The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)
योगीशो भवति प्रियात् प्रियतमः कान्ताकुलस्यानिशं ज्ञानीशोऽपि कृती जितेन्द्रियगणो ध्यानावधानक्षमः । गद्यैः पद्यपदादिभिश्च सततं काव्याम्बुधारावहो लक्ष्मीरङ्गणदैवतः परपुरे शक्तः प्रवेष्टुं क्षणात् ॥२७॥
एतत्कर्णिकायां सूर्य्यमण्डलस्थितिं ज्ञापयति । भानोर्म्मण्डलमण्डि- तान्तरलसत्किञ्जल्कशोभाधरमिति । भानोर्म्मण्डलेन मण्डिता भूषिता ये अन्तरलसन्तः कर्णिकामध्ये प्रकाशमानाः किञ्जल्काः केसराः अथवा याः किञ्जल्कशोभास्ता धारयतीत्यर्थः । अत्र भानुमण्डलमण्डितत्वं किञ्जल्कविशेषणं नत्वन्तरविशेषणं तथात्वे सर्व्वस्मिन् पद्मे किञ्जल्कशोभाधरत्वादत्र विशेषोपादानं व्यर्थं स्यात् । भानोर्म्मण्डलमण्डितत्वविशेषणविशिष्टत्वे तादृशविशिष्टकिञ्जल्का- नामन्यत्रासत्त्वात् तदुपादानं सार्थकमिति । एवञ्च भानोर्म्मण्डलस्य कर्णिका- रूपकत्वे तत्तेजसा सर्व्वेषां किञ्जल्कानां शोभाधिक्यरूपमण्डितत्वं सम्भवति न त्वेकदेशस्थितत्वे ।
ततश्च तत्कर्णिकायामादौ कर्णिकाव्यापकं वायुमण्डलं तदुपरि तथा सूर्य्यमण्डलम् तदुपरि वायुबीजत्रिकोणादिकं ध्येयम् । युक्तञ्चैतत् मानसार्च्चनायां “मं वह्निमण्डलाय दशकलात्मने नमः ” इत्यादिना पूजायाम् उपर्य्युपरिक्रमेण वह्न्यर्कचन्द्रमण्डलस्थितिदर्शनात् दृष्टपरिकल्पनान्यायावतारात् । अलमति- विस्तरेण ।
ईश्वर इति सृष्टिकर्त्ता इत्यर्थः । रक्षाविनाशे क्षमः स्थितिप्रलयकर्त्ता इत्यर्थः । तेन स जनः सृष्टिस्थितिप्रलयकर्त्तेति तात्पर्य्यार्थः ॥ २६ ॥
योगीश इति । प्रियात् प्रियतमः कान्ताकुलस्येति योषिद्वर्गस्य कर्म्मकुशलः । जितेन्द्रियगण इति जितेन्द्रियाणां मध्ये गण्यते तुल्यत्वेन गृह्यते
(२७) योगीश इति । एतत्पङ्कजध्यानपरो जनः एवम्भवति । योगीशः कान्ताकुलस्य सर्व्वस्त्रीणां प्रियात् स्वामिनोऽपि प्रियतमो भवति । ज्ञानीशः कृती च
असावित्यर्थः । ध्यानावधानक्षमः ध्याने ब्रह्मचिन्तने अवधानाय स्थिरमनो- ऽभिनिवेशं कर्त्तुं क्षमः समर्थ इत्यर्थः । काव्याम्बुधारावह इति काव्यरूपाम्बूनां धारा अविच्छेदनिःसरणम् उह्यते धार्य्यते येन तादृशो भवतीति ।
लक्ष्मीरङ्गणदैवतः । विष्णुसदृश इत्यर्थः । यद्वा लक्ष्मीः सम्पत्तिः रङ्गणम् आनन्दानुभवः दैवम् अदृष्टं तत्समूहो दैवता जनतावत् ततश्च लक्ष्मीभीरङ्गणाय दैवता यस्येति बहुव्रीह्यर्थे णप्रत्ययेन तत्पदं सिद्धम् । अत एवोक्तम् ।
इह भुक्त्वा वरान् भोगानन्ते मुक्तिपदं व्रजेत् ॥ इति ॥
परपुरे शक्तः प्रवेष्टुं क्षणादिति दुर्गद्वारपालादिना दुर्गमीकृतायामपि परपुर्य्यां प्रवेष्टुं शक्तः प्रवेशकारणभूतादर्शनाकाशगमनादियोग्यतापन्नो भवतीत्यर्थः । अत्र केचित् दैवतमिति बिन्द्वन्तं पठित्वा यद्यपि जनविशेषणतया दैवतमित्यस्य पुंस्त्वं भवितुं पार्य्यते तथाप्यजहल्लिङ्गत्वान्नपुंसकत्वमिति वदन्ति । तन्न “बृन्दारका दैवतानि पुंसि वा देवता स्त्रियाम् ” इत्यमरकोशे दैवतशब्दस्य पुंनपुंसकत्वकथनात् दैवत इति विसर्गान्तपाठोऽपि साधुः । प्रदर्शितार्थे तु सुतरां तथेति । स्पष्टमन्यत् ॥ २७ ॥ * ॥
तदयं महावाक्यार्थनिर्णयः । हृत्पद्मं बन्धूकाभं सिन्दूराभसबिन्दु क ख ग घ ङ च छ ज झ ञ ट ठ इति द्वादशवर्णयुक्तद्वादशदलम् । तत्कर्णिकायां षट्कोणाकारवायुमण्डलं धूमाभम् । तदुपरि सूर्य्यमण्डलम् । तन्मध्ये विद्युत्कोटिनिभत्रिकोणम् । तदूर्द्ध्वं वायुवीजं कृष्णसाराधिरूढ़ं धूमधूम्राभं
भवति । जितं इन्द्रियं मनो येन स तथा । ध्यानेनावधाने क्षमो भवति । गद्यैः संस्कृतवाक्यैः पद्यपदादिभिः श्लोकादिप्रबन्धैः गद्यपद्यरूपाम्बुधारावहो भवति । अत्यन्तवर्षणशीलः मेघरूपो भवति इति यावत् । लक्ष्मीतत्कुलदैवतमिति प्रशस्त- लक्ष्म्याश्रयः कुलश्रेष्ठश्च भवति इत्यर्थः । यद्वा लक्ष्मीविशिष्टा कुलदेवता यस्य सः तथा स सत्कुलीनो भवतीति यावत् । दैवतमिति स्वार्थे अण् । एवं सः क्षणादेव परपुरे अन्यशरीरे प्रवेष्टुं समर्थो भवति । कुमारीतन्त्रे परपुरप्रवेशस्याप्येतत्पद्मध्यानफलत्वे- नाभिधानात् । [एतन्मते “ लक्ष्मीतत्कुलदैवतम् ” इति पाठः] ।
