The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)

Open to allArthur Avalon (Sir John Woodroffe)600 segments · 204 pp
page 194

कूजन्ती कुलकुण्डली च मधुरं मत्तालिमालास्फुटं वाचं कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैः । श्वासोच्छ्वासविभञ्जनेन जगतां जीवो यया धार्य्यते सा मूलाम्बुजगह्वरे विलसति प्रोद्दामदीप्ता- वलिः ॥ ११ ॥

जीवात्मा धार्य्यते देहावच्छेदे स्थाप्यते सा देवी मत्तालिमालास्फुटं यथा स्यात्तथाकृतिः एवं वक्ष्यमाणक्रमैर्व्वाचम् अर्थात् जनयन्ती सती अम्बुज- गह्वरे मूलाधारकमलकर्णिकामध्यत्रिकोणगह्वरे तस्य स्वयम्भुलिङ्गस्योर्द्ध्व- भागे विलसतीति श्लोकद्वयस्य विशिष्टान्वितार्थः । बिसतन्तुसोदरलसत्सूक्ष्मा मृणालसूत्रतुल्यसूक्ष्मा इत्यर्थः । जगन्मोहिनी जगतां मायारूपिणीत्यर्थः । ब्रह्मद्वारमुखं स्वयम्भुलिङ्गच्छिद्रं मधुरं मृदु यथा स्यात्तथा स्वमुखेन संछादयति इत्यर्थः । नवीनचपलामालाविलासास्पदेति सर्व्वेषां नवीनत्वे प्रकाशाधिक्यदर्श- नादत्र नवीनोत्कीर्त्तनमधिकप्रकाशप्राप्त्यर्थम् । ततश्चातिप्रकाशितविद्युन्मालानां विलासस्य स्थिरतरकौतूहलवासस्यास्पद इत्यर्थात् स्थिरतरातिप्रकाशितविद्युत्स- मूहप्रकाशतुल्यप्रकाशवतीति पर्य्यवसितम् ।

वाक्यजननक्रममाह कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैरिति । कोमल- काव्यं मृदुशब्दघटितरूपगुणरसादिवर्णनात्मकवाक्यम् । बन्धः पद्मबन्धाश्व- बन्धादिचित्रकाव्यम् । रचना तदतिरिक्तगद्यपद्यात्मकवाक्यम् । भेदस्तेषां विशेषः ।

(११) कूजन्तीति। सा कुण्डलिनी मधुरं यथा स्यात्तथा शब्दं कुर्वन्तीत्यर्थः । एतेन लब्धध्वन्यात्मकशब्दो भवति । तत्र स एव शब्दः कण्ठताल्वाद्यभिघातेन वर्णात्मकत्वेन परिगण्यते इत्याह कोमलकाव्यबन्धग्रथनाया यो भेदो नानाप्रबन्धः गौड़ी वैदर्भी पाञ्चाली कवितारीतिक्रमः तस्य भेदस्य शृङ्गारादिनवरसबन्धेन योऽतिभेदस्तत्क्रमैः । मत्तभृङ्गमालेव स्फुटं यथा स्यात्तथा वाचश्च कूजन्ती तस्य एव वैखरीत्वम् आयातमिति । यया देव्या च श्वासोच्छ्वासविभञ्जनेन जगतां जीवो धार्य्यते सा मूलाधारपद्मकुहरे प्रकाशते । प्रोद्दामदीप्तावलिर्यस्याः दीप्तमिति भावे क्तः ॥

अतिभेदस्तदितरसंस्कृतप्राकृतवाक्यसमुदायः । तयोर्यः क्रमः शास्त्रव्यवहारानु- रूपरीतिः । तादृशीभी रीतिभिर्व्वाचं जनयन्तीति परिष्कृतार्थः । कुण्डलिन्याः संस्कृतप्राकृतविशेषाविशेषयावद्वाक्यजनयित्रीत्वात् ।

तदाह शारदायाम्—

भिद्यमानात् पराद्बिन्दोरव्यक्तात्मा रवोऽभवत् । तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः ॥ इति ॥

