतः परो बिन्दुः शक्त्या वेष्टितभास्वरः । अतो नादो विरोधी च अर्द्धचन्द्रसमुत्क्रमात् ॥
एतत्तु पञ्चमप्रोक्तं ज्ञानरत्नं महोदयम् । तत्र तद्दक्षिणं षट्कमाज्ञापूर्व्वं कुलोद्भवम् ॥ इति ॥
नियतनिजचित्त इति ।
गौतमीये—
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्ज्जवम् । क्षमा धृतिर्म्मिताहारः शौचञ्चेति यमा दश ॥
जपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव ह्रीर्म्मतिश्च तपो हुतम् । दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ॥ इति ॥
तथाच एतद्द्वयाभ्यासशीलः श्रीनाथवक्त्रात् गुरुवक्त्रात् मोक्षवर्त्मप्रकाशं क्रमं ज्ञात्वा हुङ्कारेण मूलाधारस्थितवह्निपवनयोराक्रमेण तप्तां कुण्डलिनीं कृत्वा ब्रह्मद्वारस्य मध्ये तां रचयति ।
रुद्रयामले—
हुङ्कारेण समुत्थाप्य शक्तिं स्वाधारसंस्थिताम् ।
ततः सा प्रबोधिता तल्लिङ्गत्रयं स्वयम्भूबाणेतरलिङ्गत्रयं भित्त्वा भेदं कृत्वा तच्छिद्रेण ब्रह्माख्याया इति ल्यब्लोपे पञ्चमी ब्रह्मनाड़ीमारुह्य सकलसदनं प्राप्य परमरसयुक्तशिवे परमशिवे प्रदीपाभे देदीप्यते । ततः सा शुद्धस्वभावा सूक्ष्मतालक्षणेन तड़िदिव लसत्तन्तुरूपा तन्मोक्षानन्दं घटयति । नयवशात् नीतिवशात् । समाधौ यतो योगीशः तां कुलकुण्डलिनीं जीवात्मना सार्द्धं मोक्षधाम्नि परमशिवे सच्चिदानन्दरूपे भगवतीं चैतन्यरूपां ध्यायेत् ।
तन्त्रान्तरे—
ध्यै चिन्तायां स्मृतो धातुश्चिन्तातत्त्वेन निश्चला । एतद्ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा । सगुणं वर्णभेदेन निर्गुणं केवलं तथा ॥
अन्यत्रापि—
मज्जीवब्रह्मणोरैक्यं सोऽहमस्मीति¹ वेदनम् । तन्निर्गुणमिदम् । इत्यादि ।
¹ “हंस्यादिति” इति पाठान्तरम् ।
ततो लाक्षाभं रक्तवर्णं परमामृतं कुण्डलिनी पीत्वा पूर्णानन्दमहोदयात् परशिवात् शिवसकाशात् प्राक्पादितोन्मन्यादिसृष्टिमार्गेण कुलपथात् कुलपथमारुह्य ब्रह्मा- रुह्य मूलाधारे स्वस्थाने प्रविशेत् । ततो योगी तद्दिव्यामृतधारया योगपरम्परा- प्राप्तया ब्रह्माण्डस्थितं शरीरस्थं दैवतं डाकिन्यादिकं तर्पयेत् प्रीणयेत् । श्रीनाथवक्त्रादिति यदुक्तं तत् गोरक्षसंहितादौ स्पष्टीकृतम् ।
यथा—प्रबुद्धा वह्नियोगेन मनसा मरुता हुता । सूचीव गुणमादाय व्रजत्यूर्द्ध्वं सुषुम्णया ॥ ज्वलन्ती भुजगाकारा पद्मतन्तुनिभा शुभा । उद्घाटयेत् कवाटञ्च यथा कुञ्चिकया दृढ़म् । कुण्डलिन्या तथा योगी ब्रह्मद्वारं प्रभेदयेत् ॥ कृत्वा संपुटितौ करौ दृढ़तरं बद्ध्वा तु पद्मासनं गाढ़ं वक्षसि सन्निधाय चिबुकं ध्यानञ्च तच्चेतसि । वारंवारमपानमूर्द्ध्वमनिशं प्रोत्सारयन् पूरयन् प्राणं मुञ्चति मोक्षमेति शनकैः शक्तिप्रभावात् यतः ॥
कुञ्चिकया कुलुपकारीत्याख्यया ।
निर्व्वाणपद्धत्यामपि—