विशुद्धाख्यं कण्ठे सरसिजममलं धूमधूम्रावभासं स्वरैः सर्व्वैः शोणैर्दलपरिलसितैर्दीपितं दीप्तबुद्धेः । समास्ते पूर्णेन्दुप्रथिततमनभोमण्डलं वृत्तरूपं हिमच्छायानागोपरि लसिततनोः शुक्ल- वर्णाम्बरस्य ॥ २८ ॥
चतुर्भुजम् अङ्कुशहस्तम् । तत्क्रोड़े हंसाभ ईशः द्विभुजः वराभयकरः त्रिणेत्रः । अत्र कर्णिकायां रक्तपद्मोपरि काकिनी शक्तिः पीतवर्णा चतुर्भुजा पाशकपाल- वराभयकरा पीतवस्त्रा सर्व्वालङ्करणान्विता सुधार्द्रहृदया कङ्कालमालाधरा । मध्यत्रिकोणे बाणलिङ्गशिवः अर्द्धचन्द्रबिन्दुरूपमस्तकः स्वर्णवर्णः कामोद्गमोल्लसितः । तदधः स्थिरतरदीपकलिकाकारहंसरूपी जीवात्मा । एतत्कर्णिकाधोरक्तवर्णोर्द्ध्व- मुखाष्टदलपद्मम् । तत्र कल्पवृक्षरत्नवेदीचन्द्रातपपताकाद्यलङ्कृतं मानस- पूजास्थानम् ॥ इति चतुर्थप्रकरणम् ॥ * ॥
इदानीं कण्ठदेशे विशुद्धचक्रं निरूपयति विशुद्धाख्यमित्यादिचतुर्भिः । वशुद्धाख्यमिति ।
विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् । विशुद्धं पद्ममाख्यातम् आकाशाख्यं महत् परम् ॥ इति ॥
(२८) विशुद्धाख्यमिति । अन्यत् निर्म्मलं विशुद्धाख्यं पद्मं कण्ठे आस्ते । किम्भूतं ? धूम्रेण या धूम्राभा तस्या इव द्युतिर्यस्य तत्तथा । पुनः कीदृशं ? सर्व्वैः षोड़शस्वरै रक्ताकारैर्दलैः परिलसितैर्दीपितं प्रकाशितम् । दीप्तबुद्धेर्दीपाकारबुद्धेर्जनस्य ज्ञानविषयी भवतीत्यर्थः । तत्रैव पद्मे शुक्लवर्णाम्बरधरस्य विष्णोः पूर्णेन्दुरिव प्रथिततमं ख्यातं नभोमण्डलं समास्ते । यद्वा पूर्णेन्दुना ख्याततमम् । “ वियद्विष्णुपदम् ” इत्यमरः । विष्णोः किम्भूतस्य ? हिमवर्णाभकान्तिर्विभा यस्य एवम्भूतस्य नागस्योपरि लसिता तनुर्य्यस्य ।
अस्यार्थः कण्ठे विशुद्धाख्यं विशुद्धनामकं सरसिजं समास्ते इत्यन्वयः । पद्मं विशेषयति अमलमिति तेजोमयत्वात् मलरहितमित्यर्थः । स्वरैः सर्व्वैः अकारादि- विसर्गान्तैः षोड़शस्वरैर्दीप्तबुद्धेः निरन्तरयोगाभ्यासेन विषयानुरागरूपमलरहितत्वेन प्रकाशितबुद्धेः साधकस्य सम्बन्धे दीपितं प्रकाशितमित्यर्थः । स्वरैः कीदृशैः ? दलपरिलसितैरिति । एतेन स्वराणां षोड़शत्वादेतत् पद्मं षोड़शदलमिति सूचितम् ।
व्यक्तमाहान्यत्र—
तदूर्द्ध्वं षोड़शदलं पङ्कजं धूम्रवर्णकम् । युक्तं शोणैः षोड़शभिः स्वरैर्विन्दुविभूषितैः । आरक्तकिञ्जल्कयुतं व्योममण्डलमण्डितम् ॥ इति ॥
तथा पूर्णेन्दुप्रथिततमनभोमण्डलं पूर्णचन्द्रमण्डलवत् सम्पूर्णं शुक्लवर्णञ्च अत एव “तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधा ” इति शारदोक्तवचनेन मण्डलानां तत्तद्दैवतभूतसमानवर्णविधानात् नभसः शुक्लवर्णत्वात्तन्मण्डलस्यापि शुक्लवर्णत्वं प्रतीयते । नभोमण्डलं वृत्तरूपं समास्ते एतत्पद्मकर्णिकायामिति शेषः । शुक्लवर्णाम्बरस्येति नभोमण्डलस्य मध्ये शुक्लवर्णस्याम्बरस्याकाशस्याङ्के “ सदा- पूर्व्वो देवः शिव इति च समाख्यानसिद्धः ” सदाशिवनाम्ना ख्यातो देवः सततं निवसतीति द्वितीयश्लोकेनान्वयः । अम्बरस्य कीदृशस्य ? हिमच्छायानागोपरि लसिततनोः हिमच्छायया नागः हिमच्छायानागः इति तृतीयान्ततत्पुरुषेण हिमोपमाविशिष्टनाग इत्यर्थः । यद्वा हिमच्छायातुल्यो नाग इति शाकपार्थि- वादित्वात् मध्यपदलोपे तत्पदसिद्ध्या शुक्लवर्णनाग इत्यर्थः ।
अत्र नागो हस्ती व्यक्तमाह भूतशुद्धौ—
तदन्तर्व्व्योमवीजञ्च शुक्लं हैमगजस्थितम् ॥ इति ॥
हैमेति हिमस्यायमितीदमर्थतद्धितप्रत्ययेन हैमगजः शुक्लहस्ती इत्यर्थः । ततश्च शुक्लहस्त्युपरि परिलसिता प्रकाशमाना तनुर्य्यस्य तादृशस्येत्यर्थः ॥ २८ ॥
भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभिताङ्गस्य तस्य मनोरङ्के नित्यं निवसति गिरिजाभिन्नदेहो हिमाभः । त्रिनेत्रः पञ्चास्यो ललितदशभुजो व्याघ्रचर्म्माम्ब- राढ्यः सदापूर्व्वो देवः शिव इति च समाख्यानसिद्धः प्रसिद्धः ॥ २९ ॥
भुजैरिति । पुनः कीदृशस्य ? भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभिताङ्गस्येति पाशाङ्कुशवराभयहस्तस्येति फलितार्थः । पुनः कीदृशस्य ? मनोरिति । हं इत्याकाशबीजं तदात्मकस्येत्यर्थः । तेनात्र कर्णिकान्तरे नभोबीजं स्थितं तत्तु उक्तरूपेण चिन्तनीयमिति तात्पर्य्यम् ।
सदाशिवं विशेषयति गिरिजाभिन्नदेह इति अर्द्धनारीश्वर इत्यर्थः । हिमाभः शुक्लवर्णः ततश्चार्द्धनारीश्वरत्वाद्वामार्द्धदेहं सुवर्णाभं दक्षिणार्द्धं शुक्लम् इति ।
व्यक्तमाह —
शुक्लाम्बरेण संवीतं तत्र देवं सदाशिवम् । गिरिजाभिन्नदेहार्द्धं रौप्यहैमशरीरकम् ॥ इति ॥
तत्र नभोबीजक्रोड़े इत्यर्थः । तथा सदा सुधास्राविचन्द्रमसः कलाधोमुखान्वितम् इति ।
(२९) भुजैरिति । तस्य विष्णोर्मनोरङ्के वीजाकारमूर्त्तेरङ्के पञ्चास्यः शिवो निवसति नित्यमेव । तस्य किम्भूतस्य ? पाशाभीत्यङ्कुशपरिलसितभुजैः शोभि- ताङ्गस्य । शिवः किम्भूतः ? गिरिजया पार्व्वत्याऽभिन्नो देहो यस्य हरगौरीमूर्त्ति- रित्यर्थः । पुनः कीदृशः ? हिमस्येव शोभा यस्य । त्रिनेत्रः मनोज्ञा दशभुजा यस्य स तथा । व्याघ्रचर्म्माम्बरैर्युक्तः । यद्वा व्याघ्रचर्म्मणा साम्बरेण च युक्तः हरगौर्य्यात्मकत्वात् सदाशिव इति समाख्यानसिद्धः नित्यस्वरूपप्रसिद्धः योगिनां मनसि प्रकाशः ।
सुधासिन्धोः शुद्धा निवसति कमले शाकिनी पीतवस्त्रा शरं चापं पाशं सृणिमपि दधती हस्तपद्मैश्चतुर्भिः । सुधांशोः सम्पूर्णं शशपरिरहितं मण्डलं कर्णिकायां महामोक्षद्वारं श्रियमभिमतशीलस्य शुद्धेन्द्रियस्य ॥
निर्व्वाणतन्त्रे विशुद्धचक्राधिकारे—
यन्त्रमध्ये च वृषभं महासिंहासनं ततः¹ । तस्योपरि सदागौरी दक्षभागे सदाशिवः ॥ त्रिनेत्रः पञ्चवक्त्रश्च प्रतिवक्त्रे त्रिलोचनम् । विभूतिभूषिताङ्गश्च रजताचलसोदरः । व्याघ्रचर्म्मधरो देवः फणिमालाविभूषितः ॥ इत्यादि ॥
“ तस्योपरि सदागौरी ” इति शिवस्यार्द्धाङ्गरूपेण स्थितेति ।
व्यक्तमाह तत्रैव—
या गौरी लोकमाता च शम्भोरर्द्धाङ्गहारिणी ॥ इति ॥
ललितदशभुज इति । लावण्येन प्रशंसितदशहस्तयुक्त इत्यर्थः ।
अत्र देवस्य दशभुजेष्वस्त्रविशेषानभिधानात्—
शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान् पाशाभीतिकरं दधानममिताकल्पोज्ज्वलाङ्गं भजे ।
इति ध्यानान्तरे यान्यस्त्राण्युक्तानि तान्यस्य भुजेषु चिन्तनीयानीति ध्येयम् । प्रसिद्ध इति प्राधान्येन ख्यात इत्यर्थः । अन्यत् सुगमम् ॥ २९ ॥
एतत्पद्मकर्णिकायां शाकिनीशक्तिस्थितिमाह सुधासिन्धोरित्यादि । कमले विशुद्धचक्रकर्णिकायां शाकिनीनाम्नी शक्तिर्निवसति इत्यन्वयः । तां
(३०) सुधासिन्धोरिति । तत्र कमले पीतवस्त्रा शाकिनी निवसति । कीदृशी ? सुधासिन्धोश्चन्द्रात् शुद्धसम्बन्धीययाऽमृतधारया शुद्धा इति यावत् । चतुर्भिर्हस्तपद्मैः
¹ सिंहार्द्धदेहकम् इति वा.
विशेषयति सुधासिन्धोः शुद्धा इति । सुधासमुद्रसदृशशुक्लवर्णा । तथाच यथा सुधासिन्धोरमृतमयसुशीतलशुक्लत्वं तथा ज्योतिःस्वरूपायाः शाकिन्या उत्तापर- हितशुक्लकिरण इति भावः ।
ध्यानान्तरे शाकिनीं विशेषयति—
देवीं ज्योतिःस्वरूपां त्रिनयनलसितां पञ्चवक्त्राभिरामां हस्तैः पद्मैश्च पाशं सृणिमपि दधतीं पुस्तकं ज्ञानमुद्राम् । ध्यायेत् कण्ठस्थपद्मे निखिलपशुजनोन्मादिनीमस्थिसंस्थां दुग्धान्ने¹ प्रीतियुक्तां मधुमदमुदितां शाकिनीं साधकेन्द्रः ॥ इति ॥
ज्योतिःस्वरूपां ज्योतिषां स्वभावतः शुक्लवर्णत्वेनेयं शुक्लवर्णा । अत्र ध्यानद्वये द्विविधास्त्रदर्शनादिच्छया विकल्पः । इयं देवी कर्णिकान्तश्चन्द्रमण्डले वर्त्तते ।
तदाह प्रेमयोगतरङ्गिण्याम्—.
