The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)
एतेषां वचनानां पर्य्यालोचनया हंसान्तरात्मनोरभेदः प्रतीयते । एवं परमशिव- रूपं निजगुरुमित्यनेन परमशिव एव गुरुरिति भाव्यम् ।
यत्तु सहस्रदलमुपक्रम्य—
तन्मध्ये तु त्रिकोणं स्याद्विद्युदाकाररूपकम् । बिन्दुद्वयञ्च तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे तु शिवः परमसंज्ञकः ॥
इति वचनं परमशिवस्य त्रिकोणमध्ये स्थितिबोधकम् तन्मतभेदेन सहस्रदल- कमलाभिन्नतत्कर्णिकाधोवर्त्त्यूर्द्ध्वमुखद्वादशदलकर्णिकान्तस्त्रिकोणे गुरुस्थितिबोध- कम् । एतत्पादुकापञ्चकस्तोत्रे स्पष्टीकृतम् । न तूर्द्ध्वसहस्रदलकर्णिकात्रिकोणे गुरुस्थितिबोधकम् । मध्यत्रिकोणस्याधस्तनत्रिकोणान्तरे तद्रूपेण स्थितः । अन्यथा कङ्कालमालिनीतन्त्रवचनविरोधात् ।
समास्ते सर्व्वेश इति । अत्र कर्णिकायां सर्व्वेषामीश्वरः समास्ते इत्यर्थः । नन्वत्र परमशिवस्थितिकथनेनैव ईश्वरस्थितिरुक्ता तत्कथं पुनः सर्व्वेशस्थिति- रुच्यते इत्यतः सर्व्वेशं विशेषयति हंस इति । अयं सर्व्वेशो हंसः हंस इत्यानु- पूर्व्विकमन्त्राकारः ।
तदुक्तं प्रपञ्चसारे—
सा तत्त्वसंज्ञा चिन्मात्रा ज्योतिषः सन्निधेस्ततः । विचिकीर्षुर्घनीभूय क्वचिदभ्येति बिन्दुताम् ॥ कालेन भिद्यमानस्तु स बिन्दुर्भवति द्विधा । बिन्दुर्द्दक्षिणभागश्च वामभागो विसर्गकः ॥ तेन दक्षिणवामाख्यौ भागौ पुं-स्त्रीविशेषितौ । हङ्कारो बिन्दुरित्युक्तो विसर्गः स इति स्मृतः ॥ बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः । पुं-प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ इति ॥
शिवस्थानं शैवाः परमपुरुषं वैष्णवगणा लपन्तीति प्रायो हरिहरपदं केचिदपरे । पदं देव्या देवीचरणयुगलाम्भोजरसिका मुनीन्द्रा अप्यन्ये प्रकृतिपुरुषस्थानममलम् ॥४४॥
सुव्यक्तमाह महाकालीतन्त्रे प्रथमपटले—
सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते । चन्द्रमण्डलमध्ये तु हंसवर्णद्वयोपरि । शुद्धस्फटिकसङ्काशं शुद्धक्षौमविराजितम् ॥ इत्यादि ॥
अत्र हंसवर्णद्वयोपरीति सुव्यक्तम् । अथवा हंसः परम इति नाम्ना परिचितः हंस इति नाम्ना परम इति नाम्ना च परिचितो विख्यात इत्यर्थः । अतएव ग्रन्थकारेण ऊनपञ्चाशच्छ्लोके केचिद्धंसाख्यमेतदित्यनेन हंसनामकत्वं स्वयमुक्तम् । यद्वा हंसोऽन्ते यस्य स हंसोऽन्तः हंसोऽन्तश्चासौ परमश्चेति कर्म्मधारयेण शाकपार्थिवादित्वात् मध्यपदलोपे हंसःपरम इति सिद्धम् । तेन परमहंस इति नाम्ना परिचित इत्यर्थः ।
अतएवोक्तम् आगमकल्पद्रुमे—
असौ परमहंसाख्यो युक्तस्थावरजङ्गमः ॥ इति ॥
सकलसुखसन्तानलहरीपरीवाह इति । सर्व्वप्रकारसुखं सकलसुखं तस्य सन्तानो विस्तारः स एव लहरी श्रेणी परि सर्व्वतोभावेनोह्यते उत्तरोत्तरकालस्थायित्वेन प्रकाश्यते यस्मिन् इत्यर्थः । ततश्च श्रेण्याकारेण सर्व्वव्यापकसर्व्वप्रकारसुखविशिष्ट इति यावत् । अयं हंसः परमशिवस्याधोवर्त्तीत्युक्तं प्राक् ॥ ४३ ॥
एतत् कर्णिकायां सर्व्वदेवतामयहंसादीनामधिष्ठानात् शैवशाक्तादि- सकलोपासकानामुपास्यदेवतास्थानमित्याह । शिवस्थानमिति । शैवाः शिवोपासका
(४४) शिवस्थानं इति । एतत् परमशिवस्थानं शैवा जनाः शिवस्थानमिति लपन्ति । वैष्णवाः परमपुरुषं परा प्रकृष्टा मा लक्ष्मीर्यस्य एवम्भूतपुरुषं वदन्ति ।
इदं स्थानं ज्ञात्वा नियतनिजचित्तो नरवरो न भूयात् संसारे पुनरपि न बद्धस्त्रिभुवने । समग्रा शक्तिः स्यान्नियममनसस्तस्य कृतिनः सदा कर्त्तुं हर्त्तुं खगतिरपि वाणी सुविमला ॥४५॥
