The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)

Open to allArthur Avalon (Sir John Woodroffe)600 segments · 204 pp
page 196

ज्योतिर्व्विशेषयति ज्वलद्दीपेत्यादि गगनधरणीमध्यमिलितमिति । गगनं “तदूर्द्ध्वे शङ्खिन्या निवसति शिखरे शून्यदेशे विकासम्” इत्यनेन प्रदर्शित- शङ्खिनीनाड्यूर्द्ध्वशून्यरूपगगनं धरणी मूलाधारस्थधरामण्डलं तदुभयोर्म्म- ध्यमिलितं मूलाधारादिसहस्रारपर्य्यन्तव्याप्तं ज्योतिरिति विशिष्टार्थः । वेति वाशब्दः समुच्चयार्थः ।

आज्ञाचक्रे सहस्रारवत् परमशिवस्थितिमाह इह स्थाने इति । भगवान् परमशिवः इह स्थाने साक्षाद्भवति स्वयं वर्त्तते इत्यर्थः । भगवन्तं विशेषयति पूर्णविभव इत्यादि । पूर्णः स्वात्मनि परिपूर्णः सृष्टिकर्त्तृत्वाद्यशेषयोग्यतारूपविभवो यस्येत्यर्थः । अथवा विभवोऽनन्तसृष्टिप्रपञ्चसमुदायः पूर्णः सर्व्वव्यापकत्वेन स्थितः तादृशविभवो यस्मादित्यर्थः । “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति” इति श्रुतेः । यद्वा विभवो विभुत्वं पूर्णः सर्व्वव्यापकत्वेन स्थितस्तादृशः विभवो यस्येत्यर्थः । यद्वा पूर्णत्वं फलानुपहित- विषयितानास्पदेच्छाकत्वं तादृशो विभवो यस्येति निगूढ़म् । आत्मातिरिक्त- वस्तूनामनित्यत्वादाकाशादीनां विभुत्वं न सर्व्वकालव्यापकमिति विशेषः ।

अत्र परमशिवस्थितिं विशेषेण व्यनक्ति निर्व्वाणतन्त्रे—

एतत्पद्मस्योर्द्ध्वदेशे ज्ञानपद्मं सुदुर्लभम् । पत्रद्वयसमायुक्तं पूर्णचन्द्रस्य मण्डलम् ॥

गगनधरणीमण्डलयोरन्तःस्थितं तद्वीजमिति यावत् । ज्योतिः कीदृशम् ? प्रातःकालीनसूर्य्यस्येव प्रकाशो यस्य तत् तथा । इह स्थाने अर्थात् चेतसि लीने श्रीभगवान् साक्षात् भवति । कीदृशः ? पूर्णः विभवः ज्ञानं यस्मात् । न व्ययति इत्यव्ययः । अतः सर्व्वेषां साक्षी एतेषां तत्स्थानाधिवासभूतत्वात् । वह्निशशि- मिहिराणां मण्डलम् इव प्रकाशते अत्यर्थतेजोमयत्वात् ॥ [एतन्मते “ज्वलद्द्वी- पाकारान्” इति पाठः] ।

तथा—

शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम् ।

तथा—

एवं हंसो मणिद्वीपे तस्य क्रोड़े परः शिवः । वामभागे सिद्धकाली सदानन्दस्वरूपिणी ॥ इति ॥

तस्य क्रोड़े हंसः इत्यस्य बिन्दुद्वयरूपविसर्गमध्ये ।

तदाह सहस्रारमुपक्रम्य—

बिन्दुद्वयन्तु तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे तु शिवः परमसंज्ञकः ॥ इति ॥

एवं सहस्रारे दर्शनादत्राप्याकाङ्क्षायां तथा इति । अत्रानयोः शिवशक्त्यो र्म्मायाबन्धनाच्छादनेन मकारात्मरूपपरंबिन्दुरूपेण स्थितिर्बोध्या ।

तदुक्तं आज्ञाचक्रमुपक्रम्य—

उत्कलादिमतेऽत्रैव चणकाकाररूपिणी । सृष्टिं करोति भूतानि अत्र स्थित्वा सनातनी ॥ इति ॥

अत्र चणकाकाररूपः परमशिवः सदा वर्त्तते । उत्कलादिमते तु अत्र स्थित्वा सृष्टिं करोतीत्यर्थः । दृष्टान्तमाह वह्नेरित्यादि । यथाऽर्केन्द्वग्निमण्डले भगवान् वर्त्तते तथात्रापीत्यर्थः । अर्कादिमण्डले भगवतोऽवस्थानं प्रसिद्धम् । यद्वा वह्निशशिमिहिरमण्डले सहस्रकमलस्थार्केन्द्वग्निमण्डले यथा चणकाकारेण भगवान् वर्त्तते तद्वदत्रापीति । सहस्रदलेऽर्केन्द्वग्निमण्डलानि प्रदर्शयिष्यन्ते । अत एव पीठपूजायामर्केन्द्वग्निमण्डलोपरि परमात्मज्ञानात्मनोः पूजा विधीयते । परमात्मा परमशिवः ज्ञानात्मा ज्ञानशक्तिस्तदुभयाभिन्नशिवशक्त्यात्मकश्चणकाकारबिन्दुरिति ध्येयम् ॥ ३७ ॥

इह स्थाने विष्णोरतुलपरमामोदमधुरे समारोप्य प्राणं प्रमुदितमनाः प्राणनिधने । परं नित्यं देवं पुरुषमजमाद्यं त्रिजगताम् पुराणं योगीन्द्रः प्रविशति च वेदान्त- विदितम् ॥ ३८ ॥