आदौ पूरकयोगेन स्वाधारे योजयेन्मनः । गुदमेढ्रान्तरे योनिस्तामाकुञ्च्य प्रबोधयेत् ॥ भ्रमद्योनिगतं ध्यायेत् कामं बन्धूकसन्निभम् । ज्वलत्कालानलप्रख्यं तड़ित्कोटिसमप्रभम् ॥ तदूर्द्ध्वं तु शिखा सूक्ष्मा चिद्रूपा परमा कला । तया सहितमात्मानमेकीभूतं विचिन्तयेत् ॥ गच्छन्ती ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु । अमृतं यद्विसर्गस्थं परमानन्दलक्षणम् ॥ द्रुतरक्तं सतेजाढ्यं धारापातप्रवर्षणम् । पीत्वा कुलामृतरसं पुनरेव कुलं विशेत् ॥
सा च प्राणः समाख्यातस्तन्त्रेऽस्मिन् परमेश्वरि । एवमभ्यस्यमानस्य अहर्निशनिबन्धनात् । चतुर्व्विधा तु या सृष्टिरस्यां योनौ प्रजायते ॥ पुनः प्रलीयते तस्यां कालाग्न्यादिशिवान्तिकम् । योनिमुद्रा परा सा तु बन्धस्तस्याः प्रकीर्त्तितः ॥
चतुर्व्विधेति नैयायिकमते पुरुषात् । सांख्यमते प्रकृतिपुरुषाभ्याम् । पातञ्जलमते प्रकृतितः । मीमांसामते अदृष्टात् सृष्टिः । तत्र योगो द्विविधः ।
यथा शारदायाम्—
पिण्डं भवेत् कुण्डलिनी शिवात्मा पदञ्च हंसः सकलान्तरात्मा । रूपं भवेत् बिन्दुरमन्दकान्तिरतीतरूपं शिवसामरस्यम् ॥ पिण्डादियोगं शिवसामरस्यात् सबीजयोगं प्रवदन्ति सन्तः । शिवे लयं नित्यगुणाभियुक्ते निर्बीजयोगं फलमव्यपेक्षम् ॥ इति ॥
तथान्यत्र—
दिक्कालादिविवर्ज्जिते परशिवे चैतन्यमात्रात्मके । इत्यादि ।
स्वच्छन्दसंग्रहेऽपि—
पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्त्तितः । रूपं बिन्दुरिति ख्यातं रूपातीतस्तु चिन्मयः ॥
तत्रान्तरेऽपि—
पिण्डे युक्ताः पदे युक्ता रूपे युक्ताः षड़ानन । रूपातीते तु ये युक्तास्ते मुक्ता नात्र संशयः ॥
मतभेदे अनेकानि पद्मान्याह स्वच्छन्दसंग्रहे—
अधश्चोर्द्ध्वं सुषुम्णायाः सहस्रदलसंयुतम् । रक्तं श्वेतञ्च साहस्रदलस्थं शक्तिसंयुतम् ॥ ऊर्द्ध्वाधो मुखमूलन्तु कर्णिकाकेशरान्वितम् । शक्तिरूपं महादेवि कुलाकुलमयं शुभम् ॥
पङ्कजद्वयमीशानि स्थितं शाश्वतमव्ययम् । तयोर्म्मध्ये सुषुम्णान्तस्त्रिंशदाधारपङ्कजम् ॥ शक्तिरूपं शिवाकारं सर्व्वाध्यासं निजालयम् ।
नीत्वेति शेषः । तथा कियत् कियदूर्ध्वे पङ्कजानि ।
तदाह तत्रैव—
आधारपङ्कजस्योर्द्धं सार्द्धद्व्यङ्गुलकोपरि । तैजसं साष्टपत्रञ्च पीतकर्णिकया युतम् ॥ हृल्लेखा कर्णिकामध्ये स्थिता लिङ्गादिदेवता । एतस्मात् द्व्यङ्गुलस्योर्द्ध्वं स्वाधिष्ठानं षड़श्रकम् ॥ आप्यञ्च राकिणीशक्तिः पूर्व्वाभिः शक्तिभिर्युतम् । ततश्च भावयेद्देवि नाभिमष्टाङ्गुलोपरि ॥ तत्पद्मं मणिपूरञ्च दशपत्रं सुशोभितम् । लाकिनीमध्यगं तच्च तामर्थादाभिरावृतम् ॥ चतुर्द्दशाङ्गुलादूर्द्ध्वं मणिपूराख्यपङ्कजात् । पङ्कजं काकिनीमध्यं वायव्यं द्वादशारकम् ॥ तत्रस्थकालरात्र्यादिशक्तिभिश्च समावृतम् । तत्रस्थसूर्य्यबिम्बे च नादो यानादिपीठकम् ॥ एकादशाङ्गुलादूर्द्ध्वं विशुद्धं षोड़शच्छदम् । मध्यगा शाकिनी बाह्यपत्रेषु परमेश्वरि ॥ अमृताद्यक्षरान्तस्था चन्द्रबिम्बं तदूर्द्ध्वगा । कण्ठोर्द्ध्वं परमेशानि लम्बिका चतुरङ्गुली ॥ आज्ञाचक्रं द्विपत्राब्जं हक्षद्विदलसंयुतम् । हंसवती क्षमा पार्श्वद्वये मध्ये तु हाकिनी ॥ * ॥
