The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)
निसक्तमणिपादुकानियमिताघकोलाहलं स्फुरत्किसलयारुणं नखसमुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥ ६ ॥
चरणद्वन्द्वं विशेषयति कुङ्कुमासवपरीमरन्दयोरिति ।
वीप्सेत्थम्भावचिह्नेषु तेषु भागे परिप्रती ॥
इति बोपदेवीयात् परेर्भागार्थत्वम् । ततश्च कुङ्कुमासवानां लाक्षा- रसाभपरमामृतानां यः परिर्भागः स एव मरन्दो मकरन्दो ययोस्तादृशयोरित्यर्थः । “ झरीमरन्दयोः ” इति पाठे झरी झरणं निःसरणमिति यावत् । ततश्च “ कृदभिहितभावो द्रव्यवत् प्रकाशते ” इत्युक्तेः कुङ्कुमासवानां झरी अर्थात् झरणाश्रयकुङ्कुमासवो मरन्दो ययोरित्यर्थः ।
द्वन्द्वं कीदृशम् ? इन्दुमकरन्दशीतलम् इन्दोश्चन्द्रस्य यो मकरन्दः अमृत- किरणरूपः तद्वत् शीतलम् । यथा चन्द्रामृतकिरणेन उत्तापनिवृत्तिस्तथा पदद्वन्द्वसेवनेन दुःखतापशान्तिरिति भावः ।
मङ्गलास्पदम् अभिप्रेतार्थसिद्धिस्थानम् । तच्चरणस्थाने मनोऽभिनिवेशे सर्व्वाभीष्टसिद्धिरिति तात्पर्य्यम् ॥ ५ ॥
निसक्तेति । अस्यार्थः अहं शिरसि स्थितं पूर्व्वोक्तपीठोपरिस्थितं गुरु- पदारविन्दद्वयं भजामि ध्याये इत्यन्वयः । पदारविन्दद्वयं विशेषयति ।
निसक्तमणिपादुकानियमिताघकोलाहलमिति । निसक्तमणिपादुकया सेवितमणिपादुकाद्वारा नियमितः निरस्तीकृतः अघकोलाहलः पापानां प्रादुर्भावो येन तादृशमित्यर्थः । यद्वा निसक्तो निबद्धो मणिर्यत्र पादुकायां सा मणिपीठ- मण्डलरूपपादुका तया नियमितः अघकोलाहलः येनेत्यर्थः तत्पादुकोपरि गुरुचरण- चिन्तनेन पापनाशात् । अथवा निसक्त आरुद्धो मणिर्गुरुचरणरूपचिन्तामणिर्यासु
पञ्चपादुकासु ताभिर्नियमिताघकोलाहलमित्यर्थः । ततश्च पञ्चपादुकाध्यानपूर्व्वकं तदुपरि गुरुचरणचिन्तनेनैव पापनाशात् पापनाशे पञ्चपादुकानां ध्यानरूपव्या- पारसाध्यत्वेन द्वारत्वमिति ।
स्फुरत्किसलयारुणम् । स्फुरतां किसलयानां पल्लवानामरुणतुल्यमरुणं यत्रेति । आम्रकेन्दुकादिपल्लवानां प्रथमोद्गमे रक्तवर्णत्वात् तत्रैव दृष्टान्तः । नखसमुल्लसच्चन्द्रकं नखा एव समुल्लसच्चन्द्राः निर्म्मलप्रकाशमानचन्द्रस्वरूपा यत्रेत्यर्थः ।
परामृतसरोवरोदितसरोजसद्रोचिषम् परामृतसरोवरे उदितं यत् सरोजं पद्मं तद्वत् सद्रोचिषं निर्म्मलप्रकाशो यस्येति । अयम्भावः श्रीनाथस्य चरणाभ्यां निरन्तरं परमामृतं निःसरति ।
अतएवोक्तं पूर्णानन्देन—
सुधाधारासारं निरवधि विमुञ्चन्नतितरां यतेः स्वात्मज्ञानं दिशति भगवान्निर्म्मलमतेः ॥ इति ॥
एवं परामृतं सरोवरस्वरूपं तदुपरिस्थितं चरणं पद्मवत् प्रकाशते इति । ननु उक्तपद्मद्वयकर्णिकापुटे गुरुस्थितिर्व्विधीयते । तत्किमधःस्थितद्वादशदलकमल- कर्णिकायां किंवा ऊर्द्ध्वस्थसहस्रदलकर्णिकायामित्याकाङ्क्षायामत्र वदन्ति ।
बृहच्छ्रीक्रमे—
सर्व्वोपरि ततो ध्यायेत् पश्चिमाननपङ्कजम् । स्रवन्तममृतं दिव्यं देव्यङ्गे कमलान्तरे ॥ इति ॥
देव्यङ्गे गुरुशक्त्यङ्गे ।
यामले—
छत्रं मूर्द्ध्नि सहस्रपत्रकमलं रक्तं सुधावर्षिणम् ॥ इति ॥
गुरुगीतायाम्—
हंसाभ्यां परिवृत्तपत्रकमले दिव्यैर्ज्जगत्कारणै- र्व्विश्वोत्तीर्णमनेकदेवनिलयं स्वच्छन्दमात्मेच्छया । तत्तद्योग्यतया स्वदेशिकतनुं भावैकदीपाङ्कुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विवाहुं गुरुम् ॥ इति ॥
श्यामासपर्य्याधृतवचनम्—
शिरःपद्मे सहस्रारे शुक्लवर्णे त्वधोमुखे । तरुणारुणकिञ्जल्के सर्व्ववर्णविभूषिते ॥ कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे । तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे ॥ अकथादित्रिरेखीये हळक्षत्रयमण्डिते । हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् ॥ इति ॥
एवमादिवचनैर्द्वादशदलकमलकर्णिकायां गुरोरधिष्ठानं विहितम् ।