आज्ञाचक्रे योगेन प्राणत्यागफलमाह इह स्थाने इति । अस्यार्थः योगीन्द्रो जनः प्राणनिधने प्राणवियोगकाले प्रमुदितमनाः आत्मानन्देन हृष्टचित्तः सन् इह आज्ञाचक्रे विष्णोर्भगवतः स्थाने उपदर्शितबिन्दुरूपे प्राणं समारोप्य अथवा तद्बिन्दौ प्राणं समारोप्य प्राणनिधने सति परं पुरुषं प्रविशतीत्यन्वितार्थः । पुरुषं विशेषयति नित्यमविनाशिनम् । देवं सृष्टिस्थिति- प्रलयैः क्रीड़न्तम् । अजं जन्मरहितम् । त्रिजगतामाद्यं अनेन सर्व्वेषां पूर्व्व- वर्त्तित्वात् सर्व्वकारणत्वं सूचितम् । पुराणं पुराणपुरुष इति कृत्वा यो निगद्यते स एवायमिति भावः । वेदान्तो ब्रह्मनिरूपकश्रुतिवाक्यादिः तज्ज्ञानज्ञाप्य- मित्यर्थः ॥ ३८ ॥ * ॥

तदयं विष्णोः स्थाने प्राणारोपणप्रकारः । प्राणवियोगकालं ज्ञात्वा ब्रह्मणि लीनो भवामीत्यानन्दितमनाः योगासनमासीनः सन् कुम्भकेन वायुं संरुध्य हृदिस्थं जीवात्मानं मूलाधारमानीय गुदमाकुञ्च्य यथोक्तविधानेन कुण्डलिनी- मुत्थाप्य मूलादिब्रह्मरन्ध्रान्तं तड़िदाकारमानन्दं कुण्डलिनीमयं सूत्ररूपं नादं ध्यात्वा प्राणरूपश्वासपरमात्मकं हंसं तन्नादे विलाप्य जीवेन सह चक्रभेद- क्रमेणाज्ञाचक्रमानीय तत्र स्थितायां कुण्डलिन्यां स्थूलसूक्ष्मक्रमात् पृथि- व्यादिप्रपञ्चसमुदायं विलाप्य तां पुनर्जीवात्मना सह तत्र स्थितशिवशक्ति-

(३८) इह स्थाने इति । विष्णोरतुलपरमामोदमधुरे इह स्थाने योगी प्राणवियोगसमायोगसमये प्राणान् मनश्च समारोप्य प्रकृष्टमुदितमनाः सन् परं पुरुषमेव प्रविशति निर्व्वाणमुक्तिं प्राप्नोतीति शेषः । कीदृशं परम् ? सर्व्वेषामन्तर्भूतं

लयस्थानं वायोस्तदुपरि च महानादरूपं शिवार्द्धं सिराकारं शान्तं वरदमभयं शुद्धबुद्धिप्रकाशम् । यदा योगी पश्येद्गुरुचरणयुगाम्भोजसेवासुशील- स्तदा वाचां सिद्धिः करकमलतले तस्य भूयात् सदैव ॥ ३९ ॥

मयविन्दुनैकीभावमापाद्य तिष्ठेत् । ततो ब्रह्मरन्ध्रभेदेन देहं त्यक्त्वा ब्रह्मणि लीनो भवेदिति ॥ * ॥

तदयं महावाक्यार्थनिर्णयः । आज्ञाचक्रं द्विदलं शुक्लवर्णं कर्ब्बूरवर्णहक्ष- द्वययुक्तपत्रम् । कर्णिकायां चक्राधिष्ठात्री हाकिनी शक्तिः शुक्लवर्णा रक्तषड्वक्त्रा त्रिनेत्रा षड्भुजा वराभयाक्षमालाकपालडमरुपुस्तकधरा शुक्लपद्मोपरि स्थिता । तदूर्द्ध्वे त्रिकोणे इतरलिङ्गः शुक्लवर्णः विद्युदाकारः । तदूर्द्ध्वत्रिकोणे प्रणवाकृति- रन्तरात्मा प्रदीपाभज्योतिः । तस्य चतुर्द्दिक्षु अन्तरिक्षे ज्योतिःस्फुलिङ्गबिम्बैर्व्वेष्टितः ज्वलद्दीपसदृशेन स्वतेजसा मूलादिब्रह्मरन्ध्रान्तप्रकाशकः । तदूर्द्ध्वे सूक्ष्मरूपं मनः । तदूर्द्ध्वे चन्द्रमण्डले हंसक्रोड़े परमशिवः सशक्तिक इति ॥

इति षष्ठप्रकरणम् ॥ * ॥

इदानीमाज्ञाचक्रोर्द्ध्वे सहस्रदलकमलाधःस्थानवर्त्तिकारणावान्तरशरीरं निरू- पयितुमिच्छन्नाह लयस्थानं वायोरिति । अस्यार्थः यदा यस्मिन् काले योगी जनः गुरुचरणयुगाम्भोजसेवासुशीलः गुरुचरणयुगाम्भोजस्य सेवया सुशोभनं दृढतरैका- ग्रमनोऽभिनिवेशेन सर्व्वाङ्गसुन्दरं शीलं योगानुष्ठानरूपसद्वृत्तं यस्य तादृशः सन्

नित्यं दैन्यम् । दीव्यतीति देवम् । न जायते इत्यजम् । त्रिजगतामाद्यम् । पुराणं सृष्टिस्थितिप्रलयकारणम् । वेदान्तविहितं वेदान्तमतमेतदिति । [एतन्मते “ वेदान्तविहितम् ” इति पाठः] ।

(३९) लयस्थानमिति । एतत् स्थानं वायोर्व्विरामभूतम् । तदुपरि महानादरूपं योगी जनो यदा पश्येत् तदा तस्य वाक्सिद्धिरपि करपद्मतले सदैव

तदुपरि आज्ञाचक्रोर्द्ध्वे महानादरूपं महानादस्य रूपं पश्येत् तदा तस्य योगिनः करकमलतले सदा सर्व्वस्मिन् काले वाचां सिद्धिः वाक्यसिद्धिर्भूयादेवेत्यन्वितार्थः ।

नादं विशेषयति लयस्थानं वायोरिति । अत्र महानादे वायोर्लयः यस्मादुत्पत्तिः तत्र लयनियमात् । यद्यपि भूतशुद्ध्यादौ स्पर्शतत्त्वे वायोर्लयस्तस्य च व्योम्नि लयो दृश्यते तथापि कदाचित् नादेऽपि वायोर्लयो भवतीति । अत्र