गद्यपद्यादीत्यादिपदात् यावद्वाक्यं गृह्यते ।

व्यक्तमाह कादिमते—

स्वात्मेच्छाशक्तिघातेन प्राणवायुस्वरूपतः । मूलाधारे समुत्पन्नः पराख्यो नाद उत्तमः ॥ स एव चोर्द्ध्वतां नीतः स्वाधिष्ठानविजृम्भितः । पश्यन्त्याख्यामवाप्नोति तथैवोर्द्ध्वे शनैः शनैः ॥ अनाहते बुद्धितत्त्वसमेतो मध्यमोऽभिधः । तथा तयोरूर्द्ध्वगतो विशुद्धौ कण्ठदेशतः ॥ वैखर्य्याख्यस्ततः कण्ठशीर्षताल्वोष्ठदन्तगः । जिह्वामूलाग्रपृष्ठस्थस्तथा नासाग्रतः क्रमात् ॥ कण्ठताल्वोष्ठकण्ठस्थः कण्ठौष्ठद्वयतस्तथा । समुत्पन्नान्यक्षराणि क्रमादादिक्षेकावधि ॥ इति ॥

अलं विस्तरेण ।

कुण्डलिनीध्यानान्तरमाह अन्यत्र—

ध्यायेत् कुण्डलिनीं देवीं स्वयम्भुलिङ्गवेष्टिनीम् । श्यामां सूक्ष्मां सृष्टिरूपां सृष्टिस्थितिलयात्मिकाम् । विश्वातीतां ज्ञानरूपां चिन्तयेदूर्द्ध्ववाहिनीम् ॥

तन्मध्ये परमा कलातिकुशला सूक्ष्मातिसूक्ष्मा परा नित्यानन्दपरम्परातिविगलत्पीयूषधाराधरा । ब्रह्माण्डादिकटाहमेव सकलं यद्भासया भासते सेयं श्रीपरमेश्वरी विजयते नित्यप्रबोधोदया ॥१२॥

तथा—

ध्यायेत् कुण्डलिनीं देवीमिष्टदेवस्वरूपिणीम् । सदा षोड़शवर्षीयां पीनोन्नतपयोधराम् । नवयौवनसम्पन्नां सर्व्वाभरणभूषिताम् । पूर्णचन्द्रप्रभां रक्तां सदा चञ्चललोचनाम् ॥ इति ॥

रक्तामिति सुन्दरीविषये ज्ञेयमिति शाक्तानन्दतरङ्गिणीकारः । वस्तुतस्तु सर्व्वदेवताविषये एव कुण्डलिनी रक्तवर्णत्वेन ध्येया न तु श्यामवर्णत्वेन प्रायः सर्व्वतन्त्रे सर्व्वसंग्रहे च कुण्डलिन्यास्तड़िदाकारत्वकथनात् । श्यामामित्यनेन—

शीतकाले भवेदुष्णा चोष्णकाले च शीतला । प्रतप्तकाञ्चनाभा सा श्यामा स्त्री परिकीर्त्तिता ॥

इत्येतद्वचनाक्रान्तत्वं ज्ञापितम् । न तु श्यामवर्णत्वमतः सर्व्वशास्त्रसामञ्जस्यमिति । चक्रभेदनात् पूर्व्वं ब्रह्मद्वारमध्ये कुण्डलीध्यानमाह कङ्कालमालिन्याम्—

कोटिचन्द्रप्रतीकाशां परंब्रह्मस्वरूपिणीम् । चतुर्भुजां त्रिनेत्राञ्च वराभयकरान्तथा ॥ तथा पुस्तकवीणाञ्च धारिणीं सिंहवाहिनीम् । गच्छन्तीं स्वासनं भीमां नानारूपधरात्मिकाम् ॥ इति ॥ १०—११ ॥

स्वयम्भुलिङ्गवेष्टितकुण्डलिन्यूर्द्ध्वे समसूत्रपातन्यायेन दण्डाकारेण लिङ्गाग्र- पर्य्यन्तस्थितां परशक्तिमाह तन्मध्ये इति । अस्यार्थः यद्भासया यस्याः शक्त्या