कङ्कालमालिनीतन्त्रे—
सहस्रदलपद्मस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादबिन्दोर्म्मध्ये सिंहासनोज्ज्वलम् । तस्मिन्निजगुरुं नित्यं रजताचलसन्निभम् ॥ इत्यादि ॥
यामले—
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजम्—इत्यादि ।
पुरश्चरणरसोल्लासे—
श्रीमहादेव उवाच
सहस्रारे ततो नित्ये पङ्कजे परमाद्भुते । पद्मस्य बीजकोशे तु भावयेत् स्वगुरुं सदा ॥
श्रीपार्व्वत्युवाच
सहस्रारे महापद्मे सदा चाधोमुखे प्रभो । गुरुस्थितिः कथं देव सततं वद निश्चयम् ॥
श्रीमहादेव उवाच
शृणु प्रिये प्रवक्ष्यामि यदेतत् पृष्टमुत्तमम् । सहस्रारं महापद्मं सहस्रदलसंयुतम् ॥ सदाशिवपुरं तत्तु नित्यानन्दमयं सदा । नानागन्धयुतं पद्मं सहजानन्दमन्दिरम् ॥ सदा चाधोमुखं पद्मं बीजमूर्द्ध्वमुखं सदा । त्रिकोणाकाररूपेण कुण्डलीसंयुतेन च ॥ इत्यादि ॥
बालाविलासतन्त्रे—
श्रीदक्षिणामूर्त्तिरुवाच
प्रातरुत्थाय धवले सहस्रारे गुरुं स्मरेत् । अधोमुखे महापद्मे सर्व्ववर्णविभूषिते ॥ अकथादित्रिरेखाढ्यहळक्षत्रयभूषिते । तदन्तश्चन्द्रविम्बस्थहंसपीठे स्मिताननम् ॥
श्रीदेव्युवाच
अधोमुखे गुरुस्तत्र कथं तिष्ठति च प्रभो ।
श्रीदक्षिणामूर्त्तिरुवाच
अधोमुखस्य पद्मस्य कर्णिकामध्यसंस्थितम् । चन्द्रविम्बञ्चोर्द्ध्ववक्त्रं तत्र हंसस्ततः स्थितिः ॥ इति ॥
एतदादिभिर्व्वचनैः सहस्रदलकर्णिकायां गुरोरवस्थितिर्व्विधीयते । एवञ्चोभयकल्पे विहिते श्रीनाथस्य आज्ञया तयोरेकतरम् अवधार्य्यानुष्ठातव्यमिति सिद्धान्तः ।
पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् । षड़ाम्नायफलप्राप्तं प्रपञ्चे चातिदुर्ल्लभम् ॥ ७ ॥
अतएवोक्तं कुलार्णवे एकादशोल्लासे—
पारम्पर्य्यागमाम्नायं मन्त्राचारादिकं प्रिये । सर्व्वं गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ इति ॥ ६ ॥
स्तोत्रफलश्रुतिमाह । पादुकापञ्चकस्तोत्रमिति । पदरक्षणाधारः पादुका तासां पञ्चकम् । पद्मम् ॥ १ ॥ तत्कर्णिकास्थले अकथादित्रिकोणम् ॥ २ ॥ तदन्तर्नादबिन्दुमणिपीठमण्डलम् ॥ ३ ॥ तदधःस्थहंसः ॥ ४ ॥ पीठोपरि त्रिकोणम् ॥ ५ ॥ समुदायेन पञ्चसंख्यकम् ।
अथवा पद्मम् ॥ १ ॥ त्रिकोणम् ॥ २ ॥ नादबिन्दु ॥ ३ ॥ मणि- पीठमण्डलम् ॥ ४ ॥ तदूर्द्ध्वस्थत्रिकोणाकारकामकलारूपेण परिणतो हंसः ॥ ५ ॥ इति पञ्चसंख्यकम् । तस्य स्तोत्रम् । फलश्रुतिसहितसप्तश्लोकात्मक- मित्यर्थः ।
पञ्चवक्त्राद्विनिर्गतमिति ।
शिवस्य पञ्चवक्त्राणि यथा लिङ्गार्च्चनतन्त्रे—
सद्योजातं पश्चिमे तु वामदेवं तथोत्तरे । अघोरं दक्षिणे ज्ञेयं पूर्व्वे तत्पुरुषं स्मृतम् । ईशानं मध्यतो ध्येयं चिन्तयेद्भक्तितत्परः ॥ इति ॥
तेभ्यो विनिर्गतं तैरुक्तम् ।
षड़ाम्नायफलप्राप्तमिति । षड्मुखानि यथा पूर्व्वोक्तानि पञ्च । षष्ठवक्त्रन्तु पूर्व्ववक्त्रस्याधस्तात् गुप्तं तामसम् । एतत्तु शिवतन्त्रे सद्योजातादिषड्वक्त्रन्यासे “ ॐ हं ह्रीं औं ह्रीं तामसाय स्वाहा ” इत्यनेन तत्रोक्तध्याने “ नीलकण्ठ-
मधोवक्त्रं कालकूटस्वरूपिणम् ” इत्यनेन च प्रकटितम् । मिलित्वा षड्वक्त्राणि भवन्ति । एभिः षड्वक्त्रैराम्नायते कथ्यतेऽसौ इति षड़ाम्नायः शिवोक्तस्तोत्र- समुदायः । तस्य फलं तत्तन्मन्त्रसमुदायविहितकर्म्मफलं प्राप्यते येनेत्यर्थः ।
प्रपञ्चे लिङ्गाद्याब्रह्मपर्य्यन्तमायाप्रकटितसंसारे । अतिदुर्ल्लभमिति अति- दुःखेन लभ्यते यत्तदतिदुर्ल्लभं तल्लाभकरणपुण्यपुञ्जजनकजन्मान्तरीयतपसः क्लेशस्वरूपत्वात् दुःखलभ्यत्वमिति भावः ॥ ७ ॥
इति श्रीकालीचरणकृता पादुकापञ्चकस्तोत्रस्य अमलानाम टिप्पणी समाप्ता ।
॥ * ॥ ॐ तत् सत् ॥ * ॥
षट्चक्रविवृतिः
(विश्वनाथकृता)
ॐ श्रीगुरवे नमः ।
टीका श्रीविश्वनाथेन नत्वा सन्तन्यतेऽम्बिकाम् । कैवल्यकलिकातन्त्रद्वितीयपटलस्य च ॥