“ पृथिवीकाराद्रसवती रसादजायत ककारात् सर्व्वाणि जलानि तीर्थानि रेफाद्वह्नितत्त्वं नादाद्वायुः सर्व्वप्राणमयः बिन्दोर्गगनं सर्व्वशून्यं शब्दमयं तेभ्यः पञ्चविंशतिगुणमयतत्त्वं सर्व्वमिदं विश्वं ब्रह्माण्डं कालिकामयम् ”

इति श्रुतिवाक्येन कालीमन्त्रवर्णस्य सूक्ष्मे संहरणकाले नादे वायोर्लयो भवतीति ध्येयम् । शिवार्द्धमिति । शिवस्यार्द्धनारीश्वरत्वात् तदर्द्धं शक्तिस्तद्रूपं नादमित्यर्थः । सिराकारमिति दन्त्यादि सिरो लाङ्गलस्तदाकारमित्यर्थः ।

तदूर्द्ध्वे तु महानादो लाङ्गलाकृतिरुज्ज्वलः ।

इति कार्त्तिकेयेश्वरसम्वादवाक्यात् । यद्यपि “ कृषिको लाङ्गलं हलं गोदा- रणञ्च सीरश्च ” इत्यमरकोषे लाङ्गलवाचकसीरशब्दस्य चतुर्थस्वरयोगित्वं तथाप्यत्र वचनान्तरैकवाक्यतानुरोधेन तृतीयस्वरयुक्तसिरःपदेनापि लाङ्गलः प्रतीयते इति । अथवा शिवाकारमिति तेन शिवशक्तिमयोऽयं नादः ।

तदुक्तं प्रयोगसारे—

नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी । शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता ॥ इति ॥

अत एव “ तस्या एव शक्तेर्नादबिन्दू सृष्ट्युपयोगावस्थारूपौ¹ ” इति राघवभट्टेना- प्युक्तम् ।

भूयात् । कीदृशम् ? शिवो हकारः तदाकारं शिवदेव्योरर्द्धाङ्गस्वरूपं यस्य हरगौर्य्यात्मकत्वात् । शान्तं सौम्यमूर्त्तिम् । वरान् ददाति अभयमपि । सुबुद्धीनां प्रकाशो यस्मात् । योगी कीदृशः ? गुरुचरणसेवासुशील इति गुरुचरणस्यैतदुपदेश इत्यर्थः ।

¹ पृषत्युपयोग्यरूपौ इति वा पाठः ।

तदूर्द्ध्वे शङ्खिन्या निवसति शिखरे शून्यदेशे प्रकाशं विसर्गाधः पद्मं दशशतदलं पूर्णचन्द्रातिशुभ्रम् । अधोवक्त्रं कान्तं तरुणरविकलाकान्तिकिञ्जल्कपुञ्जं ळकाराद्यैर्व्वर्णैः प्रविलसितवपुः केवलानन्दरूपम् ॥

अन्यत्र—

सातत्यसंज्ञा चिन्मात्रा ज्योतिषः¹ सन्निवेस्तथा । विचिकीर्षुर्घनीभूय क्वचिदभ्येति बिन्दुताम् ॥ इति ॥

तथा श्रीमदाचार्य्यवाक्यम् । “ नाद एव घनीभूतः क्वचिदभ्येति बिन्दुताम् ” इति । अत्र सकलवचनपर्य्यालोचनया शक्तिरेव नादबिन्दुरूपेणाविर्भूता सुवर्ण- कुण्डलमिव । नादबिन्दुः पुनरेकाकारैव इति निष्कर्षः । अभयवरदं अभय- वरदातारमित्यर्थः ॥ ३९ ॥

अथ समाधिरूपयोगानुशीलनसाधकानां

समाधिकालात् प्रागेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात् सर्व्वं चिदात्मनि विलापयेत् ॥

इत्याचार्य्यवचनेन समाधेः पूर्व्वं स्थूलसूक्ष्मरूपसृष्टिप्रपञ्चसमुदायचिन्तन- विधानात् तज्ज्ञानस्यावश्यकत्वादत्र वदन्ति । तत्र तावत् पृथिव्यादि-पञ्च- स्थूलरूपाणि मूलादिविशुद्धान्तचक्रे उक्तानि । तदाश्रितत्वात् मूलाधारे भूमण्डले पादघ्राणेन्द्रियगन्धतत्त्वेति त्रिः । जलमण्डले पाणिरसनेन्द्रियरसतत्त्वेति

(४०) तदूर्द्धे इति। तस्य महानादस्य ऊर्द्ध्वे महाशङ्खिन्याश्च शिखरसमदेशे शून्यनिरालम्बे विसर्गस्याधः प्रकाशरूपं सहस्रदलपद्मं निवसति । अत्यर्थपूर्णचन्द्र इव शुभ्रं अधोवक्त्रं कान्तं तरुणरविकला इव कान्तं किञ्जल्कपुञ्जं यस्य । ललाटाद्यैर्ल- लाटादिविन्यस्तैरकारादिपञ्चाशद्वर्णैर्व्विंशतिप्रकारेण परिलसिततनुः केवलानन्दस्व- रूपमिति ।

¹ “ सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः ” इति वा पाठः ।

त्रिः । वह्निमण्डले पायुचक्षुरिन्द्रियरूपतत्त्वेति त्रिः । वायुमण्डले उपस्थत्व- गिन्द्रियस्पर्शतत्त्वेति त्रिः । नभोमण्डले वाक्श्रोत्रेन्द्रियशब्दतत्त्वेति त्रिरिति समुदायेन पञ्चदशतत्त्वानि वर्तन्ते । पृथिव्यादिना मिलित्वा विंशतितत्त्वानि स्थूलानि बोद्धव्यानि । इदानीं सूक्ष्मरूपाणि विधीयन्ते । तत्राज्ञाचक्रे सूक्ष्मरूपं मनः स्वयं प्रदर्शितम् । अपराण्याह कङ्कालमालिनीतन्त्रे आज्ञाचक्रमुपक्रम्य—