(१२) तन्मध्ये इति । तस्याः कुण्डलिन्या मध्ये परमा कला आस्ते परं परमात्मानं मीयते अनया इति परमा । अत्यर्थं कुशलं यतः सातिकुशला । सूक्ष्मा

दीप्त्या ब्रह्माण्डादि तत्कटाहश्च भासते प्रकाशते सेयं श्रीपरमेश्वरी तन्मध्ये स्वयम्भुलिङ्गे कुण्डलिनीवेष्टनोर्द्ध्वे विजयते सर्व्वान् वशवर्त्तिनः कृत्वा तिष्ठतीत्यर्थः । सा किम्भूता ? परमा अघटनघटनपटीयसी माया । कला नादशक्तिरूपा कुण्डलिन्यभेदशरीरिणी ।

तदुक्तं शाक्तानन्दतरङ्गिण्याम्—

कला कुण्डलिनी सैव नादशक्तिः शिवोदिता ।

तथान्यत्र—

तस्योपरि मनो ध्यायेत् चित्कलां ई-समाश्रिताम् । प्रदीपकलिकाकारां कुण्डल्यभेदरूपिणीम् ॥ इति ॥

तथा कालिकाश्रुतौ—

तस्याः शिखाया मध्ये तु अध ऊर्द्ध्व¹व्यवस्थिताम् । स ब्रह्मा स शिवः शूरः स एव परमेश्वरः ॥ स एव विष्णुः स प्राणः स कालाग्निः स चन्द्रमाः । इति कुण्डलिनीं ध्यात्वा सर्व्वपापैः प्रमुच्यते ॥ इति ॥

तस्याः शिखाया मध्ये त्रिवलयस्योर्द्ध्वे व्यवस्थितां परमां कलां नादरूपामित्यर्थः । इति ललितारहस्यकारः । अतिकुशला सृष्टिसम्पादनयोग्यतारूपकौशलवतीत्यर्थः । नित्यानन्दपरम्परेति । नित्यानन्दात् परम्परा परपरक्रमसम्बन्धो यस्या इत्यर्थः । ततश्च नित्यानन्दो निर्गुणं ब्रह्म तस्मात् सगुणाविर्भावः सगुणात् शक्तिः

यतस्तस्या मध्ये परा पश्यन्ती मध्यमा वैखरी समाधिरूपा नित्यं आनन्दपरम्परा यस्याः सा तथा । अत्यर्थविद्युन्मालेव लसत् प्रकाशत् दीधितिस्तेजो यस्याः ब्रह्माण्डस्य आदिकटाहपर्य्यन्तं यस्याः कलाया भासया सकलं भासते । यद्वा शरीरस्यापि ब्रह्माण्डसंज्ञा—“ ब्रह्माण्डे ये गुणाः सन्ति ते हि सन्ति कलेवरे ” इति प्रामाणिकोक्तत्वात् । सेयं श्रीपरमेश्वरी विजयते जयतीत्यर्थः । नित्यज्ञानस्योदयो यतः ।

1 परमोर्द्ध्वं इति पाठान्तरम् ।

ध्यात्वैतन्मूलचक्रान्तरविवरलसत्कोटिसूर्य्यप्रकाशां वाचामीशो नरेन्द्रः स भवति सहसा सर्व्व- विद्याविनोदी । आरोग्यं तस्य नित्यं निरवधि च महानन्द- चित्तान्तरात्मा वाक्यैः काव्यप्रबन्धैः सकलसुरगुरून् सेवते शुद्धशीलः ॥ १३ ॥

शक्तेर्नादः नादाद्बिन्दुः विन्दोः कुण्डलिनी कुण्डलिन्यवान्तररूपेयं चित्कलेत्ये- वंप्रकारेण नित्यानन्दपरम्परेति भावः । यद्वा नित्यानन्दपरम्परातिविगलत्पीयूष- धाराधरेत्येकविशेषणम् । नित्यानन्दात्परम्परया नित्यानन्दात् परं विन्दुः तत्परमाज्ञाचक्रं तत्परं विशुद्धचक्रं एवं क्रमेण मूलाधारपर्य्यन्तं अतिविगलन्ती या पीयूषधारा सा ध्रियते गृह्यते यया सेत्यर्थः । स्पष्टमन्यत् ॥ १२ ॥