वृद्धरूपी परमेश्वरः वसिष्ठाय कुलभावमुक्त्वा कुलाचारं विना तस्मिन नाधिकारः अतस्तदुपदेष्टुं गुरुसम्मानपूर्व्वकमाह यज्ज्ञातेनेत्यादि ।
तथाच कालिकापुराणे—
यः पूजयेद्वाऽन्यभावैर्न तस्य ऋणशोधनम् । पितृदेवनरादीनां जायते न कदाचन ॥
सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः । जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात् ॥
त्रिपुरायोगं कुण्डलिनीयोगं कुण्डलिन्याः सर्व्वदेवात्मकत्वात् । उक्तं “सर्व्वदेवमयी सा हि” इति ॥ * ॥
मेरोर्म्मेरुदण्डस्य बाह्यप्रदेशे क्रोड़े शशिमिहिरशिरे इड़ापिङ्गलानाड़्यौ । “मेरुदण्डबहिःपार्श्वे चन्द्रसूर्य्यात्मके” इति मायातन्त्रात् ।
तयोः स्थितिप्रकारमाह टीकाकारधृततन्त्रे—
वाममुष्कात्तु सम्भूता नाड़ी दक्षिणगामिनी । सुषुम्णाकलिता जाता वामभागं समाश्रिता ॥
हृद्गता दक्षभागस्था जत्रुमध्यं समाश्रिता । वामन्तु नासिकाद्वारं प्राप्नोति गिरिजेऽमले ॥
नाड़ी दक्षिणमुष्कात्तु सञ्जातोत्तरगामिनी । सुषुम्णाकलिता जाता भागं दक्षिणमाश्रिता ॥
हृद्गता वामभागस्था जत्रुमभ्यं समाश्रिता । दक्षिणं नासिकाद्वारं प्राप्नोति गिरिजेऽमले ॥
चापाकृतिर्भूत्वा दक्षिणगामिनी उत्तरगामिनीति ध्येयम् । मध्ये नाड़ी सुषुम्णेति । मध्ये मेरुदण्डस्य मध्यस्थविवरे । मेरुदण्डवहिःपार्श्वे चन्द्रसूर्य्यात्मिके शिरे । मध्ये सुषुम्णा—इति मायातन्त्रात् ।
स्पष्टमाह सारसमुच्चये—
या मुण्डाधारदण्डान्तरविवरगता हारनीहारगौरी सौधीं धारां नभोऽम्भोरुहकुहरविधोः संस्रवन्तीं वहन्ती । तस्या वज्राख्यनाड्या खगमुदरदरीमध्यगं यो विदध्यात् तस्या ब्रह्माण्डभाण्डप्रलयमपघनं स्याद्घनं मृत्युमृत्योः ॥
सा कीदृशी ? हारनौहारगौरी मुक्ताहारनीहारगौरी । “गौरोऽरुणे सिते पीते” इत्यमरः । एतेन सुषुम्णान्तर्गतायाः वज्राया मेरुदण्डान्तर्व्विवरगतात्वकथनेन सुषुम्णाया अपि मेरुदण्डान्तर्व्विवरगतात्वसिद्धिः । यद्वा या मुण्डाधारदण्डे यदन्तरं विवरं तत्र विवरगता अर्थात् सुषुम्णाया विवरगता ।
अन्तरं अवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये । छिद्रात्मीय विना वहिरवसरमध्ये अन्तरात्मनि च ॥ इत्यमरः ।
एवञ्च सुषुम्णाकलिता इति परम्परया आश्रिता इत्यर्थः । यद्वा तत्र तत्र स्थाने मेरुदण्डं भित्त्वा सुषुम्णाकलिता इत्यर्थः
गौतमीयेऽपि—
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने । चन्द्रसूर्य्याग्नितेजोभिर्ज्जीवब्रह्मैक्यरूपकम् ॥
तिस्रः कोट्यस्तदर्द्धेन शरीरे नाड़्यो मताः । तासु मुख्या दशप्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्य्याग्निरूपिणी । इड़ा वामे स्थिता नाड़ी शुक्ला चन्द्रस्वरूपिणी ॥
शक्तिरूपा तु सा नाड़ी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्य्यविग्रहा । सर्व्वतेजोमयी सा तु सुषुम्णा वह्निरूपिणी ॥
मेरुदण्डे मेरुदण्डान्तरविवरे ।
शारदायामपि—
षण्णवत्यङ्गुलायामं शरीरमुभयात्मकम् । गुदध्वजान्तरे कन्दमुत्सेधाद्व्यङ्गुलं विदुः ॥
तस्माद्द्विगुणविस्तारं वृत्तरूपेण शोभितम् । तत्र नाड्यः समुत्पन्ना मुख्यास्तिस्रः प्रकीर्त्तिताः ॥
इड़ा वामे स्थिता नाड़ी दक्षिणे पिङ्गला मता । तयोर्म्मध्यगता नाड़ी सुषुम्णा वंशमाश्रिता ॥
पादाङ्गुष्ठद्वयं याता शिफाभ्यां शिरसा पुनः । ब्रह्मस्थानं समापन्ना चन्द्रसूर्य्याग्निरूपिणी ॥
भट्टाः शिफाभ्यां मूलाभ्याम् । शिरसा अग्रभागेन । वंशं पृष्ठवंशम् आश्रित्य । विवरगतात्वमुक्तम् । या मुण्डाधारदण्डान्तरविवरगतेत्यनेनाहुः ।
तन्त्रान्तरे तु—
व्योम प्रोद्भिद्य नासाग्रे गतौ चन्द्रदिवाकरौ । अधोवक्त्रं महापद्मं क्रोड़ीकृत्य सुषुम्णया ॥