मनश्चात्र सदा भाति हाकिनीशक्तिरञ्जितम् । बुद्धिप्रकृत्यहङ्कारालङ्कृतं तैजसं परम् ॥ इति ॥

अत्र बुद्धिप्रकृत्यहङ्कारात्मकसूक्ष्मरूपत्रयाणां स्थितिः प्रतीयते । तत्राहङ्कारस्य न पाठक्रमात् स्थितिः । मूलाधारादि सर्व्वत्र पृथिव्यादिजनकस्य तत्तद्विलयाधारस्य च जन्यविलाप्ययोरधःस्थितिदर्शनात् पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वाच्चात्रापि तथा स्थितिः कल्प्यते । तेन “ अहङ्कारे हरेद् व्योम सशब्दं तन्महत्यपि ” इति वचनात् व्योम्नो विलयार्थं तद्विलयाधिकरणस्याहङ्कारस्य प्रथमोपस्थितं तदादाव- हङ्कारस्तदूर्द्ध्वे बुद्धिप्रकृत्योः स्थितिः । एतेषां जन्यजनकभावमाह शारदायाम्—

मूलभूतात्ततोऽव्यक्तात् विकृतात् परवस्तुनः । आसीत् किल महत्तत्त्वं गुणान्तःकरणात्मकम् । अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदतः ॥ इति ॥

विकृतादिति इदं परवस्तुनः प्रतिबिम्बत्वेन विकृतिरूपं महत्तत्त्वादीनां प्रकृतित्वात् प्रकृतिनामकञ्च । अतएवोक्तम्—

प्रकृतिः परमा शक्तिर्व्विकृतिः प्रतिबिम्बता ॥ इति ॥

तथा “ परंब्रह्मात्मप्रकृतिः प्रतिबिम्बस्वरूपिणी ” ति प्रागुपदर्शितम् । शारदाबचने महत्तत्त्वमिति । यदेव महत्तत्त्वं सैव बुद्धिः । तदाह ईशानशिवेन—

बोद्धव्यलक्षणा सैव प्रकृतिः शक्तिजृम्भिता । बुद्धितत्त्वं भवेद् व्यक्तं सात्त्विकं गुणमाश्रिता । सैव बुद्धिर्म्महन्नाम तत्त्वं सांख्यैः प्रगीयते ॥ इति ॥

महत्तत्त्वन्तु गुणान्तःकरणात्मकम् । गुणाः सत्त्वरजस्तमोरूपाः । अन्तःकरणमाह शारदायाम् “ अन्तःकरणमात्मनः मनोबुद्धिरहङ्कारश्चित्तञ्च परिकीर्त्तितम् ” इति । एतत्समुदायात्मकं महत्तत्त्वम् । ननु मनसो महत्तत्त्वान्तर्गतत्वे “ तदन्तश्चक्रेऽस्मिन् प्रविलसति मनः सूक्ष्मरूपमि ”त्यनेन पृथगभिधानं कथं सङ्गच्छते इति चेन्न तन्मनो न महत्तत्त्वान्तर्गतं किन्तु तदहङ्कारजन्य- मतिरिक्तम् ।

तदाह—

“ यतोऽपरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् । तैजसादेव तज्जातम् ” इति राघवभट्टः ।

एवञ्चाज्ञाचक्रस्थमनःपर्य्यन्तानां क्रमेण स्थितेर्व्विहितत्वात् तदूर्द्ध्वेऽहङ्कारादीनां स्थितिर्बोध्या । ततश्चाज्ञाचक्रे हाकिनी इतरलिङ्गप्रणवमनोऽहङ्कारबुद्धिप्रकृतीना- मव्यवहितोर्द्ध्वोर्द्ध्वक्रमेण स्थितिनिरूपणात् स्थानविशेषानभिहितस्य पूर्व्वदर्शित- चन्द्रमण्डलस्य तेषामूर्द्ध्वे स्थितिरिति । ननु तेषामधः कथं न स्थीयते इति चेन्न । “ इन्दुर्ललाटदेशे च तदूर्द्ध्वे बोधिनी स्वयम् ” इति सम्मोहनतन्त्रवचनेन वक्ष्यमाणाज्ञाचक्रोर्द्ध्ववर्त्तिन्योः समनियतयोरिन्दुबोधिन्योरधोभागे स्थितिबोधनात् तयोरव्यवधानाय सर्व्वोर्द्ध्वे एव तस्य स्थितिरिति ।

अथाज्ञाचक्रोर्द्ध्वे कारणरूपमाह सम्मोहनतन्त्रे—

इन्दुर्ललाटदेशे च तदूर्द्ध्वे बोधिनी स्वयम् । तदूर्द्ध्वे भाति नादोऽसावर्द्धचन्द्राकृतिः परः ॥ तदूर्द्ध्वे च महानादो लाङ्गलाकृतिरुज्ज्वलः । तदूर्द्ध्वे च कला प्रोक्ता आज्ञीति योगिवल्लभा । उन्मनी तु तदूर्द्ध्वे च यद् गत्वा न निवर्त्तते ॥ इति ॥

तदूर्द्ध्वे बोधिनीत्यत्र तदूर्द्ध्वे ललाटोर्द्ध्वे आज्ञाचक्रोर्द्ध्वे इति यावत् ।

बोधिन्यधःस्थले बिन्दुस्थितिमाह भूतशुद्धितन्त्रे—

विन्दुर्म्मात्रार्द्धतो देवि तदूर्द्ध्वे नादसंज्ञितम् । लयस्थानं तथा वायोर्म्महानादं तदूर्द्ध्वतः ॥ इति ॥

मात्रार्द्धा शक्तिः—

बालसूर्य्यप्रतीकाशमासीद्बिन्दुमदक्षरम् । तदूर्द्ध्वे चार्द्धमात्रा तु गान्धाररागमाश्रिता ॥