मूलाधारे कुण्डलिनीचिन्तनफलमाह ध्यात्वैतदिति । मूलचक्रेति, “ मूल- माधारषट्कानां मूलाधारं ततो विदुः ” इति वचनात् मूलाधारचक्रं तस्यान्तरे मध्ये यद्विवरं गह्वरं तस्मिन् लसत्कोटिसूर्य्यप्रकाशामित्यर्थः । सकलसुरगुरूनिति । “ सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ” इत्यमरोक्त्या सुरगुरुवर्त्तिना गुरुशब्देन सुरश्रेष्ठा ब्रह्मविष्णुशिवादयः प्रतीयन्ते । ततश्च तदादिदेवान् सेवते स्तवादिवाक्यैस्तोषयतीत्यर्थः । स्पष्टमन्यत् ॥ १३ ॥ * ॥

(१३) ध्यात्वैतदिति । एतत् मूलाधारस्थं सर्व्वं ध्यात्वा नरः एवमेवं भवति तत्क्रमेणाह—वाचामीशो नराणामिन्द्रतुल्यः सहसा सर्व्वविद्याविनोदी च भवति । तस्य नित्यमेव आरोग्यं निरवधि अहर्निशमेव महानन्द ईश्वरः तच्चिन्ता- विशिष्टः अन्तरात्मा यस्य एवं भवतीत्यर्थः । एतत् कीदृशं ? मूलाधारमध्यप्रकाशं कोटिसूर्य्याणां प्रकाशो यस्य तत्तथा । स जनः काव्यप्रबन्धैः वाक्यैः सकलसुरगुरुं शुद्धशीलः सन् सेवते वाकपतिसदृशो भवतीत्यर्थः । [अत्र मते गुरुमिति पाठः]

सिन्दूरपूररुचिरारुणपद्ममन्यत् सौषुम्णमध्यघटितं ध्वजमूलदेशे । अङ्गच्छदैः परिवृतं तड़िदाभवर्णै- र्व्वाद्यैः सबिन्दुलसितैश्च पुरन्दरान्तैः ॥ १४ ॥

तदयं महावाक्यार्थनिर्णयः । मूलाधारचक्रं चतुर्द्दलं रक्तवर्णं वशषस इति स्वर्णाभचतुर्व्वर्णयुक्तदलकर्णिकायां धरामण्डलं चतुष्कोणं अष्टशूलावृतं पीतवर्णं तन्मध्याधोधराबीजं चतुर्भुजं ऐरावतारूढ़ं पीतवर्णं वज्रहस्तं चतुर्भुजम् । धराबीजबिन्दुमध्ये शिशुरूपब्रह्मा रक्तवर्णः चतुर्भुजः दण्डकमण्डल्वक्षसूत्राभयहस्तः चतुर्म्मुखः । तत्कर्णिकायां रक्तपद्मोपरि चक्राधिष्ठात्री डाकिनीशक्तिः रक्तवर्णा चतुर्भुजा शूलखट्वाङ्गखड्गचषकहस्ता । कर्णिकामध्ये विद्युदाकारत्रिकोणं तन्मध्ये कामवायुः कामबीजञ्च रक्तवर्णम् । तदुपरि स्वयम्भुलिङ्गः श्यामवर्णः । तस्योर्द्ध्वे कुण्डलिनीशक्तिः सार्द्धत्रिवलयाकारा । तदूर्द्ध्वे लिङ्गाग्रे चित्कला दण्डाकारेण स्थितेति ॥ इति प्रथमप्रकरणम् ॥ * ॥