व्याघुट्य नासिकामध्यं गतं चित्रा तु तद्गता । ऊर्द्धं भित्त्वा तु लिङ्गं वै इतरान् पुष्करान् तथा ॥
बहिरुद्गमनाकाङ्क्षाकाङ्क्षिणी मोक्षदायिनी । जीवेनाहतसम्बन्धात् स्थिता सप्तमसंविधौ ॥
तद्गता सुषुम्णात्र सा तु तत्समदेशं गता लिखिष्यामः न विरोधात् । अतएव सप्तमसंविधौ इत्युक्तम् । नासिकामध्यं नासिकाद्वयमध्यस्थानं न तु नासिका- द्वयमध्यं गता तत्र इड़ापिङ्गले गते । अतएव “कुम्भयेच्च सुषुम्णया” इति सङ्गच्छते ।
त्रितयेति । यतः सोमसूर्य्याग्निरूपा अतस्त्रितयगुणमयी । सुषुम्णा कीदृशी ? स्मेरं प्रस्फुटितं तथाच प्रस्फुटितकनकधूस्तूरपुष्पमिव ग्रथितं वपुर्यस्याः सा तथा । यथा कनकधूस्तूरपुष्पस्य मध्ये अन्यत् पुष्पम् एवम्भूत- ग्रथिततमवपुरिति भावः । केचित्तु प्रथिततमवपुरिति पाठमाहुः । कुतः सुषुम्णा उत्पन्ना तदाह कन्दमध्यादिति ।
कन्दरूपमाह शारदायाम्—
गुदध्वजान्तरे कन्दमुत्सेधाद्व्यङ्गुलं विदुः । तस्य द्विगुणविस्तारं वृत्तरूपेण शोभितम् ॥ तत्र नाड्यः समुत्पन्नाः । इत्यादि ।
गोरक्षसंहितायान्तु—
ऊर्द्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥
इत्युक्तम् । कन्दयोनिः कन्दरूपोत्पत्तिस्थानम नाड़ीनामित्यर्थः । वज्राख्यां नाड़ीमाह वज्राख्येति । मेढ्रदेशात् लिङ्गमूलात् शिरःपर्य्यन्ता इत्यर्थः । कुत्र सा ? तदाह । अस्या मध्ये सुषुम्णाया मध्ये ज्वलन्ती उज्ज्वलन्तीत्यर्थः । “मध्यमञ्चावलग्नञ्च मध्योऽस्त्री” इत्यमरः ।
मायातन्त्रेऽपि—
मध्ये सुषुम्णा तन्मध्ये वज्राख्या लिङ्गमूलतः ॥ इति ॥ * ॥
चित्रानाड़ीमाह तन्मध्य इत्यादिना । तन्मध्ये वज्रामध्ये । प्रणवविलसिता आज्ञाचक्रस्थप्रणवाधारत्वात् । सा कीदृशी ? सकलसरसिजान् भित्त्वा एतत्पद्म- ग्रथनरचनया देदीप्यते । पद्मान् किम्भूतान् ? मेरुमध्यान्तरस्थान् मेरुमध्ये यदन्तरं विवरं परम्परया तत्स्थान् ।
मध्ये सुषुम्णा तन्मध्ये वज्राख्या लिङ्गमूलतः । तन्मध्ये चित्रिणी सूक्ष्मा बिसतन्तुसहोदरा । मूलमूलात् सहस्रारस्तदन्तर्ब्रह्मनाड़िका ॥
तथा—
मूलादिषट्सरोजातं चित्रिणीग्रथितं प्रिये । लिङ्गाधोर्द्ध्वनाभिवुक्ककण्ठभ्रूमध्यदेशजम् ॥
इति मायातन्त्रात् । मूलमूलात् सहस्रारस्तन्मूलाधारमूलात् सहस्रार इति । तथाच सहस्रारं चित्रिण्या ग्रथितम् ।
अत्र च—
तस्या मध्ये विचित्राख्या अमृतस्राविणी शुभा । सर्व्वतेजोमयी सा तु योगिनीहृदयङ्गमा । विसर्गाद्बिन्दुपर्य्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥
इति गौतमीयवचनस्य बिन्दुपर्य्यन्तं इन्दुपर्य्यन्तमिति वा पाठः । ललाटस्थ- बिन्दुपर्य्यन्तं इन्दुपर्य्यन्तं वा व्याप्य सहस्राराधोदेशपर्य्यन्तगा तद्वतीत्यर्थो बोध्यः ।
केन चित्रायां पद्मानि सन्ति तदाह तन्त्रचूड़ामणौ—
तयैव ग्रथितं पद्मं मूलादिपद्मपञ्चकम् । कलिकाकाररूपेण डाकिन्याद्यवलम्बितम् ॥
तयैव चित्रयैव पद्मं मूलादिषड़िति शेषः । पद्मपञ्चकं स्वाधिष्ठानादिपञ्चकं कलिकाकाररूपेण ग्रथितमिति सामान्यत उक्त्वा विशेषरूपेणोक्तम् । एतेन मूलाधारपद्मं विकसितं एवं समस्तपद्मान्यधोमुखान्येव ।
तदुक्तं कौलिकतन्त्रे ताराकल्पे—
सप्तपद्मं मयैवोक्तं सुषुम्णाग्रथितं प्रिये । अधोवक्त्रादिमान्तञ्च नाख्येयं यस्य कस्यचित् ॥
येन तस्याश्चित्रात्वं तदाह श्रीक्रमे—
तस्याश्चान्तर्गता तिष्ठेत् चित्राख्या योगिवल्लभा । पञ्चवर्णोज्ज्वला देवि पञ्चभूतप्रकाशिनी । पञ्चदेवाः पर्वलग्नाः सप्तान्या नाड़्यो मताः ॥
अन्यत्रापि—
ब्रह्मा जनार्द्दनो रुद्र ईश्वरश्च सदाशिवः । चित्राख्यनाड्यन्तरस्थाः पञ्चभूताधिदेवताः ॥
अत्र पञ्चभूतानां पञ्चाधिदेवता उक्ताः । भ्रूमध्ये तु परशिवोऽस्ति लिखिष्यमाण- वचनात् ॥