इति बृहत्त्रिविक्रमसंहितावचनेनार्द्धमात्रायाः शक्तिवाचकत्वप्रतीतेः । अत्र द्वयोर्व्वचनयोरेकवाक्यतया यार्द्धमात्रा सैव बोधिनीति बोध्यम् । बिन्दुबोधिनी- नादेति त्रयं बिन्दुमयपरशक्तेः रूपविशेषः ।

तदाह शारदायाम्—

सच्चिदानन्दविभवात् सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ॥ परशक्तिमयः साक्षात्त्रिधासौ भिद्यते पुनः । बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः ॥ बिन्दुर्नादात्मको बीजं शक्तिर्नादस्तयोर्म्मिथः । समवायः समाख्यातः सर्व्वागमविशारदैः ॥ इति ॥

परशक्तिमयः परः शिवस्तेन शिवशक्तिमयो बिन्दुः । अयं ललाटोर्द्ध्वे स्थितो बिन्दुर्नादात्मकः शिवात्मकः ।

बीजं शक्तिर्बोधिनीरूपमित्यर्थः । नादस्तयोः समवायः सम्बन्धः क्षोभ्यक्षोभकरूपस्तेनायं क्रियाशक्तिरूपः एतत्त्रयोर्द्ध्वे महानादः पूर्व्वोपदर्शितः ।

तदूर्द्ध्वे च कला प्रोक्ता इति । कला शक्तिः । आज्ञीति तिर्य्यक् रेखारूपमात्राकारा इत्यर्थः ॥ इयं शक्तिः सृष्ट्यादौ आविर्भूता ।

तदुक्तं पञ्चरात्रे—

एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् । समस्ततत्त्वसंघातां सृष्ट्य¹धिष्ठातृरूपिणीम् । व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् ॥ इति ॥

अन्यत्र—

शिवशक्तिसमायोगादव्यक्तात् परमेश्वरात् । आद्या भगवती देवी सैव त्रिपुरसुन्दरी । आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ॥ इति ॥

उन्मनी तु तदूर्द्ध्वं चेति ।

तल्लक्षणमाह—

यत्र गत्वा तु मनसो मनस्त्वं नैव विद्यते । उन्मनी सा समाख्याता सर्व्वतन्त्रेषु गोपिता ॥ इति ॥

ततश्च मनोवृत्तिमद्विषयावलम्बनचेष्टाकालीनविषयावलम्बनसामान्याभावसम्पादनं तत्त्वमुन्मनीत्वमिति । सा च द्विविधा सहस्राराधारा निर्वाणकलारूपा एतत्स्थानस्थिता वर्णावलीरूपा ।

तथा च कङ्कालमालिनीतन्त्रे—

सहस्रारकर्णिकायां चन्द्रमण्डलमध्यगा । सर्व्वसङ्कल्परहिता कला सप्तदशी भवेत् । उन्मनी नाम तस्या हि भवपाशनिकृन्तनी ॥ इति ॥

तथा—

उन्मनीञ्च मालावर्णं स्मरणात् मोक्षदायिनी ॥ इति ॥

मालावर्णं वर्णावलीरूपमित्यर्थः ।

¹ संघात्मस्फूर्त्यं इति वा पाठः ।

उन्मन्यधः समनीमाह भूतशुद्धौ—

ततो हि व्यापिका शक्तिराञ्जीति यां विदुर्ज्जनाः । समनीमूर्ध्वतस्तस्या उन्मनीन्तु तदूर्द्ध्वतः ॥ इति ॥

इदमपि परशक्तेरवान्तररूपम् । ततश्चाज्ञाचक्रोर्द्ध्वं द्वितीयबिन्दुः शिवस्वरूपः । तदूर्द्ध्वं अर्द्धमात्राकारा बोधिनीशक्तिस्तदूर्द्ध्वं शिवशक्तिसमवायरूपाऽर्द्धचन्द्रा- कृतिर्नादस्तदूर्द्ध्वं लाङ्गलाकृतिर्म्महानादस्तदूर्द्ध्वं आञ्जीरूपा व्यापिकाशक्तिः तदूर्द्ध्वं समनी तदूर्द्ध्वं उन्मनीति क्रमेण सप्तकारणरूपाणि वर्त्तन्ते ।

अलमतिविस्तरेण प्रकृतमनुसरामः । सहस्रदलपद्मं निरूपयन्नाह तदूर्द्ध्वं इति दशभिः । तदूर्द्ध्वं प्रागुपदर्शितसर्व्वेषामूर्द्ध्वं । पूर्व्वोपदर्शितशङ्खिनीनाड्याः शिखरे मस्तके । शून्यदेशे नाड्यनावृतस्थाने । तेन सुषुम्णाया अपि ऊर्द्ध्वं इति सूचितम् । विसर्गस्याधः दशशतदलं सहस्रदलं पद्मं निवसति इत्यन्वयः ।

विसर्गन्तु ब्रह्मरन्ध्रस्योर्द्ध्वभागे—

तस्मिन् रन्ध्रे विसर्गञ्च नित्यानन्दं निरञ्जनम् ॥

इत्यादि वक्ष्यमाणवचनात् ।

पद्मं विशेषयति पूर्णचन्द्रेत्यादि । ळ-काराद्यैर्व्वर्णैः प्रविलसितवपुरिति । अत्र ळ-कारग्रहणं न विलोमेन वर्णचिन्तनार्थं किन्तु ळ-कारग्रहणं क्ष-कार- परित्यागार्थम् । तत्त्यागबीजं हि वर्णानां सहस्रदले स्थितिरावर्त्तनेनैव घटते । एवञ्च क्ष-कारसहितैकपञ्चाशद्वर्णानां विंशत्यावर्त्तनेन विंशत्यधिकसहस्रसंख्या भवन्ति । ऊनविंशत्यावर्त्तनेन तु एकत्रिंशन्न्यूनसहस्रसंख्या भवन्ति । अतः क्ष-कारपरित्यागेन तत् समाधीयते । तेन अ-कारादि ळ-कारान्तपञ्चाशद्वर्णा अनुलोमेन विंशत्यावर्त्तनेन सहस्रदले चिन्तनीया इति ध्येयम् । अनुलोमेन वर्णचिन्तनं व्यक्तमाह कङ्कालमालिनीतन्त्रे—