मूलाधारचक्रं निरूप्य स्वाधिष्ठानचक्रं निरूपयति सिन्दूरपूरेत्यादि पञ्चभिः । प्रथमस्यायमर्थः । ध्वजमूलदेशे लिङ्गमूलस्थाने अन्यत् आधारचक्रभिन्नं, सिन्दूरपूररुचिरारुणपद्मं सिन्दूरस्य पूरणेन यथा मनोहररक्तवर्णं तद्वद्रक्तवर्णपद्मं आस्ते इति क्रियासमाहारेणान्वयः । पद्मं विशेषयति सौषुम्णमध्यघटितमिति । सुषुम्णानाड़ीमध्ये निर्म्मितं तथा अङ्गच्छदैः परिवृतं षट्पत्रयुक्तम् । पुरन्दरान्तैरिति । पुरन्दरो लकारः तदन्तैर्वाद्यैस्तेन वभमयरलेति षड्भिः

(१४) सिन्दूरेति । अन्यत् स्वाधिष्ठानाख्यं लिङ्गमूलसमदेशे आस्ते सुषुम्णामध्यघटकीभूतं, सुषुम्णाशब्दात् स्वार्थे अण् इति केचित् । तद्दूष्यं । वस्तुतस्तु सुषुम्णाया इदं ब्रह्मनाड्यादि तन्मध्यभूतं पद्मं तस्येदमित्यर्थे अण् कीदृशं सिन्दूर- रुचिरतया अरुणवर्णम् । पुनः कीदृशं ? अङ्गच्छदैः षड्दलैरावृतम् । कीदृशैः ? तड़िदिवाभा वर्णो येषां तथोक्तैः । पुरन्दरो लकारस्तदन्तैः बिन्दुना परिलसितैरेव- म्भूतैर्दलैरित्यर्थः । एतेन वर्णानां सर्व्वपद्मेषु दलमध्यवर्त्तित्वमायातम् ।

तस्यान्तरे प्रविलसद्विशदप्रकाश- मम्भोजमण्डलमथो वरुणस्य तस्य । अर्द्धेन्दुरूपलसितं शरदिन्दुशुभ्रं वङ्कारबीजममलं मकराधिरूढ़म् ॥ १५ ॥

तड़िदाभवर्णैर्दलवत्परिवृतः तेन दलावच्छेदे वर्णयोगः प्रतीतः । वर्णान् विशेषयति सबिन्दुलसितैरिति । बिन्दुना सह वर्त्तमानाः सबिन्दवः लसिताः प्रकाशिताः । सबिन्दवश्च ते लसिताश्चेति तैरित्यर्थः । ततश्चात्र विशेष्य- विशेषणभावकल्पने विशेषणीभूतबिन्दौ लसितत्वकारणत्वम् प्रतीयते । “ सुरापः पतती”त्यत्र कर्त्तृविशेषणसुरापाने पतनकर्त्तृत्ववदिति । यद्वा बिन्दूनां लसितं बिन्दुलसितं बिन्दुप्रकाशः तेन सह वर्त्तमानैः वाद्यैरित्यर्थः ॥ १४ ॥

एतत्पद्मकर्णिकायामम्भोजमण्डलस्थितिमाह तस्यान्तरे इति । तस्य पद्मस्य अन्तरे मध्ये अम्भोजमण्डलम् अम्भोजाकारमण्डलं प्रविलसत् प्रकाशमानम् । तत् किम्भूतं ? विशदप्रकाशं शुक्लवर्णम् । पुनः किम्भूतम् ? अर्द्धेन्दुरूपलसितम् अर्द्धचन्द्रयुक्तमित्यर्थः । इदं जलमण्डलं । तदाह शारदायाम्—

अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् । इत्यादि ।

एतन्मण्डललक्षणमाह राघवभट्टः “ अर्द्धचन्द्रं कृत्वा तदुभयभागे सरोजद्वयं कुर्य्यात् ” । तदुक्तमाचार्य्यैः “अब्जोपेतार्द्धेन्दुमद्बिम्बमाप्यमि”ति । मण्डलमध्ये