तत्रास्ते शाकिनी शक्तिः सुधांशोर्म्मण्डले शुभे ॥ इति ॥
एतत्कर्णिकायां सुधांशोश्चन्द्रस्य शशपरिरहितं निष्कलङ्कं सम्पूर्णं मण्डलमपि विलसतीति पूर्व्वक्रियायामन्वयः । मण्डलं विशेषणेन प्रशंसति महामोक्षेत्यादि । एतन्मण्डलं शुद्धेन्द्रियस्य जितेन्द्रियस्य महामोक्षद्वारं निर्व्वाणमुक्तिमाहुः । एतच्चिन्तनादियोगमार्गमवलम्ब्य मुक्तिमाप्नोतीति भावः । श्रियमभिमत- शीलस्येति । श्रियं योगलक्ष्मीमभिमन्यते आकाङ्क्षतीति श्रियमभिमतम् । तादृशं शीलं स्वभावो यस्य तद्रूपस्य शुद्धेन्द्रियस्येति विशिष्टार्थः । अत्र कर्णिकायां चन्द्रमण्डलादिस्थितिप्रकारस्तु आदौ कर्णिकान्तर्नभोमण्डलं तन्मध्ये त्रिकोणं तदन्तश्चन्द्रमण्डलं तन्मध्ये नभोबीजादिकमिति ।
शरं चापं पाशं सृणिमपि दधतीं तस्य पद्मस्य कर्णिकायां सुधांशोश्चन्द्रस्य शशपरिरहितं सम्पूर्णमण्डलम् आस्ते । कीदृशम् ? मोक्षद्वारं निर्व्वाणमुक्तिद्वारम् । पुनः कीदृशम् ? उल्वणबुद्धिशीलस्य जितेन्द्रियस्य श्रियं दधानम् इत्यर्थः ।
¹ ‘ मुद्रान्ने ’ इति पाठान्तरम् ।
इह स्थाने चित्तं निरवधि विनिधायात्मसम्पूर्णयोगः कविर्व्वाग्मी ज्ञानी स भवति नितरां साधकः शान्तचेताः । त्रिकालानां दर्शी सकलहितकरो रोगशोकप्रमुक्त- श्चिरञ्जीवी जीवी निरवधिविपदां ध्वंसहंस- प्रकाशः ॥ ३१ ॥
तद्यथा—
कर्णिकायां त्रिकोणस्थं पूर्णचन्द्रन्तु चिन्तयेत् । हैमाभं गजमारूढ़माकाशं तत्र चिन्तयेत् ॥ शुक्लाम्बरेण संवीतं तत्र देवः सदाशिवः ॥ इति ॥
शुक्लाम्बरेण संवीतमाकाशमिति ॥ ३० ॥
विशुद्धचक्रचिन्तनफलमाह इह स्थाने इति । आत्मसम्पूर्णयोग इति आत्मनि ब्रह्मणि सम्पूर्णो सर्व्वव्यापकत्वेन परिपूर्णो योगो ज्ञानं यस्य तादृशः । आत्तसम्पूर्णयोग इति पाठे आत्तः प्राप्तः सम्पूर्णयोगो येनेत्यर्थः । अत एवोक्तं श्रीमदाचार्य्येण—“ पूर्णबोधात्मना तिष्ठेत् पूर्णाचलसमुद्रवत् ” इति । ततश्च यः साधक इह स्थाने निरवधि चित्तं विनिधाय आत्मसम्पूर्णयोगो भवति, स ज्ञानी उपदेशं विना सर्व्वशास्त्रार्थवेत्ता शान्तचित्तः शान्तिगुणावलम्बिचित्तः ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् । तेजः क्षमा धृतिः शौचमद्रोहोऽनभिमानिता ॥
इत्यादिगुणोपहितचित्त इति यावत् । त्रिकालानां दर्शीति । अत्र केचित् ज्ञानलक्षणात्मकाः लौकिकसन्निकर्षरूपयोगधर्म्मेण सर्व्वं पश्यन्तीति । अन्ये तु
(३१) इह स्थाने इति । इह विशुद्धे पद्मे चित्तं यो निदध्यात् तस्य सम्पूर्ण- योगविषये ज्ञानं भवतोत्यर्थः । अथवा तत्सर्व्वमेव सम्पूर्णयोगत्वेनोपदिष्टं तदेवाह क्रमेण । कविः स जनः कविर्वाग्मीत्यादि । निरवधि नित्यमेव विपत्प्राप्तानां त्राणे सूर्य्य इव तेजस्वी भवति ।
आज्ञानामाम्बुजन्तद्धिमकरसदृशं ध्यानधामप्रकाशं हक्षाभ्यां वै कलाभ्यां परिलसितवपुर्नेत्रपत्रं सुशुभ्रम्। तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालं डमरु जपवटीं बिभ्रती शुद्धचित्ता॥
तादृशजनस्यात्मप्रत्यक्षे तत्र भासमानसर्व्वप्रमेयवस्तूनां प्रत्यक्षो भवतीति वदन्ति । रोगशोकप्रमुक्तः सिद्धमन्त्रत्वाद्रोगमुक्तश्चिरञ्जीवी छिन्नमायापाशत्वात् शोकरहित इत्यर्थः । स जीवी जनः नितरामतिशयकविर्भवति । एवं सर्व्वत्र भवति क्रियान्वयः । निरवधिविपदां ध्वंस इति । अवधिः सीमा तद्रहितविपन्निरवधिविपत् आदिना पापपुण्यरूपकर्म्मबन्धे नानाविपत्तिरिति यावत् । तेषां ध्वंसाय विपत्तिप्रागभावा- समानकालीनविपत्तिनाशाय फलतो मोक्षाय । हंसस्य सहस्रदलकमलकर्णिकान्त- र्गतहंसरूपान्तरात्मनः प्रकाशो यस्य तादृशो भवतीति । स्पष्टमन्यत् ॥ ३१ ॥ * ॥