एतत्पद्मं शिवस्थानं लपन्ति वदन्तीत्यर्थः । परमपुरुषं परमपुरुषस्य विष्णोः स्थानं इदमर्थतद्धितप्रत्ययेन सिद्धम् । केचिदिति ये हरिहरोपासकास्ते शैवा वैष्णवाश्च ते केचित् अपरे केवलशिवविष्णूपासकेतरा हरिहरपदं लपन्ति । अतः सर्व्वे शैवा वैष्णवाः केवलशिवस्थानं केवलविष्णुस्थानं न वदन्ति इत्यभिप्रायेण इत्युक्तम् । अन्ये युगलभजनशीलाः यद्वा अन्ये हंसमन्त्रोपासका मुनीन्द्राः प्रकृतिपुरुषस्थानं हंसस्य प्रकृतिपुरुषोभयरूपत्वात् तदधिष्ठितस्थानं लपन्तीत्यर्थः । एतत्प्रदर्शनमात्रं तत्स्थाने सर्व्वदेवतामयपरंबिन्दोरधिष्ठानात् यो यद्देवतोपासकः स तद्देवतास्थानं वदतीति बोध्यम् ॥ ४४ ॥
सहस्रारज्ञानफलमाह इदं स्थानमिति । साङ्गोपाङ्गरूपेणैतत्स्थानज्ञानं भवतीति भावः । नियतनिजचित्त इति नियतं तत्र नियुक्तं निजचित्तं येन इत्यर्थः । न भूयात् संसारे मुक्तो भवतीति भावः । यतः क्वचिदपि न बद्धस्त्रि- भुवने इति हेतुगर्भविशेषणम् । बद्धः पुण्यपापरूपमायापाशबद्धः ।
अपरे केचित् प्रायो हरिहरपदमिति लपन्ति । अन्ये देवीचरणयुगलानन्दरसिका देव्याः पदं लपन्ति । वस्तुतस्तु नानाप्रकारभावनाया एको निरञ्जन एवं निर्व्वाच्यः । अतएव “ऋजुकुटिलनानापथजुषां नृणामेको गम्य” इति पुष्पदन्तोक्तं साधु संगच्छते ॥
(४९) इदं स्थानमिति । इह एवं शास्त्रे एतत्स्थानं ज्ञात्वा नियतं संयतं निजचित्तं येन सः परमात्मचिन्तापरो नरवरः संसारे न भूयात् क्वचिदपि त्रिभुवने बद्धो न भवति । संयतमनसस्तस्य कृतिनः समस्ता शक्तिः स्यात् । तदेवाह सर्व्वदैव कर्त्तुं हर्त्तुं स क्षमो भवति । खगतिराकाशगतिरपि भवति । अपि वाणी सर्व्वाह्लादिनी सुविमलशक्तिरूपा भवतीति ।
तदुक्तं भागवते—
कर्म्मणि क्रियमाणे तु गुणैरात्मनि मन्यते । तदस्य संसृतिर्ब्बन्धः पारतन्त्र्यञ्च तत् स्मृतम् ॥ इति ॥
भगवद्गीतायामपि—
स्वभावजेन कौन्तेय निरुद्धः स्वेन कर्म्मणा ॥ इति ॥
ततश्च पुण्यपापभोगार्थं शरीरधारणात् बन्धः । स च स्वर्गे पुण्यभोगार्थं पाताले पापभोगार्थं मर्त्त्ये उभयभोगार्थं भवतीति । तत्त्वज्ञानिनान्तु बन्धहेतुभूतपुण्यपा- पानुदयात् सञ्चितपुण्यपापक्षयाच्च क्वचिदपि कस्मिन् कालेऽपि त्रिभुवने स्वर्गमर्त्त्यपाताले न बद्धः न शरीरी भवति । सोऽयं प्रारब्धकर्म्मभोगपर्य्यन्तं जीवन्मुक्तः सन् तिष्ठति देहान्ते मुक्तो भवतीति भावः ।
तस्य पुण्यपापानुदयमाह कुलार्णवे—
अश्वमेधशतेनापि ब्रह्महत्याशतेन च । पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् ॥ इति ॥
तथा भगवद्गीतायाम्—
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ इति ॥
तस्य प्रक्रान्ततत्त्वज्ञानिनः कृतेन कर्म्मणा पुण्यं नास्ति न चाकृतेन नित्य- कर्म्मणा कश्चन प्रत्यवायोऽस्तीति सुबोधिनीव्याख्यानम् ।
सञ्चितपुण्यपापक्षयमाह श्रुतिः—
तस्मिन् मनसि लीने गते सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शत्त्यात्मा शान्त इति ।
अत्रास्ते शिशुसूर्य्यसोदरकला चन्द्रस्य सा षोडशी शुद्धा नीरजसूक्ष्मतन्तुशतधाभागैकरूपा परा । विद्युत्कोटिसमानकोमलतनूर्विद्योतिताऽधोमुखी नित्या¹नन्दपरम्परातिविगलत्पीयूषधाराधरा ॥ ४६ ॥
भगवद्गीतायामपि—
ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा ॥ इति ॥
तस्य समग्रा सर्व्वकार्य्यसाधिका शक्तिः स्यात् । शक्तिकार्य्यं दर्शयति सदा कर्त्तुमिति अभीष्टकार्य्यं कर्त्तुं तथा हर्त्तुम् अनिष्टं कर्त्तुं संहर्त्तुं च शक्तिः खगतिरा- काशपथगमनं सुविमला मधुरगद्यपद्यमयी वाणी स्यादिति सर्व्वत्रान्वयः ॥४५॥
अथात्र पूर्व्वं तदन्तःशून्यन्तदित्यनेन सकलशशिकलाशुद्धरूपप्रकाशमित्य- नेन च सहस्रारकर्णिकान्तस्त्रिकोणे अमाकलानिर्व्वाणकलापरंबिन्दूनामधिष्ठानं छले- नाभिहितम् । इदानीं तेषां स्वरूपेण इतरभेदकविशेषणेन च स्पष्टयितुमिच्छन्ना- दावमाकलास्वरूपमाह अत्रास्ते इति । शिशुसूर्य्यसोदरमित्यनेन कलाया रक्तवर्णत्वं ज्ञापितम् । चन्द्रस्य या षोड़शीत्यनेनेयममाकलेति ज्ञापितम् । नीरजत- न्तुर्मृणालसूत्रं तस्य शतभागो दीर्घफालेनेति बोध्यम् । शुद्धा कलङ्करहिता । परा चिच्छक्तिरूपा चिच्छक्तेरेवेदं रूपम् ।