सहस्रारं महापद्मं शुक्लवर्णमधोमुखम् । अ-कारादिक्ष-कारान्तैः स्फुरद्वर्णैर्व्विराजितम् ॥ इति ॥

समास्ते तस्यान्तः शशपरिरहितः शुद्धसम्पूर्णचन्द्रः स्फुरज्ज्योत्स्नाजालः परमरसचयस्निग्धसन्तानहासी । त्रिकोणं तस्यान्तः स्फुरति च सततं विद्युदाकाररूपं तदन्तःशून्यं तत् सकलसुरगणैः सेवितं चातिगुप्तम्॥

अत्र क्ष-कारान्तैरित्यत्रान्तशब्दस्यावसानार्थकत्वात् क्ष-कारोऽन्तेऽवसाने यस्येति बहुव्रीहिणा क्ष-कारं विहाय ळ-कारान्तपञ्चाशद्वर्णयोगः । अथवा ळ-काराद्यैरिति ळकार - क्षकारान्तपञ्चाशद्वर्णानामकथादित्रिरेखावद्धामावर्त्तेन यथायोग्यावर्त्तनेन विन्यासः । कङ्काल्मालिनीवचनन्तु दक्षिणावर्त्तेन वर्णविन्यासविधायकम् इति वचनद्वयाविरोधः । अत्र पञ्चाशद्वर्णानां रूपविशेषानभिधानात्तद्वर्णमय्या मातृकायाः शुक्लवर्णत्वदर्शनात्तेऽप्यत्र शुक्लत्वेनैव चिन्तनीया इति ध्येयम् । ललाटाद्यैर्व्वर्णैरिति पाठे तु ललाटशब्देन मातृकान्यासोक्तललाटवर्णः अकारस्त- दाद्यैर्व्वर्णैरित्यर्थः । एतत्पक्षे ळकारं विहाय अकारादिक्षकारान्तं पञ्चाशद्वर्णयोगो बोध्यः । सर्व्वत्र पञ्चाशद्वर्णग्रहणे अन्त्यळकारत्यागदर्शनात् ।

अत्र केचित् प्रविलसिततनुरिति पठन्ति । तत्र “वा पुंसि पद्मम्” इति दर्शनात् पुंसि विशिष्टस्य पद्ममित्यस्य विशेषणतया तनुरित्यस्यापि पुंस्त्वमिति व्याख्यायन्ति च । तन्न एतत्श्लोकस्थनिवसतिक्रियायाः कर्त्तृत्वेन पद्ममिति बिन्द्वन्तनिर्द्देशात् क्लीबलिङ्गप्रयोग एव प्रतीयते न तु पुंलिङ्गप्रयोग- स्तथात्वे विसर्गान्तो भवितुमर्हति अतस्तद्विशेषणस्य तनुशब्दस्य क्लीबत्वमवश्यं वाच्यं तथात्वे बिन्द्वन्तता न भवति निर्बिन्दुत्वे छन्दःपातस्तस्माद्वपुरित्येव पाठः । स्पष्टमन्यत् ॥ ४० ॥

सहस्रदलकमलकर्णिकायां चन्द्रमण्डलस्थितिमाह समास्ते इति । तस्यान्तः तत्र पद्मे अन्तर्म्मध्ये शुद्धः निर्म्मलोदयविशिष्टः । चन्द्रं विशेषयति

(४१) समास्ते इति । तस्य पद्मस्यान्तर्म्मध्ये शशरहितः अत्यर्थदीप्तिमान् सम्पूर्णचन्द्रः समास्ते । कीदृशः ? स्फुरन्ति ज्योत्स्नाजालानि यस्य स तथा ।

स्फुरदित्यादि परमरसचयस्निग्धसन्तानहासी इति । स्निग्धः आर्द्रसदृशभावस्तस्य सन्तानो विस्तारो यत्र इत्यर्थः । ततश्च परमामृतरसचयेन उत्तापहीनतया स्निग्धसन्तानयुक्तो हासवदानन्दमयकिरणविशिष्ट इत्यर्थः । अथ चन्द्रमण्डल- स्याध ऊर्द्ध्वं अन्तरात्मादीनां स्थितिमाह कङ्कालमालिनीतन्त्रे सहस्रार- मुपक्रम्य—

तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्य्यस्य मण्डलञ्चैव चन्द्रमण्डलमेव च ॥ ततो वायुर्म्महानामा ब्रह्मरन्ध्रं ततः स्मृतम् । तस्मिन् रन्ध्रे विसर्गञ्च नित्यानन्दं निरञ्जनम् । तदूर्द्ध्वं शङ्खिनी देवी सृष्टिस्थित्यन्तकारिणी ॥ इति ॥

तस्यान्तः चन्द्रयण्डलमध्ये सततं निरन्तरं विद्युदाकाररूपं त्रिकोणं स्फुरतीति । तदन्तःशून्यमिति । अन्तर्म्मध्ये शून्यं यस्य तदन्तःशून्यं परंबिन्दुशरीरं तस्मिन् त्रिकोणे अन्तःशून्यं तदन्तःशून्यं त्रिकोणमध्यवर्त्ति परंबिन्दुरूपं शून्यं स्फुरतीति क्रियान्वयः । यद्वा तदन्तस्त्रिकोणमध्ये शून्ये परं बिन्दुरूपं स्फुरति ।

अत एवोक्तं तोड़लतन्त्रे षष्ठोल्लासे—

निराकारं परं ज्योतिर्बिन्दुञ्चाव्ययसंज्ञकम् । बिन्दुशब्देन शून्यं स्यात् तथा च गुणसूचकम् ॥ इति ॥

अत्र “ आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः” इति वचनात् योगस्य गोपनेनानुष्ठानविधानात् तदन्तःशून्यमतिगुप्तं यथा स्यात्तथा सकलसुरगणैः सेवितम् आराधितमित्यर्थः ॥ ४१ ॥