तन्त्रान्तरे ब्रह्मणः स्वाधिष्ठानमुक्तं यथा
स्वाधिष्ठानं षड्दलोपेतमुद्यत्विद्युत्प्रेक्षं वादिलान्तैश्च वर्णैः । युक्तं सावित्रीसहितं विरिञ्चिं ध्यायेदस्मिन् राकिणीं देवताञ्च ॥
योगिनीहृदये—
एताश्चतस्रः शक्त्यस्तु का पू जा उ इति क्रमात् । पीठाः कन्दे पदे रूपे रूपातीते क्रमाद्विदुः ॥
एतास्तत्र पूर्व्वोक्ता अम्बिकादयः चतस्रः कामरूपादिपीठत्वेन परिणताः । तथा च मूलाधारे कामरूपं हृदि पूर्णगिरिः भ्रूमध्ये जालन्धरः सहस्रारे उड्डीयानः । न च “एकमेवाद्वितीयं ब्रह्म” इत्यादि श्रुत्या ब्रह्मण एकत्वमभिहितम् । शक्तिस्तावत् केति चेत् तद्ब्रह्मशिवशक्तिसामरस्यपरत्वमेव ।
यथा कुलार्णवे—
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । मम तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् ॥
स्वच्छन्दसंग्रहेऽपि—
अनयोः सामरस्यं यत् परस्मिन् महसि ध्रुवम् ।
कूर्म्मपुराणे ईश्वरगीतायां शिववाक्यम्—
एकया मम सायुज्यमनादिनिधनस्फुटम् । पुंसोऽभूदन्यया भूतिमन्यया तत्तिरोहितम् ॥
एकया मायात्मिकया शक्त्या विशिष्टस्य मम अनादिनिधनं सायुज्यं सहयोगं अर्द्धनारीश्वरात्मकमभूत् । अन्यया आद्यया ज्ञानात्मिकयेति यावत् विशिष्टपुंसो भूतिं उत्पत्तिं जानीहि अन्यया चिच्छक्त्या तत् तिरोहितम् । तयैव क्षणे तिरोहितम् । ब्रह्माविनाभूतम् ।
अतएव तैत्तिरीयवाक्यम्—
यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्व्वोपाधिविनिर्म्मुक्तमनन्तमपरं परम् ॥
कालिकापुराणेऽपि—
चितिशक्तिं निराकारां परं ब्रह्मस्वरूपिणीम् ॥
जन्मखण्डे राधिकां प्रति कृष्णवाक्यम्—
यदा तेजःस्वरूपोऽहं तेजोरूपासि त्वं तदा । न शरीरी यदाहञ्च तदा त्वमशरीरिणी ॥
तन्त्रेऽपि—
न शिवेन विना शक्तिः न शक्त्या रहितः शिवः । अतस्तयोरभेदश्च चन्द्रचन्द्रिकयोरिव ॥
वेदान्तेऽपि “चिच्छक्तिर्ब्रह्माश्रिता ।”
तथा—मायोपाधिविनिर्म्मुक्तं शुद्धमित्यभिधीयते । मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा ॥
इत्युक्तम् । तदेव सामरस्यं परं ब्रह्म सगुणशिवं शक्त्यादिनानारूपेण परिणमते ।
यथा विश्वसारे—
कालेन प्रेरयेन्मायां सृष्टेरुत्पत्तिहेतवे । या मूलप्रकृतिः प्रोक्ता सा माया परिकीर्त्तिता ॥ योऽयं सदाशिवः प्रोक्तः स एव पुरुषः परः । एकं ब्रह्म द्विधा भूत्वा सृष्टिरेषा विधीयते ॥ अर्द्धेन वनिता भूत्वा अर्द्धेन पुरुषस्तथा । तावुभौ च समौ कृत्वा सृष्टिव्यक्तिं नयेत् सुधीः ॥
मायावच्छिन्नेश्वरस्य षड़ङ्गान्याह कूर्म्मपुराणादौ—
सर्व्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्व्विधिज्ञाः षड़ाहुरङ्गानि महेश्वरस्य ॥ * * ॥
नारायणो वैदिकश्च भट्टाचार्य्यः समीरितः । तस्यात्मजो वामदेवभट्टाचार्य्यस्तथैव च । तस्यात्मजो विश्वनाथस्तेनेयं रचिता मुदा ॥
इति षट्चक्रविवृतिटीका सम्पूर्णा ।