अतएवोक्तं प्रभासखण्डे—
संस्थिता परमा माया देहिनां देहधारिणी ॥
(४६) अत्रास्ते इति । अत्रैव पद्मे चन्द्रस्य सा प्रसिद्धा अमानाम्नी षोड़शी कला आस्ते । कीदृशी ? प्रातःकालीनसूर्य्यस्येव कला दीप्तिर्यस्याः सा तथा । शुद्धा निर्व्विकारत्वात् । मृणालतन्तोः सूक्ष्मशतभागस्येव एकरूपं यस्याः । परा प्रकृष्टा अथवा पश्यन्तीमध्यमावैखरीसमष्टिरूपा । पुनः कीदृशी ? विद्युद्दामसमानकोमला तनुर्यस्याः । नित्योदिता क्षयोदयरहितत्वात् । अधोमुखी पूर्णानन्दपरम्परा अति- प्रकाशमाना या पीयूषधारा तदाश्रया परम्पराक्रमेण शिवसम्बन्धिपीयूषधाराधरेत्यर्थः ॥ [एतन्मते “ नित्योदिता ” इति पाठः] ।
¹ पूर्णा इति वा ।
निर्व्वाणाख्यकला परा परतरा सास्ते तदन्तर्गता केशाग्रस्य सहस्रधा विभजितस्यैकांशरूपा सती । भूतानामधिदैवतं भगवती नित्यप्रबोधोदया चन्द्रार्द्धाङ्गसमानभङ्गुरवती सर्व्वार्कतुल्यप्रभा ॥
इति अमाविशेषणम् । नित्यानन्दपरम्परेति ब्रह्मपरम्परोत्पन्ना इत्यर्थः । अतिविग- लत्पीयूषधाराधरा अतिशयामृतस्राविणीत्यर्थः । यद्वा नित्यानन्दपरम्परातिविग- लत्पीयूषधाराधरेत्येकविशेषणम् । अस्यार्थः परं बिन्दुरूपं शिवः परा प्रकृतिः शक्तिः आनन्देन समरसानन्देन परम्पराभ्यां शिवशक्तिभ्यामतिविगलन्ती या पीयूषधारा परामृतधारा नित्यं निरन्तरं तादृशधारामिव धारां धारयतीत्यर्थः । स्पष्टमन्यत् ॥ ४६ ॥
निर्व्वाणकलास्वरूपमाह निर्व्वाणाख्यकलेति । सा परा परतरा परमा कला अस्या अपि परतरा श्रेष्ठा । परादिति पाठे सर्व्वश्रेष्ठा इत्यर्थः । सा तदन्तर्गता अमाकलायाः क्रोड़े स्थिता । “तन्मध्ये कुटिला निर्व्वाणाख्यसप्तदशी कला” इति पूर्व्वोक्तवचनात् । केशाग्रस्येत्यादि केशाग्रस्य सहस्रभागैकभागरूपसूक्ष्मा सती आस्ते इत्यन्वयः । भूतानां सर्व्वप्राणिनामधिदैवतं हार्दचैतन्यस्वरूपा इत्यर्थः । नित्यप्रबोधोदया तत्त्वज्ञानसम्पादयित्री । चन्द्रार्द्धाङ्गसमानभङ्गुरवती चन्द्रार्द्धाङ्गरूपामाकलावत् कुटिलाकारेत्यर्थः । सर्व्वार्कतुल्यप्रभा एकदा द्वादश- सूर्य्योदये यादृक्प्रकाशः तादृशप्रकाशमाना रक्तवर्णा च ॥ ४७ ॥
(४७) निर्व्वाणाख्येति । सा निर्व्वाणनाम्नी कला अमाकलान्तर्गता सती आस्ते । कीदृशी ? परा प्रकृष्टादपि प्रकृष्टतरा । सहस्रप्रकारेण विभजितस्य केशाग्रस्य एकांशरूपा । सती शोभना । पुनः कीदृशी ? भूतानामधिदेवतास्वरूपा भगवतीस्वरूपा च । नित्यः प्रबोधोदयो यस्याः सा तथा । चन्द्रलेखेव भङ्गुरं वक्राकारं वपुर्यस्याः सा तथा द्वादशादित्यप्रभा इत्यर्थः ।
एतस्या मध्यदेशे विलसति परमापूर्व्वनिर्व्वाणशक्तिः कोट्यादित्यप्रकाशा त्रिभुवनजननी कोटि- भागैकरूपा । केशाग्रस्यातिसूक्ष्मा निरवधि विगलत्प्रेमधाराधरा सा सर्व्वेषां जीवभूता मुनिमनसि मुदा तत्त्वबोधं वहन्ती ॥ ४८ ॥
परं बिन्दुस्वरूपमाह एतस्या इति । एतस्या निर्व्वाणकलायाः मध्य- देशे क्रोड़े । अपूर्व्वा सृष्टेरादावाविर्भूतत्वात् किञ्चिदपि नास्ति पूर्व्वं यस्यास्ता- दृशी । परमा परंब्रह्मशक्तिरूपा निर्व्वाणशक्तिर्व्विलसतीत्यर्थः । निर्व्वाणशक्तिं विशेषयति कोट्यादित्यप्रकाशेति । त्रिभुवनजननी स्वर्गमर्त्त्यपातालादिप्रपञ्च- समुदायस्योत्पत्तिस्थानरूपेत्यर्थः । यतः केशाग्रस्य कोटिभागैकभागरूपा अतोऽति- सूक्ष्मा । निरवधिविगलत्प्रेमधाराधरेति प्रेम आनन्दार्द्रभावप्रफुल्लता । सामरस्या- नन्दार्द्रभावप्रफुल्लताजनिता या परामृतधारा निरवधि निरन्तरं विगलन्ती तादृशधारां धारयतीत्यर्थः । सर्व्वेषां जीवभूतेति ।
एतस्या अंश एव जीवः तदुक्तं यथा—