तदयं महावाक्यार्थनिर्णयः । कण्ठमूले विशुद्धचक्रं षोड़शदलं धूम- धूम्ररूपम् आरक्तकेसरं रक्तवर्णसबिन्दुकषोड़शस्वरयुक्तम् । कर्णिकायां नभोमण्डलं वृत्तरूपं शुक्लवर्णम् । तन्मध्ये त्रिकोणं तत्र चन्द्रमण्डलम् । तदुपरि हं इति नभोबीजं शुक्लवर्णं शुक्लाम्बरपरीधानं शुक्लगजारूढ़ं चतुर्भुजं पाशाङ्कुशवराभयधरम् । तत्क्रोड़े वृषभोपरि स्थितमहासिंहासने सदाशिवः अर्द्धनारीश्वरत्वादर्द्धाङ्गसुवर्णा- भार्द्धाङ्गशुक्लाभः पञ्चवक्त्रः त्रिनेत्रः दशभुजः शूलटङ्कखङ्गवज्रदहननागेन्द्र- घण्टाङ्कुशपाशाभययुक्तदशहस्तः व्याघ्रचर्म्माम्बरः भस्मलिप्तसर्व्वाङ्गः नागहार- शोभितः सुधास्राव्यधोमुखार्द्धचन्द्रशेखरः । एतत्कर्णिकायां चन्द्रमण्डलमध्ये अस्थ्युपरि स्थिता शाकिनी शक्तिः शुक्लवर्णा चतुर्भुजा पाशाङ्कुशधनुःशरकरा पीताम्बरा पञ्चवक्त्रा त्रिनेत्रेति ॥ इति पञ्चमप्रकरणम् ॥ * ॥
इदानीं भ्रूमध्यस्थिताज्ञाचक्रं निरूपयति आज्ञानामाम्बुजमित्यादि सप्तभिः । “ आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ” । आज्ञानामेति अत्र
(३२) आज्ञा इति । तत्प्रसिद्धं भ्रूमध्ये आज्ञानाम पद्मम् आस्ते । कीदृशम् ? हिमकरसदृशम् अतः प्रशस्तशुभ्रं ध्यानधामनि प्रकाशो यस्य तत् । हकारक्षकारो-
गुरोराज्ञासंक्रमणादाज्ञानाम । ततश्च तन्नामकं तत्प्रसिद्धमम्बुजमास्ते इति क्रियाध्याहारेणान्वयः । एतत् पद्मं भ्रूमध्ये स्थितम् ।
तद्यथा—
तालुकण्ठं प्रविश्योर्द्ध्वं भ्रूयुगान्ते सितं शुभम् । द्विदलं हक्षवर्णाभ्यां मनोऽधिष्ठितमम्बुजम् ॥ इति ॥
पद्मं विशेषयति हिमकरसदृशमिति । चन्द्रवच्छुक्लवर्णमित्यर्थः । तथा ध्यान- धामप्रकाशं ध्यानस्य धाम्ना तेजसा तेजोरूपशक्त्या प्रकाशो यस्येत्यर्थः । अत्र ध्यानशक्त्या धामवत् प्रकाशितावयवमित्यर्थः । वर्णानां कलाबीजत्वात्तत्र कलापदप्रयोगः । नेत्रपत्रं द्विदलम् । सुशुभ्रम् इति हक्षाभ्यां सुशुभ्रमित्यर्थः । तथाच स्वभावशुभ्रं हक्षवर्णयोगेनातिशुभ्रमिति भावः । एतेन हक्षवर्णयोरपि शुक्लत्वं सूचितं शुक्लयोगेनैव शुक्लस्यातिशयसम्भवात् । यद्वा आज्ञाचक्रं हिम- करसदृशं चन्द्रस्यामृतमयशीतकिरणवत् शीतकिरणं तथा सुशुभ्रञ्च । हक्षाभ्यां कर्बूरवर्णाभ्यामिति बोद्धव्यम् ।
तदाह ईश्वरकार्त्तिकेयसम्वादे—
आज्ञाचक्रं तदूर्द्ध्वे तु शुक्लं द्विदलमण्डितम् । कर्बूरहक्षलसितं मनोऽधिष्ठितरञ्जितम् ॥ इति ॥
एतत्कर्णिकायां हाकिनीशक्तिस्थितिमाह तन्मध्ये इति । सा हाकिनीनाम्नी प्रसिद्धा । विद्यां पुस्तकमुद्रां वराभयरूपां तेनास्या भुजेषु षड्विधायुधदर्शनात् षड्भुजेयम् । केचित्तु विद्यामुद्रामित्येकविभक्त्यन्तं पठित्वा विद्यायै मुद्रां
पलक्षितदलाभ्यां परिलसितं वपुर्य्यस्य । कलाभ्यामिति केचित् पठन्ति । तन्मते हकारक्षकाररूपकलाभ्यां स्वरविशिष्टाभ्यामिति । पुनः कीदृशम् ? नेत्रपत्रं द्विपत्र- मित्यर्थः । एतत्पद्मे सा प्रसिद्धा हाकिनी निवसति । कीदृशी ? शशिसमधवलवर्णा षण्मुखी च । हस्तैः करणैरेतान् विभ्रती विद्याज्ञानमुद्राकपालडमरुजपवटीरिति । शुद्धं चित्तं यस्याः सा तथा । [एतन्मते “ कलाभ्याम् ” इत्यत्र “ दलाभ्याम् ” इति पाठः । ]
एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धं योनौ तत्कर्णिकायामितरशिवपदं लिङ्गचिह्न- प्रकाशम् । विद्युन्मालाविलासं परमकुलपदं ब्रह्मसूत्रप्रबोधं वेदानामादिबीजं स्थिरतरहृदयश्चिन्तयेत्तत् क्रमेण ॥ ३३ ॥
विद्यामुद्रां व्याख्यामुद्रामिति व्याख्यया अस्याश्चतुर्भुजत्वं वदन्ति । किन्तु नानापुस्तके पृथग्विभक्त्यन्तपाठो दृश्यते इति सुधीभिर्व्विवेच्यम् ।
ध्यानान्तरेण हाकिनीं विशेषयति—
¹मज्जस्थां शुक्लवर्णां डमरुकरयुतामक्षसूत्रं कपालं विद्यां मुद्रां दधानां त्रिनयनविलसद्रक्तषड्वक्त्रयुक्ताम् । हारिद्रान्ने प्रसक्तां मधुमदमुदितां शुक्लमब्जं सुरूढ़ां देवीं देवेन्द्ररत्नाकरमधुमुदितां भावयेत् हाकिनीं ताम् ॥ इति ॥