बलदेवटीकाकारधृतः षट्चक्रनिरूपणस्याधिकः श्लोकः ।
इह स्थाने चित्तं निरवधि निधायात्तपवनो यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम् । न च ब्रह्मा विष्णुर्न च हरिहरो नैव खमणि- स्तदीयं सामर्थ्यं शमयितुमलं नापि गणपः ॥ ३१ ॥ (१)
इह स्थान इति । इह स्थाने विशुद्धाख्यपद्मे निरवधि प्रतिक्षणं चित्तं मनो निधाय सम्बध्य आत्तपवनः गृहीतवायुः सन् कुम्भकं कृत्वेति यावत् । योगी जनः यदि क्रुद्धो भवति तदा समस्तं त्रिभुवनं चलयति । तदीयं सामर्थ्यं योगेन एतादृशत्रिभुवनचालनबलं शमयितुं ब्रह्मा सृष्टिकर्त्ता विष्णुः पालनकर्त्ता हरिहरः हरिहरात्मक ईश्वरः खमणिः सूर्य्यः गणपः गणेशः एते नालं न समर्था इत्यर्थः ॥
ॐ श्रीश्रीगुरवे नमः ।
सरोजमधु सादरं सरसि मानसे सर्व्वदा यथाददति षट्पदा नतु कदापि शैवालकम् । तथैव गुणिनो बुधा वचसि दूषणत्यागतो ममाददतु साम्प्रतं यदि गुणस्तामित्यर्थये ॥
इह खलु दुःखजालसङ्कुलसंसारलब्धजनुषां परमपुरुषध्यानैकनिष्ठचेतसा- मपि मानुषाणां स्वाभ्यन्तरवर्त्तिषट्चक्रनिरूपणभेदादिज्ञानं विना मोक्षोपायः कोऽपि नास्तीति परमकारुणिको भगवान् परमेश्वरः दुःखसमवायात्तानुद्दिधीर्षुः पर्व्वतराजपुत्रीप्रश्नानुसारेण स्वप्रोक्ततन्त्रशास्त्रमहोदधीनन्तरान्तरा षट्चक्रनिरूपणं तद्भेदादिसङ्केतञ्च उपदिदेश । किन्तु तदुपदिष्टतन्त्रशास्त्राणामतीव बाहुल्या- दशक्यबोधत्वाच्चाधुनिकाः स्वल्पायुषो जनाः परमपुरुषप्रोक्ततन्त्रशास्त्राणां सारांशमायत्तीकर्त्तुमनीशाः सन्तो नियतं निरयमेव गच्छन्तीति परपरित्राण- परायणः परमपुरुषसमाहितचेताः श्रीमत्पूर्णानन्दयतिः निखिलतन्त्रशास्त्रसारमुद्धृत्य तदर्थाविरोधिभिः स्वकल्पितपञ्चपञ्चाशच्छ्लोकैः षट्चक्रस्थितिस्थाननिरूपणतद्भेद- सङ्केतसन्दर्भितं षट्चक्रनिरूपणं स्वरचितश्रीतत्त्वचिन्तामण्यां कृतवान् ।
तस्य च पूर्व्वापेक्षया सहजबोधगम्यत्वेऽपि सारांशप्रकाशकटीकाया अभावात् अशक्यार्थबोधोऽयं ग्रन्थ इति प्रायश एव उपेक्षित आसीत् । इदानीन्त्व- स्माभिस्तत्परिजिहीर्षया प्रचुरतरार्थव्ययेन साधनासिद्धबोधविद्वदग्रगण्यश्रीमत्- कालीचरणप्रणीता निगूढ़ार्थप्रकाशिनी कापि टीका संगृह्य पण्डितमण्डलीपरिशो- धिता कृत्वा पुस्तकेऽस्मिन्निवेशिता । साम्प्रतन्त्वनया विद्वांसो यदि कथञ्चिदप्या- नुकूल्यभागिनो भवन्ति तदैवास्माकमर्थव्ययं परिश्रमञ्च सफलं मन्यामहे ।
किञ्च बहुलविस्तृतश्रीकालीचरणप्रणीतटीकावलोकनेन कियदपि कालक्षयं कर्त्तुमनीशानां विषयासक्तचेतसां झटिति मूलवृत्तान्तपरिज्ञानार्थं विद्वत्कुल- चूड़ामणिशङ्करविरचिता मूलतत्त्वार्थविवृतिकारिकाऽपरापि टीका सन्निवेशिता ।
यस्तु
इह स्थाने चित्तं निरवधि निधायात्तपवनो यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम् । न च ब्रह्मा विष्णुर्न च हरिहरो नैव खमणि- स्तदीयं सामर्थ्यं शमयितुमलं नापि गणपः ॥