(१५) तस्यान्तरे इति । तस्य पद्मस्य मध्ये अम्भसि जातं वरुणस्य मण्डलमास्ते । अथो शब्दः सम्भावनायाम् । कीदृशं ? प्रकर्षेण विलसत् निर्म्मल- प्रकाशो यस्य तत्तथा । तस्यैव वरुणस्य अर्द्धेन्दुरूपेण लसितं मनोज्ञम् अत एव वङ्कारबीजम् अमलं निर्म्मलशरच्चन्द्र इव शुभ्रम् । मकराधिरूढ़ं मकरो जन्तुविशेषः ओङ्कार इति ख्यातस्तदधिरूढ़ं कर्त्तरि क्तः, अत एव अम्भोजमण्डलदर्शनात् कमपि मणिपूरे इति शङ्कराचार्यश्लोकस्य महीं मूलाधारे इत्यत्र चानुपपत्तिः तत्तु तद्व्यवसायिभिः प्रतिध्यातव्यम् । वयन्तु तत्र व्यस्तसमस्ततया व्याख्यां ब्रूमः ॥

तस्याङ्कदेशकलितो हरिरेव पायात् नीलप्रकाशरुचिरश्रियमादधानः । पीताम्बरः प्रथमयौवनगर्व्वधारी श्रीवत्सकौस्तुभधरो धृतवेदबाहुः ॥ १६ ॥

वरुणवीजस्थितिमाह अथो इति । तस्येति जलाधिष्ठातृत्वेन प्रसिद्धस्येत्यर्थः । मकराधिरूढ़मिति । पाशहस्तञ्च । तदाह—

तदन्तर्व्वारुणं वीजं श्वेतं मकरवाहनम् । पाशहस्तं तदङ्के च हरिं श्यामं चतुर्भुजम् ॥ इति ॥

अयं वरुणबीजस्वरूपो वकारो यवर्गीयः कुलाकुलचक्रे भूतलिपिमन्त्रे च तद्वकारस्यैव यलवर्णत्वेनाभिधानात् । स्पष्टमन्यत् ॥ १५ ॥

वरुणबीजस्याङ्के विष्णुस्थितिमाह तस्याङ्क इति । अङ्के बीजमस्तकस्थ- बिन्दुमध्ये । धराबीजबिन्दौ ब्रह्मणः स्थितिदर्शनादत्रापि तथा दृष्टपरिकल्प- नान्यायात् एवं वक्ष्यमाणं सर्व्वत्र बोध्यम् । कलितः स्थित इत्यर्थः । नीलप्रकाशरुचिरश्रियमादधान इति । नीलज्योतिषां या मनोज्ञा शोभा तां दधानः इत्यर्थः तेन नीलतेजःपुञ्जशरीरीति यावत् ।

श्रीवत्सकौस्तुभधर इति, तद्ध्यानमाह गौतमीये—

कौस्तुभं हृदये रत्नं सूर्य्यायुतसमप्रभम् । तदधो वनमालाञ्च चन्द्रायुतसमप्रभाम् । कौस्तुभोर्द्ध्वे च श्रीवत्सञ्चन्द्रायुतसमप्रभम् ॥ इति ॥

(१६) तस्याङ्क इति । तस्य बीजस्य क्रोड़देशलसितः हरिर्व्विष्णुः त्रिभुवनं पायात् । कीदृशः ? नीलप्रकाशां मनोज्ञां कान्तिम् आधत्ते । पीतवस्त्रः, प्रथमयौवन- गर्व्वम् उद्रेकं धर्त्तुं शीलमस्य तथोक्तः । श्रीवत्सचिह्नं कौस्तुभञ्च दधातीत्यर्थः । धृताश्चत्वारो बाहवो येन स तथा ॥

अत्रैव भाति सततं खलु राकिणी सा नीलाम्बुजोदरसहोदरकान्तिशोभा । नानायुधोद्यतकरैर्लसिताङ्गलक्ष्मी- र्दिव्याम्बराभरणभूषितमत्तचित्ता ॥ १७ ॥

हरिहस्ते अस्त्रमाह तन्त्रान्तरे—

पाशहस्तं तदङ्के च हरिं श्यामं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं पीतवाससम् ॥ इति ॥