ज्वलदग्नेर्यथा देवि स्फुरन्ति विस्फुलिङ्गकाः । तस्याश्च्युतं परं बिन्दुर्यदा भूमौ पतत्यपि ।
(४८) एतस्या इति । एतस्याः कलायाः मध्यदेशे परमापूर्व्वनिर्व्वाण- शक्तिर्व्विलसति । कीदृशी ? कोट्यादित्य इव प्रकाशो यस्याः । त्रिभुवनजननी सर्व्वेषां आधारभूतत्वात् । केशाग्रस्यापि कोटिभागैकभागरूपा अतिसूक्ष्मत्वात् अतो गुह्या । निरवधि विलसत्प्रेमधारा सा शक्तिः सर्व्वेषां जीवभूता सती मुदा हर्षेण मुनिमनसि तत्त्वज्ञानं वहन्तीति ।
तदैव सहसा देवि संज्ञायुक्तो भवत्यपि ॥ इति ॥
तस्याः शिवशक्त्यात्मकपरंबिन्द्वन्तर्गतशक्त्याः । संज्ञायुक्तो जीवनामा भवतीत्यर्थः । स्पष्टमन्यत् । इयं निर्व्वाणशक्तिः । निर्व्वाणकलाधःस्थाने नादरूपनिबोधिकोपरि वर्त्तते ।
तद् यथा—
निर्व्वाणाभ्यन्तरगता वह्निरूपा निबोधिका । नादोऽव्यक्तस्तदुपरि कोट्यादित्यसमप्रभा । निर्व्वाणशक्तिः परमा सर्व्वेषां योनिरूपिणी ॥ तस्यां शक्तौ शिवं ज्ञेयं निर्व्विकारं निरञ्जनम् । अत्रैव कुण्डली शक्तिर्व्विहरेत् परमात्मना ॥ इति ॥
निबोधिकाऽव्यक्तनादात्मिका वह्निरूपा । तथा हि नादस्य त्रिविधावस्था । “तमोगुणाधिक्येन केवलध्वन्यात्मकोऽव्यक्तनादः । रजआधिक्येन किञ्चिद्वर्ण- बद्धन्यासात्मकः । सत्त्वाधिक्येन बिन्दुरूपः” इति राघवभट्टः । ततश्च नादबिन्दु- निबोधिकाः अर्केन्दुवह्निरूपाः “ ते ज्ञानेच्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः” इति शारदावचनात् । तस्मादत्र वह्निरूपनिबोधिकोपरि स्थितिकथनात् सूर्य्यचन्द्रवह्निमण्डलोपरि निर्व्वाणशक्तेः स्थितिरिति सुधीभिर्भाव्यम् ।
व्यक्तमाह कुलार्णवोक्तपरंब्रह्मध्याने—
बिन्दुरूपं परं ब्रह्म सहस्रदलसंस्थितम् ।
इत्युपक्रम्य—
कर्णिकान्तस्त्रिकोणान्तर्म्मण्डलत्रयमण्डितम् ॥ इति ॥
मण्डलत्रयेण सूर्य्यचन्द्रवह्निमण्डलेन मण्डितमित्यर्थः । इयं निर्व्वाणशक्तिः परबिन्दुरूपेति स्फुटीकरिष्यामः ॥ ४८ ॥
तस्या मध्यान्तराले शिवपदममलं शाश्वतं योगिगम्यं नित्यानन्दाभिधानं सकलसुखमयं शुद्धबोधस्वरूपम्। केचिद्ब्रह्माभिधानं पदमिति सुधियो वैष्णवं तल्लपन्ति केचिद्धंसाख्यमेतत् किमपि सुकृतिनो मोक्षमात्म- प्रबोधम् ॥ ४९ ॥
निर्व्वाणशक्तिमध्ये परब्रह्मस्थानमाह तस्या मध्यान्तराले इति । तस्याः परंबिन्दुरूपनिर्व्वाणशक्त्याः मध्यान्तराले मध्यस्थशून्ये अमलं मायामलरहितं शिवपदं ब्रह्मस्थानं लपन्ति तत्त्वज्ञा इति शेषः । योगिगम्यं सूक्ष्मातिसूक्ष्म- तमत्वात् वाङ्मनसोरगोचरत्वाच्च योगिनां ज्ञानमात्रगम्यमिति भावः । केचित् वैदान्तिका ब्रह्माभिधानं ब्रह्मेति नाम्ना लपन्ति अथवा हंसाख्यं हंसनामकमिति यथाश्रुतार्थः । अन्ये सुकृतिनः किमपि अनिर्व्वचनीयम् आत्मप्रबोधम् आत्मसाक्षात्कारस्थानं लपन्तीत्यर्थः । मोक्षमिति मुच्यते मायाप्रपञ्चाद्बहिर्भूयते
(४९) अस्या इति । अस्याः शक्तेर्मध्यदेशान्तराले निर्म्मलं शिवपदमास्ते । नित्यानन्दं शाश्वतम् अत्यन्तासक्तत्वात् । योगं प्राप्य अत्यन्तज्ञानसाध्यत्वात् सकलानां सुखमयं अथवा सकलं कलया सह वर्त्तमानं तत् सुखमयञ्चेति तत् तथा । शुद्धबुद्धीनां प्रबोधो ज्ञानं यस्मात् । एतत् पदं केचित् परंब्रह्माभिधानमिति वदन्ति । अन्ये सुधियो वैष्णवं पदं लपन्ति । केचित् सुधियो मोक्षं मोक्षस्वरूपं हंसाख्यमिति वदन्ति । एतेन ब्रह्मविष्णुशिवशक्तिस्वरूपं तत्पदमित्यायातं हंसाख्यत्वात् । तथाच ज्ञानार्णवे—
हकारे बिन्दुरूपेण ब्रह्माणं विद्धि पार्व्वति । सकारे सर्गबिन्दुभ्यां हरिश्चाहं महेश्वरि । अविनाभावसम्बन्धात् लोके हरिहराविति ॥
स्वरं विना उच्चारितुमशक्यत्वात् शक्तिरपि तत्र स्फुटा । कीदृशम् ? आत्मनः परमात्मनः प्रबोधो यस्मात्तत्तथेति ।
यत्र तन्मोक्षरूपमित्यर्थः । अत्रेदमवधीयताम् । सहस्रदलकर्णिकान्तस्त्रिकोणे मायाबन्धनच्छादितप्रकृतिपुरुषात्मकपरंबिन्दुः ।