परमरसचयेन शिवसम्बन्धाय परमामृतसमूहेन अत्यर्थस्निग्धहासो दीप्तिर्यस्य तस्य चन्द्रस्य मध्ये त्रिकोणं सर्व्वदैव स्फुरति विद्युदाकार इव रूपं यस्य त्रिकोणान्तर्म्मध्ये तत् शून्याकारं विलसति । सकलसुरगणैः सेवितम् । शून्यत्वादतिगुह्यम् ।

सुगुप्तं तद्यत्नादतिशयपरमामोदसन्तानराशेः परं कन्दं सूक्ष्मं सकलशशिकलाशुद्धरूपप्रकाशम् । इह स्थाने देवः परमशिवसमाख्यानसिद्धः प्रसिद्धः खरूपी सर्व्वात्मा रसविरसमितोऽज्ञानमोहा- न्धहंसः ॥ ४२ ॥

सुगुप्तमिति । अस्यायमर्थः वक्ष्यमाणकेशाग्रकोटिभागैकरूपत्वादतिगुप्तं तत् शून्यं यत्नात् चिरनिरन्तरध्यानाद्यनुष्ठानात् सकलशशिकलाशुद्धरूपप्रकाशं कला निर्व्वाणकला तया सह वर्त्तमाना या शशिनश्चन्द्रस्य षोड़शी कला तया निर्म्मलरूपप्रकाशो यस्य तदित्यर्थः । तथा चातिसूक्ष्ममपि त्रिकोणान्तर्व्वर्त्त्यमा- कलानिर्व्वाणकलासहितपरंबिन्दुरूपान्तःशून्यं ध्यानेन प्रकाशितं भवतीति भावः । परमामोदसन्तानराशेर्म्मोक्षस्य परं कन्दं प्रधानमूलमित्यर्थः । सुगुप्तमित्यत्र सुगोप्यमिति पाठे यत्नादित्यस्य उभयत्रान्वय इति ध्येयम् ।

केचित्तु त्रिकोणान्तःशून्यं शून्यस्थानं तत्तु कीदृशम् ? सकलशशिकला- शुद्धरूपप्रकाशम् । शशिनश्चन्द्रस्य सकलकलाः समस्तकलाः षोड़शकलाः तत् शुद्धं शुक्लं यद्रूपं तदेव प्रकाशो यस्य तादृशपूर्णचन्द्रप्रकाशमित्यर्थः इति व्याख्यायन्ति तच्चिन्त्यम् । तत्त्रिकोणस्य पूर्णचन्द्रमण्डलमध्यवर्त्तित्वकथनेनैव त्रिकोणमध्यस्थानस्य पूर्णचन्द्रतुल्यप्रकाशप्राप्तौ पुनस्तत्कथनं व्यर्थं स्यात् । किञ्च सकलसुरगणैः सेवितमित्यनेन शून्यस्थानस्य सेवनं न युज्यते किन्तु त्रिकोणा- न्तर्बिन्दोरेव सेव्यत्वमिति । यदि तु तत् शून्यस्थानस्य परं बिन्दोरधिष्ठानात्

(४२) सुगुप्तमिति । सुगोप्यं तत् शून्याकारशिवलिङ्गं यत्नात् गोप्यं गोपनीयं कस्मैचित् यावत्तावन्न कथनीयम् । कीदृशम् ? अतिशयपरमामोदसन्तान- जनकामृतराशेः प्रकृष्टमूलं तस्मादेव परमामृतं क्षरति । सूक्ष्मम् अलक्ष्यं शशिनः सकलकलैवांशरूपं प्रकाशो यस्य । इह स्थान एव परमशिवत्वेन सिद्धः सर्व्वैर्व्विदितः प्रसिद्धः योगिनां हृदये प्रकाशनपरः खरूपी शून्याकारः । सर्व्वेषाम् आत्मा रसविरसमितः परमरसेनाच्छादितः अज्ञानेन यो मोहान्धकारः तत्र हंसः सूर्य्यसदृशः ।

सुधाधारासारं निरवधि विमुञ्चन्नतितरां यतेः स्वात्मज्ञानं दिशति भगवान् निर्म्मलमतेः । समास्ते सर्व्वेशः सकलसुखसन्तानलहरी- परीवाहो हंसः परम इति नाम्ना परिचितः ॥ ४३ ॥

सेव्यत्वमित्युच्यते तदा तु तत्शून्यस्थानस्य परंबिन्दोरधिष्ठानात् सेव्यत्व- मित्युच्यते तदा तत् शून्यस्थानमेव नो भवतीति सुधीभिर्भाव्यम् ।

सहस्रदलकर्णिकायां परमशिवस्थितिमाह इह स्थाने इति । इह स्थाने कर्णिकायामित्यर्थः । परमशिवसमाख्यानसिद्धः परमशिवनाम्ना ख्यातो देवो वर्त्तते इति शेषः । देवं विशेषयति खरूपीति ब्रह्मरूपी ब्रह्ममयमिति यावत् । सर्व्वात्मा सर्व्वेषां जीवानाम् आत्मा जीवात्मस्वरूपः जीवात्मपरमात्मनोर्व्वस्तुतो भेदाभावात् य आत्मा स एव जीवः । अत एवोक्तमध्यात्मरामायणे—

जीवात्मा परमात्मा च पर्य्यायो नात्र भेदधीः । आचार्य्यशास्त्रोपदेशादैक्यज्ञानं यदा भवेत् । आत्मनोर्जीवपरयोर्म्मूला विद्या तदैव तु ॥

श्रुतिरपि “ तत्त्वमसि ” इति वाक्येन तत्त्वंपदयोरेकार्थत्वं दर्शयति । रसविर- समित इति रसः परमानन्दरसः विरसस्तद्वैलक्षण्येन शिवशक्तियोगजन्यसामरस्या- नन्दरूपः । तदुभयरसमितः प्राप्तः इत्यर्थः । अथवा रसः प्रथमोपस्थितत्वेन विषयरसस्तस्मिन् विरसा हेयताबुद्धिर्येन रसेन स परमानन्दरसस्तन्मित इत्यर्थः । अज्ञानमोहान्धहंसः अज्ञानमोहान्धकारनाशकत्वात् हंसः सूर्य्यरूप इत्यर्थः ॥ ४२ ॥