पाशहस्तं वरुणम् इति पूर्व्वेणान्वयः । अन्यत्र “ पीताम्बरं शान्तमूर्त्तिं वनमालाविभूषितम् ” इति । मूलाधारे हंसपृष्ठे ब्रह्मणः स्थितिदर्शनादत्र गरुड़ोपरि विष्णुश्चिन्तनीयः ॥ १६ ॥

एतत्पद्मे राकिणीशक्तिस्थितिमाह । अत्रैवेति स्पष्टम् । राकिणीध्यान- विशेषमाह—

श्यामां शूलाब्जहस्तां डमरुकरयुतां तीक्ष्णटङ्कं वहन्ती- मुग्रां रक्तत्रिणेत्रां कुटिलसविलसद्दन्तदंष्ट्रा¹प्रभाभिः । दीप्तां तां² देवदेवीं द्वितयकमलगां रक्तधारैकनासां³ शुक्लान्ने सक्तचित्तामभिमतफलदां⁴ राकिणीं चिन्तयेत्ताम् ॥

अत्र पद्मान्तरे राकिण्याः स्थितिदर्शनात् सर्व्वत्र रक्तपद्मान्तरोपरि षट्शक्तीनां स्थितिरिति बोध्यम् ॥ १७ ॥

(१७) अत्रैवेति । अत्रैव पद्मे खलु निश्चितं सर्व्वदेवस्य प्रसिद्धा राकिणी आस्ते । नीलपद्मस्योदरतुल्यशोभा यस्याः नानास्त्रेणोद्यतकरैः प्रकाशमाना शोभा यस्याः सा तथा । दिव्याम्बरालङ्काराभ्यां भूषिता च मत्तं चित्तं यस्याः सा च इति तथा ॥

¹ वलिलसद्दष्टदन्त. ² दीप्तास्यां. ³ रक्तधात्वेकनाथां. ⁴ चित्तां मधुमदमुदितां.

स्वाधिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो मनुष्य- स्तस्याहङ्कारदोषादिकसकलरिपुः क्षीयते तत्क्षणेन । योगीशः सोऽपि मोहाद्भुततिमिरचये भानुतुल्य- प्रकाशो गद्यैः पद्यैः प्रबन्धैर्व्विरचयति सुधावाक्य- सन्दोहलक्ष्मीः ॥ १८ ॥

स्वाधिष्ठानपद्मादिचिन्तनफलमाह स्वाधिष्ठानाख्यमिति ।

तदुक्तं—

स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ इति ॥

अहङ्कारदोषादीत्यादिना कामक्रोधादयो गृह्यन्ते तेन कामादिषड्रिपवः क्षीयन्ते इत्यर्थः । मोहाद्भुततिमिरचये इति दुर्निवार्य्यमोहान्धकारसमूहे इत्यर्थः । ततश्च मायामोहरूपान्धकारनाशाय ज्ञानरूपसूर्य्यमाप्नोतीति भावः । स्पष्टमन्यत् ॥१८॥

तदयं महावाक्यार्थनिर्णयः । स्वाधिष्ठानचक्रं सिन्दूरवर्णषड्दलं तड़िदाभसबिन्दु व भ म य र ल इति षड्वर्णयुक्तदलम् । तत्कर्णिकायां मध्य- स्थलार्द्धचन्द्रयुक्ताष्टदलपद्माकारमम्भोजमण्डलं शुक्लवर्णम् । तन्मध्ये वं इति वरुण- वीजं मकराधिरूढ़ं पाशहस्तं । तत्क्रोड़े विष्णुर्गरुड़ोपरिस्थितश्चतुर्भुजः शङ्खचक्र- गदापद्मधारी पीताम्बरः वनमालाश्रीवत्सकौस्तुभधारी युवरूपः । पद्मकर्णिकायां