तदुक्तम्—
सत्यलोके निराकारा महाज्योतिःस्वरूपिणी । माययाच्छादितात्मानं चणकाकाररूपिणी ॥ हस्तपादादिरहिता चन्द्रसूर्य्याग्निरूपिणी । मायाबन्धनमुत्सृज्य द्विधा भित्वा यदोन्मुखी । शिवशक्तिविभागेन जायते सृष्टिकल्पना ॥ इति ॥
सत्यलोके सहस्रारे इत्यर्थः ।
तथा—
निर्गुणो बिन्दुरूपश्च सिद्धिकारणमेव हि । केचिद्वदन्ति स ब्रह्मा कैश्चित् विष्णुः प्रकथ्यते ॥ कैश्चित् रुद्रो महापूर्ण एको देवो निरञ्जनः । आद्याशक्तियुतो देवश्चणकाकाररूपकः ॥ इति ॥
अस्य बिन्दोः केशाग्रकोटिभागैकभागरूपसूक्ष्मतेजोंऽशो निर्व्वाणशक्तिर्म्मध्य- शून्यभागो ब्रह्मपदमिति ग्रन्थकारमतम् ।
तथान्यत्र—
तन्मध्ये परबिन्दुश्च सृष्टिस्थितिलयात्मकम् । शून्यरूपं शिवः साक्षाद् बिन्दुः परमकुण्डली ॥
तथा—
वृत्तं कुण्डलिनीशक्तिर्गुणत्रयसमन्वितम् । शून्यभागं महेशानि शिवशक्त्यात्मकं प्रिये ॥ इति ॥
अयं बिन्दुः सर्व्वकारणरूप ईश्वर इति केचित् । पौराणिकास्तु महाविष्णु- रूपोऽयमिति वदन्ति । अन्ये तु ब्रह्मपुरुषोऽयम् ।
तदाह—
नाहो न रात्रिर्न वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नवान्यत् । श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ इति ॥
निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः । निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः ॥
इति शारदावचनात्तन्मध्येऽयं सगुणब्रह्मरूपः । वस्तुतस्त्वेकमेव मतभेदान्नाना- विधनाम्ना गायन्तीत्यलं विस्तरेण ॥ ४९ ॥ * ॥
तदयं महावाक्यार्थनिर्णयः । सुषुम्णानाड्यूर्द्ध्वे सहस्रदलपद्मं शुक्लवर्ण- मधोमुखं रक्तकिञ्जल्कशोभितम् अकारादिळकारान्तपञ्चाशद्वर्णैः शुक्लाभैर्व्विंशत्या- वर्त्तनेन सहस्रसंख्याकैर्युक्तं सहस्रदलम् । एतत्कर्णिकायां हंसः ततः परम- शिवरूपगुरुः । ततः सूर्य्यमण्डलं चन्द्रमण्डलं ततो महावायुः । ततो ब्रह्म- रन्ध्रम् । ततो महाशङ्खिनी चन्द्रमण्डले विद्युदाकारत्रिकोणम् । तन्मध्ये मृणालसूत्रशतभागैकभागरूपसूक्ष्मा चन्द्रस्य षोड़शी कलाऽधोमुखी रक्तवर्णा । तत्क्रोड़े केशाग्रसहस्रभागैकभागरूपसूक्ष्मा निर्व्वाणकला रक्तवर्णाऽधोमुखी । तदधस्तात् अव्यक्तनादात्मकनिबोधिकाख्यवह्निः । तदुपरि निर्व्वाणकलाक्रोड़े परंबिन्दुः शिवशक्त्यात्मकः । अस्य केशाग्रकोटिभागैकभागरूपसूक्ष्मतेजोहंसरूपा निर्व्वाणशक्तिः । अस्या हंसो जीवः । बिन्दोर्म्मध्ये शून्यं ब्रह्मपदमिति । आगम- कल्पद्रुमपञ्चशाखादिमते सहस्रदलपद्मकर्णिकामध्ये चन्द्रमण्डले अकथादित्रिकोणं तन्मध्ये त्रिकोणसमीपे त्रिबिन्दुः तस्याधो बिन्दुर्हकारः पुरुषात्मकः । ऊर्द्ध्वबिन्दु- द्वयरूपविसर्गः सकारः प्रकृतिरूपः । एतदुभयात्मको हंसस्त्रिबिन्दुरूपेण प्रकाशते । तन्मध्ये अमाकला तत्क्रोड़े निर्व्वाणशक्तिः तस्या मध्यशून्यं परं ब्रह्म इति ।
तद्यथा—
अथ शुभ्रसहस्रारे पूर्णेन्दुमध्यविस्फुरत् । त्रिकोणं तड़िदाभासमकथादिहळक्षयुक् ॥ तदन्तरे परं शून्यं विसर्गाधो व्यवस्थितम् । बालादित्यप्रभा तत्र कला षोड़श्यधोमुखी ॥ स्रवन्ती सौधधारां वै चन्द्रार्द्धाङ्गविभङ्गुरा । तदन्तरे परा शक्तिः कोट्यादित्यप्रभामयी ॥ बिसतन्तुसहस्रांशभागरूपा चिदात्मिका । तदन्तः सच्चिदानन्दो वेदातीतो निरञ्जनः ॥ बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्म्मतः । पुं-प्रकृत्यात्मको हंसः स्वप्रकाशेन भासते ॥ इति ॥
एतन्मतमाश्रित्य परंबिन्दोरूर्द्ध्वं हंसघटकविसर्गोपरि गुरुस्थितिरिति वदन्ति । तन्न समीचीनम् । निर्व्वाणतन्त्रे परंबिन्दुरूपशक्तिसमीपे तस्याः पूजाध्यानपरायणस्य निजगुरोः स्थितिकथनात् । पूजार्थोपवेशनन्तु अधःस्थले सम्मुख एव युज्यते न तूर्द्ध्वस्थले पश्चाद्देशे ।
तद्यथा । निर्व्वाणे—