इति श्लोकः विद्वत्कुलशिरोभूषणश्रीमद्बलदेवविद्याभूषणकृतटीकासम्बलितमुद्रित- षट्चक्रनिरूपणनामकपुस्तकान्तरे एकत्रिंशच्छ्लोकात् परमधिको दृश्यते स तु अस्मदुपजीव्यश्रीमत्कालीचरणशङ्कराभ्यामुपेक्षितत्वात् नैव पुस्तकाङ्गत्वेन निवेशितः किन्तु पुस्तकस्य समाप्त्यनन्तरं श्रीमद्बलदेवविद्याभूषणविरचितया टीकया सह सन्निवेशित इति ।
अपरञ्च विश्वोत्तारणकारणश्रीमन्महेश्वरवदनपङ्कजविनिर्गतकैवल्यकलिका- नामधेयतन्त्रस्य षट्चक्रनिरूपणात्मकद्वितीयपटलेन सार्द्धं सिद्धाचार्य्यवर्य्यश्रीमत्- पूर्णानन्दयतिविरचितषट्चक्रनिरूपणात्मकश्लोकसमूहानां प्रायशोऽभिन्नत्वेऽपि क्वचित् क्वचित् पाठवैषम्यस्य कैवल्यकलिकातन्त्रद्वितीयपटलटीकाकृच्छ्रीमद्विश्वनाथ- सूरिवाक्येनानुमीयमानत्वात् तत्प्रणीतषट्चक्रविवृत्याख्यया टीकयापि पुस्तक- मिदमलङ्कृतकलेवरमासीत् ।
किन्तु दुःखं पुनरेतदनुभूयते यद्बहुतरार्थव्ययं परिश्रमञ्च स्वीकुर्व्वद्भिः कुत्रापि कैवल्यकलिकातन्त्रं नोपलब्धं नापि दृष्टं सुतरामेव कैवल्यकलिकातन्त्रमल- भमानैरनन्योपायैरस्माभिः कैवल्यकलिकातन्त्रेण श्रीमत्पूर्णानन्दयतिविरचितस्य षट्- चक्रनिरूपणात्मकश्लोकसमूहस्य पाठादिवैषम्यं परिदर्शयितुमनीशैर्मूकैर्भूयते इति ।
अन्यच्च आर्य्यधर्म्मावलम्बिनां सर्व्वेषामेव श्रीगुरुराराधनीय इति पूर्व्व- पूर्व्वाचार्य्यशिष्टाचारपरम्पराप्राप्तत्वात् जगद्गुरुरपीश्वरः श्रीगुरुपादुकापञ्चक- स्तोत्रव्याजेन श्रीगुरोः स्वीयाराध्यतां दर्शयन् सर्व्वानुपदेष्टुं पादुकापञ्चकं नाम स्तोत्रमकार्षीत् तदपि विद्वत्प्रवरश्रीमत्कालीचरणविरचितया गूढ़भावार्थप्रकाशिकया अमलाख्यटीकया षट्चक्रविवृतेः प्राक् ग्रन्थेऽस्मिन् सन्निवेशितमिति ।
सम्पादकस्य निवेदनम् ।
Printed by J. R. Aria at the Vasanta Press, Adyar, Madras.
SOME PRESS NOTICES
“These Books dealing with the secret Mysticism and Magic of India are the most interesting which have been published in recent years.”—Neue Metaphysische Rundschau.
“His book (Mahānirvāna) brilliantly inaugurates the study of the Tantras, the literature of which occupies a front rank in the religious life of Modern India. The introduction to it is the most solid and exact account that has yet been written on the doctrines of the Tantras, their ontology, mystical phraseology, worship, yoga and ethics.” —Revue Critique (Dr. Professor Sylvain Levi).
“The translation (Maāānirvāna) is distinguished by its elegance and by the profound and comprehensive knowledge by which it is backed”; (and by another critic in the same journal) “Shakti and Shākta reveals a wonderful grasp of the fundamentals of consciousness.”—The Theosophist (Dr. Professor Schrader).

No commentary for this page.