ब्रह्मनाड़ीमाह तस्यान्तरिति । तस्यां चित्रायां तद्ब्रह्मनाड़ी प्रसिद्ध- ब्रह्मनाड़ी । हरमुखकुहरात् मूलाधारस्थस्वयम्भूलिङ्गमुखविवरात् । आदिदेवान्त- संस्था ब्रह्मपर्य्यन्ता । मायातन्त्रेऽपि “सिरा स्यात् ब्रह्मपर्य्यन्तम्” इत्यादि ।
विद्युन्मालेव विलासो यस्याः सा । पद्मसूत्रतुल्या अतः सूक्ष्मा । शुद्धज्ञानिनः प्रबुध्यन्ते ज्ञायन्ते यया सा तथा । अमृतस्राविणीत्वात् सकल-
सुखयुता । भावो मनोधर्म्मः स्वभावः आत्मधर्म्मः शुद्धो भावः स्वभावो यस्याः सा इति पञ्चम्यन्तबहुव्रीहिः । “भावो हि मानसो धर्म्मः” इत्युक्तेः ।
येन द्वारेण कुण्डलिन्या ब्रह्मणि गमनं तत् द्वारमाह ब्रह्मद्वारमिति । तदास्ये ब्रह्मनाड्या आस्ये ।
मूलाधारात् सहस्रारस्तदन्तर्ब्रह्मनाड़िका । सिरा स्यात् ब्रह्मपर्य्यन्तं तदन्तर्द्वारमुत्तमम् ॥
इति मायातन्त्रात् ।
ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति । येन द्वारेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥
इति गोरक्षसंहितावचनाच्च । सुधेति सुधाकणस्रुतिप्रदेशं ग्रन्थिस्थानम् एतद्वारं सुषुम्णाया नाड्या वदनं धीरा वदन्ति ॥ * ॥
आधारपद्ममाह अथेत्यादिना ।
षण्णवत्यङ्गुलायामं शरीरमुभयात्मकम् । गुदध्वजान्तरे कन्दमुत्सेधाद्व्यङ्गुलं विदुः । तस्य द्विगुणविस्तारं वृत्तरूपेण शोभितम् ॥
इति शारदोक्तकन्द एव मुख्यनाड़ी एव ग्रन्थिस्तदूर्द्ध्वं ध्वजाधः सुषुम्णास्यलग्नम् ।
तथा च मायातन्त्रे—
मुख्यनाड़ीत्रयं ग्रन्थेरूर्द्ध्वं वज्राध ईश्वरि ! । रक्तपर्णो वेदवर्णो मूलाधारोऽप्यवाङ्मुखः ॥ इति ॥
उद्यत् प्रस्फुटितम् ।

इति वचनात् । पूर्व्वमेव व्याख्यातं तत् । सुवर्णाभवर्णैरिति ।
तथाच दक्षिणामूर्त्तौ—
आधारे स्वर्णवर्णेऽस्मिन् वादिसान्तानि संस्मरेत् । द्रुतसौवर्णवर्णानि वर्णानि परमेश्वरि ॥ इति ॥
सारसमुच्चये षट्सु पद्मेषु वर्णाः बिन्दुयुक्ता उक्ता ग्रन्थगौरवभिया नात्र प्रकटिताः ॥ * ॥
चतुष्कोणचक्रमिति ।
तथाच मायातन्त्रे—
तत्कर्णिकान्तरे पृथ्वी चतुष्कोणा सुपीतभा ॥ इति ॥
तथा तन्त्रान्तरे—
भूगृहं चतुरस्रं स्यादम्भोवज्रविभूषितम् ॥ इति ॥
धरायाः स्वबीजमिति ।
तथाच शारदायाम्—
वृत्तं दिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनः । त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ॥ अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् । तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः । वर्णैः स्वैरञ्जितान्याहुः स्वस्वनामावृतान्यपि ॥
तत्तद्भूतसमवर्णानि मण्डलानि तथा स्वैर्व्वर्णैः ह य र व ल वर्णैर्युक्तानि । तथा स्वस्वनामावृतानि पृथिव्यादीनां स्वस्वनामावृतानीत्यर्थः । एतदनुसारेण सर्व्वेषु पत्रेषु स्वस्वबीजानि ज्ञेयानि ॥ * ॥
चतुर्बाहुः इति । अत्र पद्मे ब्रह्मास्तीत्याह तदङ्क इत्यादिना । नवीनार्क- तुल्यप्रकाशः रक्तवर्णः सृष्टिकारी ब्रह्मा चतुर्बाहुयुक्तः । चतुर्भागवेदो मुखाम्भोजलक्ष्मीर्यस्य स तथा ॥ * ॥
अत्र डाकिनी शक्तिरस्ति इत्याह वसेदत्रेति ।
तथाच भट्टधृततन्त्रे—
मूलाधारं ब्रह्मणः स्थानमेतत् सौवर्णाभं डाकिनी देवताऽत्र इति । एषा डाकिनी अनेकसूर्य्यप्रकाशा । अतिशयरक्ता इत्यर्थः ।
तन्त्रान्तरे—
रक्तां रक्तत्रिनेत्रां पशुजनभयकृच्छूलखट्वाङ्गहस्तां वामे खड्गं दधानां चषकमपि सुधापूरितं चैकवक्त्राम् । इति ।
शुद्धबुद्धेः प्रकाशं वहन्तीत्यन्वयः ॥ * ॥
मध्ये अवान्तरदेवतादिकमभिधाय प्रकृतमाह वज्राख्येति । वज्राख्याया वक्त्रदेशे सामीप्ये सप्तमी अधोभागे इति यावत् ।
मुख्यनाड़ीत्रयं ग्रन्थेरूर्द्ध्वं वज्राध ईश्वरि ! ।
इति मायातन्त्रात् । कर्णिकामध्यसंस्थं त्रैपुराख्यं त्रिकोणं एतत् कामरूपाख्यं त्रिकोणं तत् कामरूपाख्यं कन्दर्पो वह्निः समन्तात् भ्रमति । नाम प्रकर्षे जीवेशो वायुश्च निवसति ।