सत्यलोके बीजकोषे चिन्तामणिगृहे शुभे । ध्यायेन्निरञ्जनां देवीं रत्नसिंहासनोपरि । तस्यान्तिके निजगुरुं पूजाध्यानपरायणम् ॥ इत्यादि ॥
किञ्च पूर्व्वप्रदर्शिते महाकालीतन्त्रवचने हंसवर्णद्वयोपरि गुरुस्थितिः सुव्यक्ता । अत्र मूलादिसहस्रदलपर्य्यन्तोक्तप्रकारविपरीतप्रकारबोधकानि तथा तदतिरिक्त- बोधकानि च यानि वचनानि दृश्यन्ते तानि मतभेदेन प्रकारान्तरविधायकानि इति बोध्यम् ॥ इति सप्तमप्रकरणम् ॥ * ॥
हूङ्कारेणैव देवीं यमनियमसमभ्यासशीलः सुशीलो ज्ञात्वा श्रीनाथवक्त्रात् क्रममिति च महामो- क्षवर्त्मप्रकाशम् । ब्रह्मद्वारस्य मध्ये विरचयति स तां शुद्धबुद्धिस्वभावो भित्त्वा तल्लिङ्गरूपं पवनदहनयोराक्रमेणैव गुप्तम् ॥५०॥
अथेदानीं सहस्रदलपर्य्यन्तं चक्रं निरूप्य तत्र कुण्डलिनीयोगं कथयिष्य- न्नादौ कुण्डलिन्युत्थापनप्रकारमाह हूङ्कारेणेति । अस्यायमर्थः । स योगित्वेन प्रसिद्धो जनः गुरुवक्त्रात् क्रमं ज्ञात्वा येन क्रमेण प्रकारेण हृदाद्याकुञ्चनादि- पवनदहनयोराक्रमणं कुण्डलिन्युत्थापनादिकं भवति तत्प्रकारक्रमं श्रीनाथस्य
(५०) हूङ्कारेणेति । इदानीं भूतशुद्धिः कथ्यते । तां देवीं कुण्डलिनीं यमनियमसमभ्यासशीलः स जनः श्रीनाथवक्त्रात् गुरुमुखात् महामोक्षपथप्रकाशं क्रमञ्च ज्ञात्वा हूङ्कारेण तत् स्वयम्भूलिङ्गं भित्त्वा ब्रह्मद्वारस्य मध्ये विरचयति । जनः कीदृशः ? शोभनं शीलं यस्य स तथा । शुद्धबुद्धेर्हेतुः प्रभावो यस्य स तथा । नन्वत्र सुप्तां तां कीदृक्प्रकारेणाक्रम्य नयति ? इत्याह पवनदहनयोरिति तयोराक्रमणेन अर्थात् पवनयोगेन दहनस्य ऊर्द्ध्वगतिस्ततः प्रबुद्धा सर्पाकृतिः सा ऊर्द्ध्वगतिर्भवत्येव ।
तथाच—
मूलाधारे स्मरेद्दिव्यं त्रिकोणं तेजसो निधिम् । तस्याग्निरेखामानीय अध ऊर्द्ध्वव्यवस्थिताम् ॥
इत्यूर्द्ध्वाम्नायवचनात् ।
प्रज्वलद्भुजगाकारा पद्मतन्तुनिभा शुभा । सर्व्वेषां जननी प्रोक्ता सूर्य्यकोटिसमप्रभा । प्रबुध्य वह्नियोगेन मनसामन्धता हता । सूचीव गुणमादाय ब्रजत्यूर्द्ध्वं सुषुम्णया । उद्घाटयेत् कवाटन्तु यथा कुञ्चिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् ॥
इति गोरक्षसंहितोक्तत्वाच्च ॥ [एतन्मते “ शुद्धबुद्धिप्रभावः ” इति पाठः] ।
गुरोर्व्वक्त्रात् ज्ञात्वा पवनदहनयोराक्रमेण हूमिति कूर्च्चबीजोच्चारणेन च कुण्डलिनीमुत्थाप्य तल्लिङ्गरूपं भित्त्वा स्वयम्भुलिङ्गच्छिद्रं प्रस्फोटयित्वा तां देवीं कुण्डलिनीं ब्रह्मद्वारस्य मध्ये चित्रिणीनाड़ीमुखमध्ये विरचयति प्रापयतीत्यर्थः । हूङ्कारेणेति ।
ततो हंसमुपस्मृत्य शनैराकुञ्चयेद् गुदम् ।
इत्याद्यागमकल्पद्रुमवचने हंसमन्त्रस्योच्चारणेन कुण्डलिनीचालनविधानात् । “हूं हंस इति मन्त्रः कुण्डलिनीचालने विनियुक्त” इति ललितारहस्यकारः । किन्तु हंसस्मरणपूर्व्वकतदाकुञ्चनविधानात् हंस इति मनुमनुस्मृत्य जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारमानीय तेन सार्द्धं कुण्डलिनीं चालयेदित्यभिप्रायः ।
अतएवागमकल्पद्रुमे—
आरोप्यारोप्य शक्तिं कमलजनिलयादात्मना साधकेन्द्रः ।
इति परवचने आत्मना जीवात्मना सार्द्धं चालनमुक्तम् ।
कालीकुलामृतेऽपि—
हृदयाद्धंसमनुना नीत्वा जीवं मुखाम्बुजे । हूङ्कारेण समुत्थाप्य कुण्डलीं परदेवताम् ॥ इति ॥
कङ्कालमालिनीतन्त्रे—
आकृष्य प्रणवेणैव जीवात्मानं नगेन्द्रजे । कुण्डलिन्या सह प्राणं गन्धमादाय साधकः । सोऽहन्तु मनुना देवीं स्वाधिष्ठाने प्रवेशयेत् ॥ इति ॥
ततश्च हंसेन प्रणवेन वा हृदयाज्जीवं मूलाधारमानीय केवलकूर्च्चबीजेन कुण्डलिनीमुत्थापयेत् इति सुधीभिर्भाव्यम् ।