स्पष्टमन्यत् ॥ ३२ ॥
एतत्पद्मे मनःस्थितिमाह एतत्पद्मान्तराले इति । सूक्ष्मरूपमतीन्द्रिय- मित्यर्थः । ननु मनसोऽतीन्द्रियत्वात् तत्सत्तायां किं प्रमाणमित्याह प्रसिद्धमिति । अनादिपुरुषपरम्पराप्राप्तप्रत्यक्षकरणत्वेन प्रसिद्धम् ।
(३३) एतदिति । एतत्पद्मे सूक्ष्मरूपेण प्रसिद्धं मनो निवसति । तस्य पद्मकर्णिकायां या योनिः तस्यामितराख्यः शिव आस्ते तस्य स्थानमित्यर्थः । लिङ्गचिह्नेन प्रकाशो यस्य । पुनः कीदृशम् ? विद्युन्माला इव प्रकाशो यस्य तत्तथा । परमञ्च तत् कुलञ्चेति परमकुलं मूलाधारपद्मं तदेव पदं स्थानान्तरं यस्य । ब्रह्मसूत्रस्य प्रबोधो यस्मात् । तन्मनोनिवासभूतं ब्रह्मनाड़ीवर्त्मस्थितानां सर्व्वेषामेव तस्मादेव ज्ञानं भवतीत्यर्थः ।
¹ चक्र इति पाठान्तरम्
तथा—
सङ्कल्पञ्च विकल्पञ्च कुर्व्वाणा तु मनो भवेत् ।
इत्यादिशास्त्रप्रमाणसिद्धञ्च । अत्र मानसस्थानं वक्ष्यमाणवेदादिबीजस्योर्द्ध्वदेशे वक्ष्यमाणवचनात् ।
अतः परं शिवलिङ्गस्थितिमाह योनौ तत्कर्णिकायामिति कर्णिकान्त- स्त्रिकोणे इतरशिवपदं इतरनामकशिवरूपं वस्तु निवसतीति पूर्व्वक्रियान्वयः । लिङ्गचिह्नप्रकाशं लिङ्गरूपेण भासमानमित्यर्थः ।
इदं लिङ्गं शुक्लवर्णं तदाह भूतशुद्धौ—
तदन्तःस्थेतरं लिङ्गं स्फटिकाभं त्रिलोचनम् ॥ इति ॥
लिङ्गं विशेषयति विद्युन्मालाविलासमिति ।
अत्र प्रणवस्थितिमाह परमेत्यादि । कर्णिकायां वेदादिबीजं प्रणवोऽपि वसतीत्यन्वयः । बीजं विशेषयति परमकुलपदमिति । कुलं शक्तिस्तदत्र त्रिकोणा- कारपदं स्थानं परमं विद्युदाकारादिना उत्कृष्टं कुलं पदं यस्य तादृशमित्यर्थः । तथा च तद्बीजं त्रिकोणमध्यवर्त्तीति पर्य्यवस्यति ।
व्यक्तमाह—
कर्णिकायां त्रिकोणस्थमात्मानं प्रणवाकृतिम् । ज्वलद्दीपनिभञ्चोर्द्ध्वं नादरूपं मनोहरम् । बिन्दुर्म्मकाररूपंञ्च तदूर्द्ध्वं मानसालयः ॥ इति ॥
नन्वत्र परमकुलपदस्य प्रणवाधारत्वेनापृथक्त्वे—
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् । विशुद्धमाज्ञाचक्रञ्च बिन्दुर्भूयः कलापदम् । निबोधिका तथार्द्धेन्दुर्न्नादो नादान्त एव च । उन्मनी विष्णुवक्त्रञ्च ध्रुवमण्डलिकः शिवः । इत्येतत् षोड़शाधारं कथितं योगिदुर्लभम् ॥
ध्यानात्मा साधकेन्द्रो भवति परपुरे शीघ्रगामी मुनीन्द्रः सर्व्वज्ञः सर्व्वदर्शी सकलहितकरः सर्व्वशास्त्रार्थ- वेत्ता । अद्वैताचारवादी विलसति परमापूर्व्वसिद्धिप्रसिद्धो दीर्घायुः सोऽपि कर्त्ता त्रिभुवनभवने संहृतौ पालने च ॥ ३४ ॥
इति वचने षोड़शाधारगणनायां कलापदस्य पृथगभिधानं कथं सङ्गच्छते ? इति चेन्न । तत्कलापदं नाज्ञाचक्रस्थं किन्तु वक्ष्यमाणमहानादोर्द्ध्वे शून्यदेशे स्थितमित्येतन्महानादप्रस्तावे स्फुटीकरिष्यामः ।
ब्रह्मसूत्रप्रबोधमिति । ब्रह्मसूत्रं चित्रिणी नाड़ी तस्याः प्रबोधः प्रकाशो येनेत्यर्थः । अत एव पूर्व्वमुक्तं “प्रणवविलसिता” इति । तदिति प्रदर्शित- हाकिनीमनइतरलिङ्गवेदादिवीजरूपं तत्सर्व्वं स्थिरतरहृदयः सन् क्रमेण चिन्तयेदित्यर्थः ।
क्रमोऽत्र न ग्रन्थकारोक्तपाठक्रमः किन्तु पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात् प्रदर्शितशाब्दक्रमो गृह्यते । एवञ्च पद्मकर्णिकायां हाकिनी शक्तिस्तदूर्द्ध्वे त्रिकोणे इतरलिङ्गं तदूर्द्ध्वे त्रिकोणे प्रणवस्तदूर्द्ध्वे मन इत्येवं क्रमेण चिन्तये- दिति ॥ ३३ ॥
एतद्ध्यानस्य फलमाह ध्यानात्मेति । उक्तरूपेण ध्यानपरायणः साधकेन्द्रः परपुरे शीघ्रगामी भवतीति सर्व्वत्र क्रियान्वयः । मुनीन्द्रः मुनिर्ध्यानयोगादि- सम्पन्नस्तदिन्द्रस्तच्छ्रेष्ठः । सर्व्वज्ञः पूर्वोक्तरूपेण सर्व्वदर्शी शास्त्रव्यवहाररीत्यनु- रूपविवेकबुद्ध्या पूर्व्वापरदर्शी ।