तथाच मायातन्त्रे—
तत्कर्णिकान्तरे पृथ्वी चतुष्कोणा सुपीतभा । तन्मध्ये योनिमध्ये च वह्निवाय्वोः समाश्रये ॥ इति ॥
श्रीक्रमेऽपि—
कर्णिकायां स्थिता योनिः कामाख्या परमेश्वरी ।
अपानाख्यं हि कन्दर्पम् आधारे तत्त्रिकोणके । स्वयम्भूलिङ्गं तन्मध्ये पश्चिमाभिमुखं प्रिये ॥
रुद्रयामलेऽपि—
भ्रमद्योनिगतं ध्यायेत् कामं बन्धूकसन्निभम् । ज्वलत्कालानलप्रख्यं तड़ित्कोटिसमप्रभम् ॥
तदेवाह जीवेश इत्यादिना । बन्धूकपुष्पसमूहमभिहसन् तदधिकरक्तवर्ण इति भावः । “बन्धूकः बन्धुजीवकः” इत्यमरः । “आधारे तत्त्रिकोणके” इत्युक्तत्वात् ।
तथा—
मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मिके । मध्ये स्वयम्भूलिङ्गस्तु कोटिसूर्य्यसमप्रभः ॥
इति गौतमीयात् ।
तथा—
अधोमुखो लिङ्गरूपी हेमाभो भ्रमणे रतः ॥ इति ॥ * ॥
पुनरपि मायातन्त्राच्चाह तन्मध्ये इति । त्रिकोणमध्ये लिङ्गरूपि स्वयम्भूलिङ्गम् । द्रुतसुवर्णकला इति कोमलः सुवर्णवर्णयोगित्वात् कोमलत्वाच्च तथाभिहितम् । पश्चिमास्यः अधोमुखः । ज्ञानध्यानाभ्यां प्रकाश्यते यः स तथा । प्रथमकिस- लयाकाररूपः नूतनपल्लवाङ्कुराकारः विद्यते इति । तथाच पूर्णचन्द्रा- दधिकरससमूह इत्यर्थः । स्निग्धं सन्तानं स्निग्धसमूहं हसतीति स्निग्धसन्तानहासी काशीवासीत्यादिविशेषणम् । सरितां आवर्त्तः चक्रवत् जलानां भ्रमणं तद्रूप- प्रकाशो यस्य स तथा । “स्यादावर्त्तोऽम्भसां भ्रमः ” इत्यमरः ॥ * ॥
तल्लिङ्गं सार्द्धत्रिवलयेनावेष्ट्य कुण्डलिनी शक्तिरस्ति इत्याह तस्योर्द्ध्वे इत्यादिना । बिसतन्तुसोदरतुल्या सा चासौ कला प्रकृतिश्चेति सा तथा ।
अतः सूक्ष्मा । नवीनचपलामाला तस्या विलसनशोभया सह आस्पदं आस्पर्द्धा यस्याः सा तथा । “तड़ित् सौदामिनी विद्युत् चञ्चला चपलापि च” इत्यमरः । सुप्ता निद्रिता शिवोपरि लसत् सार्द्धत्रिवृत्ता आकृतिः शरीरं यस्याः सा तथा । सा तु अधोवक्त्रा ।
यथा श्रीक्रमे—
अधोवक्त्रा स्थिता देवी ऊर्द्ध्वपुच्छातिशोभना । अत्र विद्युल्लताकारा कुण्डली परदेवता ॥ परिस्फुरति सर्व्वात्मा सुप्ता हि भुजगाकृतिः । ब्रह्मद्वारमुखे नित्यं मुखेनावृत्य तिष्ठति ॥ येन द्वारेण गन्तव्यं ब्रह्मद्वारं मनोमयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ मस्तके मणिवद्भिन्ना स्वयम्भूलिङ्गवेष्टिनी ॥
योगान्तरेऽपि—
मुखेनाच्छाद्य तद्वारं कुण्डलीशक्तिरुज्ज्वला । निद्रावशगता देवी प्रसुप्तभुजगोपमा ॥
तथा मायातन्त्रेऽपि—
सार्द्धत्रिवलयानन्दा नन्दिता भास्करप्रभा ॥ इति ॥ * ॥
कूजन्तीति । उत्थिता सतीति शेषः ।
तथा च तन्त्रान्तरे—
झिल्लीवाव्यक्तमधुरा कूजन्ती सततोत्थिता ॥ इति ॥
कोमलवाक्यैर्व्वाचं कूजन्तीत्यर्थः ।
तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । वर्णान्तराविर्भवति गद्यपद्यादिभेदतः ॥
इति शारदोक्तेः तत् चैतन्यम् । श्वासोच्छ्वासविभञ्जनेन वायुना यया जगतां जीवः जीवात्मा हंसः धार्य्यते ।
बिभर्त्ति कुण्डली शक्तिरात्मानं हंसमाश्रिता¹ । हंसः प्राणाश्रयो नित्यं प्राणो नाड़ीसमाश्रयः² ॥ आधारादुद्गतो वायुर्यथावत् सर्व्वदेहिनाम् । देहं प्राप्य स्वनाड़ीभिः प्रयाणं कुरुते बहिः । द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितिः ॥
भट्टाः कुण्डली आत्मानं परमात्मानं विभर्त्ति तद्योगभागिनी³त्यर्थः । कीदृशी ? हंसं⁴ जीवात्मानम् आश्रिता जीवाधिष्ठाना सतीत्यर्थः । हंसः प्राणाश्रयः प्राणवायुसमाश्रयः प्राणः नाड़ीपथाश्रयः । कथं तस्य नाड़ीसमा⁵श्रयत्वम् ? इत्यत आह आधारादिति । प्रयाणं कुरुते इति प्राणः इति प्राणपदव्युत्पत्तिरपि दर्शितेत्यन्तेनाहुः ।
दक्षिणामूर्त्तौ तु—