स जनः कीदृशः ? यमनियमसमभ्यासशीलः यमनियम इति योगप्रति- बन्धककामक्रोधादिनाशकतदनुकूलशरीरान्तर्वायुरेचनमनःस्थैर्य्यादिसाधकाङ्गयोग- प्रदर्शकं । तैरेव प्रकृतयोगनिष्पत्तेः न तु केवलयमनियममात्रेण । अतएव ग्रन्थकृता चतुःपञ्चाशच्छलोके ‘योगी यमाद्यैर्युत’ इत्यत्र यमाद्यैरिति बहुवच- नान्तत्वेन प्रयुक्तम् । अयन्तु यमाद्यभ्यासः कामाद्याकुलितचित्तानामेव । यदि तु जन्मान्तरीयादृष्टवशात् स्वभावतो वा क्रोधकामादिरहितः तदा तद्योगा- भ्यासं विनापि प्रकृतयोगे शक्तो भवतीति बोध्यम् ।
सुशील इति यतः यमाद्यभ्यासशीलः अतएव सुशील इति । श्रीनाथ- वक्त्रादिति । गुरूपदेशं विना क्रमज्ञानं न भवतीति भावः ।
अतएवोक्तम्—
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ इति ॥
क्रमं विशेषयति महामोक्षवर्त्मप्रकाशमिति । मोक्षवर्त्म चित्रिणीनाड़ीमध्यच्छिद्र- रूपवर्त्म तस्य प्रकाशः प्रस्फोटनं येन क्रमेणेत्यर्थः । शुद्धबुद्धिस्वभाव इति शुद्धबुद्धौ ब्रह्मणि स्वभावो यस्य अथवा शुद्धबुद्ध्या स्वस्मिन् आत्मनि भावो यस्येत्यर्थः । सुगुप्तं यथा स्यात्तथेति क्रियाविशेषणम् । अथवा तल्लिङ्गरूपं सुगुप्तं मुद्रितमुखत्वेनाव्यक्तम् अप्रकाशितमुखमिति यावत् । अथात्र कुण्डलिन्युत्थापनप्रकारं विशेषेणाह ।
आगमकल्पद्रुमपञ्चमशाखायाम्—
पद्मासने निवेश्याङ्के ततः पाणिद्वयं न्यसेत् । ततो हंसमुपस्मृत्य शनैः सङ्कोचयेद्गुदम् ॥ वायुमुत्तोल्येत्तेन वर्त्मना स पुनः पुनः । उत्तोल्य भेदयेच्चक्रं तस्यानुष्ठानमुच्यते ॥ मूलाधारसरोजे तु त्रिकोणमतिसुन्दरम् ।
कामो भवति तन्मध्ये बालार्ककोटिसन्निभम् । तदूर्द्ध्वं कुण्डलीशक्तिं स्वयम्भूलिङ्गवेष्टिनीम् ॥
तथा—
कामाग्निना कूर्च्चयोगात् परं हंसाभिलाषिणीम् ॥ इति ॥
तथा भूतशुद्धौ—
हृदिस्थां कुञ्चिकां कृत्वा गत्वा तदुदरे शिवे । कण्ठाद्यं समनुप्राप्य द्वारं कुञ्चिकया हठात् ॥ उद्घाट्य परमेशानि पवनेन प्रदीपयेत् । हुताशनप्रतप्तां तु तापेन भृशमूर्द्ध्वताम् ॥ प्रसुप्तां नागिनीं लिङ्गे योनिवक्त्रे प्रबोधयेत् । ततः प्रचालयेद्वायुं यावन्नाड्यन्तरेषु च ॥ गुरुदिष्टेन मार्गेण सकृद्वा कुम्भकेन वै । आक्रम्यैवं ततो जीवं सुगुप्तेन पथा भृशम् ॥ ऊर्द्ध्वोच्छासैरूर्द्ध्वमुखान् कारयेत् पङ्कजान् शिवे । प्रबोधयन् शनैर्भानुं मेरुशृङ्गं नयेत् सुधीः ॥ इति ॥
तदयं सकलवचनपर्य्यालोचनसिद्धः क्रमोऽवधीयताम् । योगी जनः विहितासने उपविश्य स्वाङ्के उत्तानौ करौ कृत्वा खेचरीमुद्रया स्थिरचित्तः सन् देहान्तर्वायुमापूर्य्य कुम्भकं कृत्वा हृदयमाकुञ्चयेत् । तेन ऊर्द्ध्वोच्छ्वासोत्सरण- निवृत्तिः । ततो देहान्तरस्थवायोरुदरकण्ठादिव्यापकतया नाड़ीच्छिद्रप्रस्फोटने- नाधोगमनमनुभूय गुदमाकुञ्च्यापानं संरुध्य वायुमुत्तोल्य मूलाधारकमलकर्णि- कान्तस्त्रिकोणस्थकामं वाममावर्त्तयेत् । तेनोद्दीप्तेन तत्र स्थितेन कामाग्निनोत्तप्तां कुण्डलिनीं हूङ्कारेण चेतयित्वा परमशिवसामरस्याभिलाषिणीं तां स्वयम्भूलिङ्गमुखं स्फोटयित्वा तच्छिद्रेण चित्रिणीनाड़ीमुखमध्यं प्रापयेदिति समुदितार्थः ॥५०॥
भित्त्वा लिङ्गत्रयं तत्परमरसशिवे सूक्ष्मधाम्नि प्रदीपे सा देवी शुद्धसत्त्वा तड़िदिव विलसत्तन्तुरूप- स्वरूपा । ब्रह्माख्यायाः शिरायाः सकलसरसिजं प्राप्य देदीप्यते त- न्मोक्षाख्यानन्दरूपं घटयति सहसा सूक्ष्मता- लक्षणेन ॥ ५१ ॥
इदानीं कुण्डलिनीयोगप्रकारमाह भित्त्वेति । संरुद्धवर्त्मनि वर्त्मकरणं भेदः । अस्यार्थः सा देवी कुण्डलिनी तल्लिङ्गत्रयं स्वयम्भूबाणेतराख्यलिङ्गत्रयं भित्त्वा तैर्लिङ्गैः संरुद्धवर्त्मनि वर्त्म कृत्वा ब्रह्माख्यायाः शिरायाः चित्रिणीनाड़ी- सम्बन्धि तद्ग्रथितमिति यावत् । ग्रथितं तत् सकलसरसिजं प्राप्य तत्र देदीप्यते ततः सूक्ष्मतालक्षणेन सूक्ष्मभावस्वरूपेण सूक्ष्मभावेनेति यावत् । तेन भावेन विलसत्तन्तुरूपस्वरूपा सती परमरसशिवे परमरसः परमानन्दः तन्मये शिवे सहस्रदलकर्णिकास्थपरंबिन्दुरूपशिवसमीपे अर्थाद्गत्वा मोक्षाख्यानन्दरूपम् अर्थात साधकस्य नित्यानन्दरूपमुक्तिं सहसा घटयतीत्यर्थः । लिङ्गत्रयमिति तत्पूर्व्वोक्तं षट्चक्रं पञ्चशिवञ्चेति चतुर्दशग्रन्थीन् भित्त्वेति बोध्यम् ।