(३४) ध्यानात्मेनि । एतद्ध्यानपरो जन एवं भवतीत्याह । ध्यानात्मा ध्याननिष्ठ इत्यर्थः । स साधकेन्द्रः परपुरे शीघ्रगामी भवति । तत्तद्दिव्यभावविषये परपुरप्रवेशनं पूर्व्वमेवोक्तं तत्तु उदासीनानामेव सम्भवतीति नान्येषाम् । अद्वैताचारं
तदन्तश्चक्रेऽस्मिन्निवसति सततं शुद्धबुद्ध्यन्तरात्मा प्रदीपाभज्योतिः प्रणवविरचनारूपवर्णप्रकाशः । तदूर्द्ध्वे चन्द्रार्द्धस्तदुपरि विलसद्विन्दुरूपी मकार- स्तदूर्द्ध्वे नादोऽसौ बलधवलसुधाधारसन्तानहासी ॥
अद्वैताचारवादीति—
पादोऽस्य विश्वा भूतानि इति । तदिदं सर्व्वं ब्रह्म ।
इत्यादिश्रुतिवाक्येन
अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोकभाक् ।
इत्यादिवाक्येन च ब्रह्मैवैकं सद्वस्तु तदन्यदसत् प्रपञ्चसमुदायस्तु ब्रह्मभासतया भासते इत्यवधारणमद्वैतम् । तादृशज्ञानेन यदाचारः जीवात्मपरमात्मनोरैक्यचिन्तनादि- रूपयोगस्तद्वादो तत्कथनशीलः स जनः अद्वैताचारवादी भवतीति फलितार्थः । परमापूर्व्वसिद्धिर्म्महासिद्धिस्तया प्रसिद्धः प्राधान्येन ख्यात इत्यर्थः । सोऽपि कर्त्ता त्रिभुवनभवने संहृतौ पालने चेति प्रशंसापरम् । अथवा तादृशसाधकस्य देहान्ते परमात्मनि लयात् यः सृष्टिस्थितिप्रलयकर्त्ता स एवायं भवतीति तात्पर्य्यम् ॥३४॥
तदाज्ञाचक्रे प्रणवयोगं विवक्षुरादौ प्रणवं विशेषयति तदन्तरिति । अस्यार्थः अस्मिन् चक्रे तदन्तस्तस्य पूर्व्वोक्तत्रिकोणस्य अन्तर्म्मध्ये यः प्रणव- विरचनारूपवर्णप्रकाशः प्रणवस्य विरचनारूपेण अकारोकारयोः सन्धियोगेन यस्त्रयोदशस्वरसदृशवर्णप्रकाशः सततं निवसति स शुद्धबुद्ध्यन्तरात्मा इत्यन्वयः । तं विशेषयति प्रदीपाभज्योतिरिति । ननु तर्हि किं त्रयोदशस्वरसदृशवर्णमात्रं शुद्धबुद्ध्यन्तरात्मा ? इत्याह तदूर्द्ध्वे चन्द्रार्द्धस्तदुपरि लसद्विन्दुरूपी मकार इति । तेन तादृशवर्णोपरि अर्द्धचन्द्रबिन्दुयोगेन प्रकृतप्रणवस्वरूपः पर्य्यवस्यति ।
वक्तुं शीलमस्येति स तथा एव भवति । स साधकः कीदृशः ? प्रकृष्टासु आदिसिद्धिषु समर्थो भवति अतो दीर्घायुर्भवत्येव । त्रिभुवननिवासिनां उत्पत्तौ संहृतौ पालने वा स कर्त्ता । अतो ब्रह्मविष्णुशिवात्मको भवतीत्यर्थः ।
(३५) तदन्तरिति । तदूर्द्ध्वे अस्मिन् चक्रे सततमेव प्रणवविरचना प्रणवं विरचयति येन ओकारेण तद्रूपाक्षरप्रकाशो निवसति । कीदृशः ? शुद्धवुद्धीनां
इह स्थाने लीने सुसुखसदने चेतसि पुरं निरालम्बां बद्ध्वा परमगुरुसेवासुविदिताम् । तदभ्यासाद्योगी पवनसुहृदां पश्यति कणान् ततस्तन्मध्यान्तः प्रविलसितरूपानपि सदा ॥३६॥
तदूर्द्ध्वे नादोऽसाविति प्रणवोर्द्ध्वे अवान्तरनादोऽस्तीति । स तु बलधवल- सुधाधारसन्तानहासी बलदेवस्य धवलं सुधाधारसन्तानञ्च उपहसितुं शीलं यस्येत्यर्थात् अतिशयशुक्लवर्णो नादः ।
केचित्तु तदाद्ये नादोऽसाविति पठन्ति तदाद्ये बिन्दुरूपी मकारस्याद्ये इति व्याख्यायन्ति च । तदसत् । तदुपरि विलसद्विन्दुरूपी मकार इत्यनेन मकाराद्ये नादप्राप्तौ पुनस्तदुपादानं व्यर्थं स्यात् । परन्त्वसौ नादः प्रणव- घटकीभूतनादातिरिक्तो भिद्यमानपरविन्दोरवयवविशेषः प्रणवोर्द्ध्वे वर्त्तते । यदि तु विशिष्टप्रणवनिरूपणे तदङ्गप्रत्यङ्गमेव वक्तुमुचितं कथं तदतिरिक्तनादो- ऽप्रस्तुतः प्रस्तूयते इति चेत्तर्हि तदाद्ये नादोऽसाविति पाठोऽभिमन्यते । किन्तु तस्यायमर्थः । तदाद्ये बिन्दुरूपिमकाराद्ये प्रदर्शितोऽसौ नादः बलधवल- सुधाधारसन्तानहासीति पूर्व्वोक्तनादमनूद्य बलधवलेत्यादिविशेषणं विधीयते । “न तु विशिष्टस्य विधानम्” अतो न पुनरुक्तिदोषः ॥ ३५ ॥
प्रणवं निरूप्य इदानीं तद्योगं निरूपयति इह स्थाने इति । अस्यार्थः योगी जनः पुरं बद्ध्वा कुतुकेनान्तःपुरं संरुध्य तत्प्रकारेणान्तःपुररोधकारणी-