उच्छ्वासे चैव निश्वासे हंस इत्यक्षरद्वयम् । तस्मात् प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः । अहोरात्रं चरेद्वायुः सं जपो मोक्षदायकः ॥
अन्यत्रापि—
सःकारेण बहिर्याति हंकारेण विशेत् पुनः ॥ इति ॥
प्रोद्दामदीप्तश्रेणी ॥ * ॥
¹ “स्वं समाश्रिता ” इति पाठान्तरम् ।
² “नाडीपथाश्रयः ” इति पाठान्तरम् ।
³ “भासिनी ” इति पठान्तरम् ।
⁴ “स्वं ” इति पाठान्तरम् ।
⁵ “ प्राणस्य नाडीपथा ” इति पाठान्तरम् ।
तस्याः कुण्डलिन्या मध्ये परमा नाम्नी शक्तिरुच्यते तन्मध्ये इत्यादिना । परमा उत्कृष्टा परा परानाम्नी अतिसूक्ष्मा ।
तथाच भट्टधृततन्त्रे—
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्म्मात्रा परा मता । इति ।
सा एव परमात्मस्वरूपा ।
तथा च श्रुतिः—
तस्याः शिखाया मध्ये तु परमा सा व्यवस्थिता । इति ।
नित्या ध्वंसप्रागभावरहिता । आनन्दपरम्परा आनन्दसमूहयुक्ता । अति- चपलायमाना विद्युल्लता इव लसत् दीधितिर्दीप्तिर्यस्याः सा तथा । यस्याः कलायाः प्रभया ब्रह्माण्डादिकटाहान्तं जगत् शरीरं भासते सा विजयते । नित्यज्ञानस्य उदयो यस्यां सा ॥ * ॥
काव्यबन्धैर्व्वाक्यैः बृहस्पतीन् सेवते गौरवे बहुवचनम् ॥ * ॥
स्वाधिष्ठानाख्यपद्ममाह सिन्दूरेत्यादिना । अङ्गच्छदैः षट्पत्रैः विद्युत्- प्रकारैर्व्वाद्यैः पुरन्दरान्तैर्व्वादिलान्तैः सबिन्दुकं परिवृतं पद्मम् ।
तथा च मायातन्त्रे—
तदूर्द्ध्वं तु महेशानि स्वाधिष्ठानमृतुच्छदम् । रक्तवर्णं कर्णिकायामब्जमर्द्धेन्दुसंयुतम् । मण्डलं वारुणं देवि तदूर्द्ध्वं मणिपूरकम् ॥ इति ॥
दक्षिणामूर्त्तौ—
स्वाधिष्ठाने विद्रुमाभे बादिलान्तानि संस्मरेत् । विद्युत्पुञ्जसमाभानि विद्युद्भासितमस्तके ॥ इत्यादि ॥
शारदायां विशदप्रकाशं शुक्लवर्णं तत्तद्भूतसमाभानीति प्रागुक्तम् ।
अम्भोजं षड्दलपद्मं अर्द्धचन्द्रयुतम् । वं बीजं मकराधिरूढं स्वाधिष्ठानं विष्णुगेहं प्रदिष्टम् । बालार्काभं राकिणी देवतात्र ॥ इति वचनात् ॥ * ॥
तस्याङ्के इत्यादि । नीलद्युतिरूपो मनोज्ञश्रियं शोभाम् आदधानः ।
गौतमीये—
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ।
नीलाम्बुजे देवसदृशकमनीयता शोभा यस्याः सा । नानायुधेति ।
तदुक्तं तन्त्रान्तरे—
श्यामां शूलाब्जहस्तां डमरुकसहितां तीक्ष्णटङ्कं वहन्तीम् । देवीं रक्तत्रिनेत्रां द्वितयदललसद्दंष्ट्रदन्तप्रभाभिः । इति ।
स मोहाद्भुतान्धकारसमूहे भानुतुल्यः तन्नाशको भवतीति । सुधेति अबृहत्तुल्य- काव्यसमूहसम्पत्तिं भजन्ते । अत्र पश्यन्ती शक्तिरस्ति प्रमाणं विशुद्धपद्म- व्याख्याने लिखिष्यते ॥ * ॥
मणिपूरपद्ममाह तस्योर्द्ध्वे इत्यादिना ।
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ।
नीलवर्णे नीलवर्णडादिफान्तवर्णैर्युक्ते । तथा च दक्षिणामूर्त्तौ—“सुनीले मणिपूरके डफान्तानि महानीलप्रभानि परिचिन्तयेत्” । वह्नेर्म्मण्डलं बीजं चाह वैश्वानरस्येत्यादिना । वैश्वानरस्य वह्नेर्म्मण्डलं रक्तवर्णं त्रिकोणं तद्बाह्ये त्रिभिः स्वस्तिकैर्दकाराकारैर्युक्तम् ।
मायातन्त्रे—
दशपत्रं पयोजातं कर्णिकायां महेश्वरि । वाह्नेयं मण्डलं रक्तं त्रिकोणं स्वस्तिकान्वितम् ॥
स्वबीजं रेफः । “वेर्णैः स्वै रञ्जितान्यासन्” इति प्रागुक्तेः प्रातःसूर्य्यसम- रक्तवर्णम् । मणिपूरन्तु नीलं रुद्रस्थानं लाकिनी देवतात्रेति वचनात् । तामाह रुद्रमूर्त्तिरित्यादिना । शुद्धसिन्दूररागः अतिशयरक्तवर्णः । वेदबाहूज्ज्वलाङ्गीत्यादि ।
तदुक्तं तन्त्रे—
कृष्णां देवीं त्रिवक्त्रां त्रिनयनसहितां कुब्जिनीमुग्ररूपां वज्रं शक्तिं सदण्डामभयवरकरां दक्षवामे दधानाम् । इत्यादि ।
ज्ञानेति । ज्ञानसमूहेन सह लक्ष्मीस्ताम् ॥ * ॥
अनाहतपद्ममाह तस्योर्द्ध्वे इत्यादि । बन्धूकपुष्पकान्तिस्वरूपरक्तवर्णं कादिठान्तैः द्वादशवर्णैः सिन्दूरवर्णैः युक्तम् ।