सुधाधारासारं निरवधि विमुञ्चन्नतितरामिति । निरवधि निरन्तरम् अतितरामतिशयं यथा स्यात्तथा सुधाधारारूपसारं विमुञ्चन्नित्यर्थः ।

(४३) सुधाधारासारमिति । स भगवान् शिवः निर्म्मलमतेर्योगिनो जनस्य आत्मविषयस्य परमात्मनि ज्ञानं दिशति । कीदृशम् ? सुधाधारासारम् अमृतधाराया

अथवा सुधाया आधारश्चन्द्रस्तस्मादास्रियते निःस्रियते यत् तत् सुधा- धारासारं शुक्लवर्णामृतकिरणं विमुञ्चन् प्रकाशयन्नित्यर्थः । एतद्विशेषणेन विशेष्यस्य चन्द्रवत् शुक्लवर्णत्वं सूचितम् ।

यद्वा आसार्य्यते निःसार्य्यते उच्चार्य्यते इति यावत् तद्वाक्यं सुधाधारया सह आसारं सुधाधारासारं सुधामयवाक्यमित्यर्थः । ततश्च निरवधि सर्व्वस्मिन् काले अतितरां मोहनाशायातिप्रबलतरां सुधामयवाक्यं विमुञ्चन् उच्चरन् सन् यतेरुपास्यदेवतायां नियतमनसः स्वात्मज्ञानं स्वञ्जीवात्मा तेन सह आत्मा परमात्मा ज्ञायतेऽनेनेति । अत्रापृथक्साहित्येन जीवात्माभेदेन परमात्मज्ञान- कारणं तारकब्रह्ममन्त्रम् उपदिशतीति समुदायार्थः ।

अथवा सुधा कृपामृतं तद्धारया युक्तं सारं ब्रह्ममन्त्रात्मकसारवाक्य- मुच्चरन् स्वात्मज्ञानं दिशतीत्यर्थः । एतद्विशेषणेन तारकमन्त्रोपदेशकत्वज्ञापनात्तु विशेष्यगुरुत्वं सूचितम् । एवञ्चैतद्विशेषणं पूर्व्वश्लोकोक्तपरमशिवस्यैव गुरुत्वात् । अतएव ललितारहस्ये गुरुतत्त्वनिरूपणे—

ख्यातोऽयं पुरुषश्रेष्ठः सर्व्वदात्मरतिप्रियः ।

इत्यादिना गुरुं वर्णयित्वा

तेजोरूपा प्रिया तस्य ब्रह्मवर्त्मसुदुर्लभा । परमं ब्रह्म यत्पादपङ्कजद्युतिवैभवम् ॥

इत्युक्त्या शोभाधिक्येन पदपङ्कजयोः परब्रह्मरूपपरमशिवस्य हृत्पद्मादिति व्या- ख्यातम् । तेजोरूपगुरुप्रियायाः पादद्वयारोहणं गुरुहृदय एव न त्वन्यपुरुषस्येति । अतो यः परमशिवः स एव गुरुरिति तात्पर्य्यम् ।

आसारमिव । यद्वा अमृतधारासारं निरवधि अतितराम् अत्यर्थं विमुञ्चन् इति भगवतो विशेषणम् एवंभूतः सर्व्वेशः शिवः सर्व्वेषां सुखसमूहलहरीबहिर्भूतः सन् समास्ते । कीदृशः ? नाम्ना परमहंस इति परिचितः ।

निर्व्वाणतन्त्रेऽपि—

शिरःपद्मे महादेवस्तथैव परमो गुरुः । तत्समो नास्ति देवेशि पूज्यो हि भुवनत्रये । तदंशं चिन्तयेद्देवि बाह्ये गुरुचतुष्टयम् ॥ इति ॥

अयं परमशिवः कर्णिकान्तस्त्रिकोणस्य बहिरधः कथ्यमानहंसः इत्यस्योपरि वर्त्तते ।

पूर्व्वोक्तकङ्कालमालिनीतन्त्रवचने—

तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्य्यस्य मण्डलं तत्र चन्द्रमण्डलमेव च ॥

इत्यादिना क्रमेण महाशङ्खिनीशक्तिपर्य्यन्तस्थितिमभिधाय

तस्याधस्ताच्च देवेशि चन्द्रमण्डलमध्यगम् । त्रिकोणं तत्र सञ्चिन्त्य क्षयहीनात्मिका कला । तन्मध्ये कुटिला निर्व्वाणाख्यसप्तदशी कला ॥

इति वचनेन चन्द्रमण्डलान्तस्त्रिकोणेऽमाकलादीनामेव स्थितेरुक्तत्वात् । गुरोस्तु तदधोऽन्तरात्मन उपरि स्थितिरुवाच । ननु कङ्कालमालिनीवचनेऽन्तरात्मन उपरि गुरोः स्थितिरुक्ता तत्कथं हंसस्य ऊर्द्ध्वे गुरोः स्थितिरुच्यते इति चेन्न हंसान्तरात्मनोरेकार्थत्वात् ।

तथा हि कङ्कालमालिनीतन्त्रे गुरुध्यानं यथा—

सहस्रदलमध्यस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादबिन्दोर्म्मध्ये सिंहासनोज्ज्वलम् ॥ तस्मिन् निजगुरुं नित्यमित्यादि ।

तथाऽन्यत्र—हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् । अमुकानन्दनाथान्तं स्मरेत्तन्नामपूर्व्वकम् ॥ इति ॥

तथाऽन्नदाकल्पे—शिरः पद्मे शुक्ले दशशतदले केसरगते । पतत्रीणां तल्पे परमशिवरूपं निजगुरुम् ॥ इति ॥

Commentary
page 196

No commentary for this page.