अन्तरात्मस्वरूपः । यद्वा शुद्धैर्जनैरवगत अन्तरात्मा अस्य । तथा प्रदीपस्य आभा इव ज्योतिर्य्यस्य तस्य ओकारस्योपरि चन्द्रार्द्धः तदुपरि प्रकाशद्विन्दुरूपो मकारः । एतेन आज्ञाख्यपद्मस्योपरि प्रणवप्रकारसिद्धिः तस्योपरि असौ नादो वक्राकृतिः । कीदृशः ? जलस्य जलकणस्य धवलामृतश्रेणिरिव हासो दीप्तिर्यस्येति स तथा । [एतन्नते “जलधवलसुधाधारसन्तानहासः” इति पाठः] ।
(३६) इह स्थाने इति । अत्यर्थसुखसदने इह स्थाने चेतसि लीने सति परमगुरुसेवासुविदितां निरालम्बां मुद्रां बद्ध्वा सर्व्वदाभ्यासात् योगी सन् पवनसुहृदां
भूतयोनिमुद्रां बद्ध्वा इति यावत् । तेन पूःशब्देन योनिमुद्रा लक्ष्यते । तन्मुद्रां बद्ध्वा इह स्थाने आज्ञाचक्रे तदभ्यासात् तस्य प्रणवस्य पुनः पुनश्चिन्तनात् तत्र चेतसि प्रणवचतुर्द्दिक्षु लीने सति ततस्तदनन्तरं तन्मध्यान्तः प्रणवाधारत्रिकोणमध्ये अन्तरन्तरिक्षे पवनसुहृदां वह्नीनां कणान् वह्निकणवज्ज्योतिःस्फुलिङ्गान् पश्यति तेषां मानसप्रत्यक्षो भवति इत्यर्थः । अत्र पुरबन्धनं विना मनसः शुद्धस्थैर्य्यं न सम्भवतीत्यतः पुरं बद्ध्वेत्युक्तम् ।
पुरबन्धनकारणयोनिमुद्रालक्षणमाह—
ततो गुह्ये वामपादपार्ष्णिन्तु विनिवेशयेत् । तस्योपरि महादेवि दक्षपार्ष्णिं निवेशयेत् ॥ ऋजुकायशिरोग्रीवः काकचञ्चुपुटेन च । आकारेण बहिर्व्वायुं जठरं परिपूरयेत् ॥ अङ्गुलीभिर्दृढ़ं बद्ध्वा करणानि समाहितः । अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्ज्जनीभ्यां विलोचने ॥ नासारन्ध्रे च मध्याभ्यामन्याभिर्व्वदनं दृढ़म् । बद्ध्वा मे प्राणमनसामेकत्वं तन्मनुं स्मरन् । धारयेन्मारुतं सम्यक् योगोऽयं योगिवल्लभः ॥ इति ॥
एवं मुद्रया वायुरोधे मनसः स्थैर्य्यमाह श्रुतिः । एवं हंसवशान्मनो विचर्य्यते इतस्ततो विषयेषु भ्रमति तत्संयमेन मनःसंयमो जायते इत्यर्थः ।
अथवा पुरं खेचरीमुद्रां बद्ध्वा इत्यर्थः । तयापि मनःस्थैर्य्यं भवति ।
तदाह—
चित्तञ्चरति खे यस्मात् जिह्वा चरति खे यतः । तेनेयं खेचरी मूद्रा सर्व्वसिद्धनमस्कृता ॥ इति ॥
जीवबुद्धीनां कलां पश्यति । अस्य स्थानस्य चेतोलीनत्वम् आश्चर्य्यं महः यदि भवति तदैव निरालम्बा मुद्रा भवति । तदनुभवो योगिभिरेव ज्ञायते । ततस्त- न्मध्येऽम्बरे पदान् स्थूलान् रूपान् पश्यति । [एतन्मते “पदान्” इति पाठः]
ज्वलद्दीपाकारं तदनु च नवीनार्कबहुल- प्रकाशं ज्योतिर्व्वा गगनधरणीमध्यमिलितम् । इह स्थाने साक्षाद्भवति भगवान् पूर्णविभवो- ऽव्ययः साक्षी वह्नेः शशिमिहिरयो- र्म्मण्डल इव ॥ ३७ ॥
अत्र चित्तस्य खेचरत्वान्मनःसंयोगाभावेन विषयज्ञानरहितत्वादुन्मनी भवति ।
अत एवोक्तम्—
उन्मन्या सहितो योगी न योगी उन्मनीं विना ॥ इति ॥
प्रणवस्य ज्योतिःस्फुलिङ्गवेष्टितत्वं स्पष्टमाहान्यत्र—
तदूर्द्ध्वे प्रणवाकारमात्मानं दीपसन्निभम् । स्फुलिङ्गज्योतिरिङ्गाभैर्व्वेष्टितं परितः शुभम् ॥ इति ॥
स्थाने कीदृशे ? सुसुखसदने निरवच्छिन्नसुखस्य सदनं यत्र तादृशे । पुरं किम्भूतां निरालम्बां निर्गतोऽवलम्बो मनसो विषयसम्बन्धो यया तादृशी- मित्यर्थः । तथा परमगुरुसेवासुविदितामिति परमः गुरुपरम्पराप्राप्तयोगाभ्या- सनिपुणः तादृशगुरुः तस्य सेवाभिर्ज्ज्ञातकृपयोपदेशेन सुविदितामिति फलितार्थः ।
अत एवोक्तम्—
गुरूपदेशात्तद्गम्यं नान्यथा शास्त्रकोटिभिः ॥ इति ॥
कणान् किम्भूतान् ? प्रविलसितरूपान् प्रकृष्टरूपेण भासमानान् इति ॥ ३६ ॥
तादृशयोगिनां वह्निकणावान्तरप्रकारदर्शनमपि भवतीत्याह ज्वलद्दीपा- कारमिति । तदनु वह्निकणदर्शनमनु दर्शनानन्तरं ज्योतिः पश्यतीत्यर्थः ।
(३७) ज्वलद्दीपाकारमिति । पदान् रूपान् किम्भूतान् ? ज्वलद्दीपस्ये- वाकारो येषां ते तथा । तत्रैव गगनधरणीवीजयोर्म्मध्ये स्थितं ज्योतिरास्ते ।

No commentary for this page.