तथाच दक्षिणामूर्त्तौ—
पिङ्गवर्णे महावह्निकलिकाभानि संस्मरेत् । कादिठान्तानि वर्णानि चतुर्थेऽनाहते प्रिये ॥
तन्मध्ये षट्कोणपद्मं वायुमण्डलम् ।
तथाच मायातन्त्रे—
अनाहतं द्वादशारं रक्ताभं हृदि सुव्रते । तन्मध्ये पावनं पद्मं षट्कोणं धूम्रवर्णकम् ॥ * ॥
वायुबीजमाह तन्मध्ये इत्यादिना । पवनाक्षरं यं । प्रमाणं आधारपद्मव्याख्याने उक्तम् । धूसरं ईषत् पाण्डुरम् । हस्तचतुष्टययुक्तं कृष्णसाराधिरूढम् । रक्तमनाहतमीश्वरगेहन्तु काकिन्यपीहोक्ता इति वचनात् । तदेवाह तन्मध्ये करुणानिधानमित्यादिना । ईश्वराभिधं ईश्वरनामानम् । हंसाभं सूर्य्यप्रभम् । अभयवरदपाणिद्वययुक्तम् । तत्र काकिनी नवतड़ित्पीता गौरवर्णा त्रिनेत्रा पाशकपालवराभयान् चतुर्भिर्भुजैः बिभ्रती । कङ्काल इति अस्थिमालाधरा । “स्यात् शरीरास्थि कङ्कालः” इत्यमरः ।
तथाच तन्त्रे—
काकिनीं मेघ(द)संस्थाम् पाशं शूलं कपालं डमरुमपि करैर्धारिणीं पीतवर्णा दध्यन्ने सक्तचित्तां स्ववयवनमितां वारुणीमत्तचित्ताम् ।
शूलडमरुस्थाने वराभयं तथा अस्थिमाला तन्त्रान्तरे उक्तम् ।
बाणलिङ्गं तु तन्मध्येऽधोमुखे शक्तिके इति ।
त्रिस्त्रिकोणयुक्ते इति क्रमात् ।
तथा—
तन्मध्ये बाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् । शब्दब्रह्ममयः शब्दो न हेतुस्तदहेतुकः ॥ अनाहताख्यं तत्पद्मं पुरुषाधिष्ठितं परम् ॥
पुरुषेण जीवात्मना इति गौतमीयाच्च । त्रिकोणं बाणलिङ्गं जीवात्मानञ्चाह एतन्नीरजेत्यादिना । कनकं बन्धूकपुष्पसदृशं बन्धूकः पुष्पविशेषः तद्वदङ्गरागोज्ज्वलः ।
हेमबन्धूककुसुमशरच्चन्द्रनिभानि च ।
इति योगिन्येकवाक्यत्वात् । स्वयम्भूबाणलिङ्गेतरलिङ्गविशेषणं हेमादि । मौलौ मस्तके सूक्ष्मविभेदयुक्तो विवरयुक्तो मणिरिव दीप्तचिह्नालयः । शर्व्वस्य देवस्य पीठालयं निर्व्वातदीपशिखाकारहंसेन जीवात्मना शोभितम् । मायातन्त्रेऽपि— “आत्मा तत्र प्रदीपाभः” इति । भानोरित्यस्य मण्डलपदेनैकदेशेन सहान्वयः । तेन मण्डलमण्डितं अन्तरं मध्यं यस्य स चासौ लसत्किञ्जल्कश्चेति स तथा । तस्य शोभाधरम् । “किञ्जल्कः केसरोऽस्त्रियाम्” इत्यमरः ॥ * ॥
विशुद्धपद्ममाह विशुद्धाख्यमिति । हिमच्छायायुक्तस्य नागस्योपरि लसित- शरीरस्य चतुर्भिर्भुजैः पाशाङ्कुशादिलसितैः शोभितशरीरस्य दीप्तबुद्धेः उद्दीप्त- ज्ञानस्य । हिमाभः शुक्लः सदाशिव इत्याख्यायुक्तः सिद्धः प्रसिद्धः ।
तथा तन्त्रान्तरेऽपि—
सदाशिवस्थानमिदं विशुद्धं शाकिन्यथेहापि च धूम्रवर्णा ।
सुधासिन्धोः शुद्धा शुक्ला ।
तथा च तन्त्रान्तरे—
देवीं ज्योतिःस्वरूपां त्रिनयनविलसत्पञ्चवक्त्रां सुदंष्ट्रीं हस्ताम्भोजेषु चापं शूलमपि दधतीं पुस्तकं ज्ञानमुद्राम् । इति ।
पुस्तकज्ञानमुद्रामिति शरं पाशम् इति तन्त्रान्तरे उक्तम् । सुधांशोश्चन्द्रस्य मण्डलम् ।
तथा च स्वच्छन्दसंग्रहे—
अमृताद्यास्तथाकाशं चन्द्रबिन्दुं तदूर्द्ध्वतः। कण्ठोर्द्ध्वे परमेशानि लम्बिका चतुरङ्गुले ॥
मतिशीलस्य ज्ञानशीलयुक्तस्य शुद्धेन्द्रियस्य जनस्य महामोक्षद्वारसम्पत्तिं दधत् मण्डलमित्यर्थः । स जीवो विपदां अन्धकारस्वरूपाणां ध्वंससूर्य्यप्रकाशः । अत्र वैखरी शक्तिरस्ति ।
तथाच भट्टधृततन्त्रे—
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्म्मात्रा परा मता । अश्रोत्रविषयात् तस्मात् किञ्चिदेवोर्द्ध्वगामिनी ॥
स्वयंप्रकाशा पश्यन्ती सुषुम्णानाभिमाश्रिता । सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥
ततः संजल्पमात्रा स्यादविभक्तोर्द्ध्वगामिनी । सैवोरुकण्ठतालुस्था शिरोघ्राणरदाश्रिता ॥
जिह्वामूलोष्ठनिस्यूता कृतवर्णपरिग्रहा । शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥ * ॥

No commentary for this page.