तदुक्तं शाक्तानन्दतरङ्गिण्याम्—
गच्छन्तीं ब्रह्मरन्ध्रेण भित्त्वा ग्रन्थींश्चतुर्दश ॥ इति ॥
(५१) भित्त्वेति । इदानीं तस्या गतिप्रकारमाह सा देवी तल्लिङ्गत्रयं स्वयम्भूबाणेतराख्यलिङ्गान् भित्त्वा ब्रह्माख्यनाड्याः सकलसरसिजान् प्राप्य परमरसशिवे देदीप्यते भृशं दीप्तिं कुर्व्वती सहसा सूक्ष्मतालक्षणेन मोक्षानन्दरसं घटयति च अर्थात् शिवलिङ्गस्य । सा कीदृशी ? शुद्धसत्ता चतुर्व्विंशतितत्त्वसम्बन्धा । पुनः कीदृशी ? विद्युदिव प्रकाशतन्तुरूपमिव स्वरूपं यस्याः सा तथा । शिवे किम्भूते ? सूक्ष्मधाम्नि सूक्ष्मं धाम यस्य । प्रदीप्ते प्रकृष्टदीप्तिं कुर्व्वति ।
तत्र लिङ्गशिवयोर्भेदप्रकारमाह स्वतन्त्रतन्त्रे—
षट्चक्रस्थान् शिवान् भित्त्वा देवी गच्छति निष्कलम् । चक्राधिष्ठानतो रूपं धृत्वा तत्तन्मनोहरम् ॥ मोहयित्वा महेशानमानन्दाप्लुतविग्रहम् । रमित्वा तत्र तत्रैव यावत् प्राप्नोति शाश्वतम् । मोहितः परया यस्मात्तस्माद्भिन्न उदाहृतः ॥ इति ॥
तथा मायातन्त्रे--
भित्त्वा लिङ्गत्रयं देवी शक्तिमार्गेण गच्छति । तत्तद्रूपेण चक्रेषु निष्कलं प्राप्य निर्वृता ॥ इति ॥
तत्तद्रूपेणेति वैखरीमध्यमापश्यन्तीभावेन ।
तदुक्तम्—
प्रथमे वैखरीभावो मध्यमा हृदये स्थिता । भ्रूमध्ये पश्यन्तीभावः पराभावस्तु बिन्दुनि ॥
अस्यार्थः परा पश्यन्ती मध्यमा वैखरीति चतस्रः शब्दोत्पादिकाः शक्तयः कुण्डलिन्यभेदरूपाः । ततः सहस्रारे कुण्डलिनीगमनकाले प्रथमे स्वयम्भू- लिङ्गसमीपे वैखरीभावेन तं मोहयित्वा एवं हृदये बाणलिङ्गं मध्यमाभावेन भ्रूमध्ये इतरलिङ्गं पश्यन्तीभावेन मोहयित्वा परंबिन्दुनिकटे पराभावमाप्नोतीत्यर्थः ।
चक्रभेदप्रकारमाह—-
चित्रिणीविवरे रक्तमेदपङ्कसमुद्भवान् । सव्यदक्षपार्श्वयोश्च नालस्थान् वाहयेच्च तान् ॥ पद्मान्नाड़ीमध्यवर्त्मरोधितान् परमेश्वरि । नालं वामम्विशेत् पद्मन्तेन भेदः प्रजायते ॥ यथा शिल्पवर्तीं रश्मिवाहीं लाययति प्रभुः । भेदयित्वा तथा चक्रं षड् जीवेन नयेच्च ताम् ॥ इति ॥
तथा—
षट्चक्रसन्धिमार्गेण सुषुम्णावर्त्मना तथा । हंसेन मनुना देवीं सहस्रारं समानयेत् ॥ इति ॥
परमरसशिवं विशेषयति । सूक्ष्मधाम्नि प्रदीपे इति । सूक्ष्मधाम निर्व्वाण- शक्त्यात्मकपरंबिन्दोस्तेजो हंसः तन्मध्ये दीप्यमाने इत्यर्थः ।
देवीं विशेषयति । शुद्धसत्त्वेति । सत्त्वातिसत्त्वपरमसत्वशुद्धसत्त्व- विशुद्धसत्त्वेति पञ्चविधं शरीरावच्छिन्नचैतन्यमुत्तरोत्तरप्रकृष्टं तत्रेयं शुद्धसत्त्वा तुरीयेति यावत् ।
केन प्रकारेण मोक्षाख्यानन्दं घटयतीत्याकाङ्क्षायामुच्यते । तत्र परंबिन्दौ तां कुण्डलिनीं विलाप्य केषाञ्चित् साधकानां शिवात्मनोरभेदेन तद्बिन्दु- चिन्तनेन केषाञ्चित् तथा शक्त्यात्मकचिन्तनेन केषाञ्चित् परमपुरुषमय- चिन्तनेन तथा केषाञ्चित् केवलशिवशक्तिसामरस्यचिन्तनेन सा देवी मोक्षं घटयतीति ।
तदुक्तं मायातन्त्रे—
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः । शिवात्मनोरभेदेन प्रतिपत्तिं परे विदुः ॥ शक्त्यात्मकं तथा ज्ञानं जगुरागमवादिनः । पुराणपुरुषस्यान्ये ज्ञानमाहुर्व्विशारदाः ॥ शिवशक्त्योः सामरस्यात्मकं प्रकृतिनोऽपरे ॥ इति ॥
ऐक्यं जीवात्मनोरिति समाधिविषयम् । योगमिति युज्यते परमात्मना एकीभूयते अनेनासौ योगः । तं योगमित्यर्थः । समाधिमुक्त्वा ध्याने योगभेदमाह । शिवात्मनोरित्यादि । सामरस्यात्मकमिति ।
स्त्रीपुंयोगे तु यत् सौख्यं सामरस्यं प्रकीर्त्तितम् ।

No commentary for this page.