(१८) स्वाधिष्ठानेति । एतत् स्वाधिष्ठानाख्यं सरसिजं यो मुनीन्द्रश्चिन्तयेत् तस्याहङ्कारादिदोषरूपसकलरिपवः ज्ञानप्रतिबन्धकत्वात् शुद्धज्ञानपरिपन्थिनः तत्- क्षणेनैव क्षीणा भवन्तीति । पद्मं कीदृशम् ? अमलं निर्म्मलम् । स योगीशश्च भवति । मोहाद्भुतान्धकारचये भानुतुल्यप्रकाशश्च भवति । स च गद्यैः संस्कृतया वाचा पद्यैः श्लोकप्रबन्धैः नानावर्णादिभिः अमृतायमानकाव्यसमूहं श्रिये विरचयति ॥

तस्योर्द्ध्वे नाभिमूले दशदललसिते पूर्णमेघप्रकाशे नीलाम्भोजप्रकाशैरुपहितजठरे डादिफान्तैः सचन्द्रैः । ध्यायेद्वैश्वानरस्यारुणमिहिरसमं मण्डलं तत् त्रिकोणं तद्वाह्ये स्वस्तिकाख्यैस्त्रिभिरभिलसितं तत्र वह्नेः स्वबीजम् ॥ १९ ॥

रक्तपद्मोपरि राकिणी शक्तिः श्यामवर्णा चतुर्भुजा शूलाब्जडमरुटङ्कधरा त्रिनेत्रा कुटिलदंष्ट्रा भयङ्करी शुक्लान्नरक्तधाराभिलाषिणीति ॥ इति द्वितीयप्रकरणम् ॥*॥

मणिपूरचक्रं निरूपयति तस्योर्द्ध्वे इत्यादित्रिभिः । तस्य स्वाधिष्ठान- स्येत्यर्थः । दशदललसिते इति दशदलैर्लसिते प्रकाशिते पद्मे इति शेषः । पद्मे किम्भूते ? पूर्णमेघप्रकाशे कृष्णवर्णे । तथा डादिफान्तैः ड ढ ण त थ द ध न प फेति दशवर्णैरुपहितं युक्तं जठरं मध्यं यस्य तद्रूपे इत्यर्थः । सचन्द्रै- रिति । चन्द्रोऽर्द्धचन्द्रः युगलाध्ववाहित्वाद्बिन्दुश्च ताभ्यां सह वर्त्तमानैर्व्वर्णै- रित्यर्थः । वैश्वानरस्य वह्नेः । अरुणमिहिरसमं बालार्कसदृशमित्यर्थः । स्वस्तिकाख्यैरिति “ स्वस्तिकं नाम परस्परसम्वद्धं विदिग्गतचतुर्व्वक्त्रं रेखाद्वयमि” ति राघवभट्टोक्तं । तत्प्रकारैस्त्रिभिः स्वस्तिकैः त्रिकोणावच्छेदे अभिलसितमित्यर्थः । अत्र वह्निमण्डले वह्निवीजं रं ॥ १९ ॥

(१९) तस्योर्द्ध्वे इति । तस्य पद्मस्योर्द्ध्वे नाभिमूले दशदलकमले ललिते मनोज्ञे पूर्णमेघ इव प्रकाशो यस्य एवम्भूते पद्मे वैश्वानरस्य वह्नेः त्रिकोणं मण्डलं ध्यायेत् । कीदृशम् ? अरुणसूर्य्ययोस्तुल्यम् । पुनः कीदृशं ? तद्वाह्ये त्रिकोणस्य बहिः त्रिभिः स्वस्तिकाख्यैरभिलसितं, तत्रैव वह्निमण्डले वह्नेः स्वबीजम् आस्ते । सानुस्वारो रेफ इति । पद्मे किम्भूते ? नीलाम्भोजस्य प्रकाशो येषाम् एवम्भूतैः सचन्द्रैः डकारादिफकारान्तैरुपहितजठरे एतैर्वर्णैरुपशोभितजठरे उपस्थितमध्ये इत्यर्थः ॥ शङ्करमते “ दशदल-ललिते ” इति पाठः ।

ध्यायेन्मेषाधिरूढ़ं नवतपननिभं वेदवाहूज्ज्वलाङ्गं तत्क्रोड़े रुद्रमूर्त्तिर्निवसति सततं शुद्धसिन्दूररागः । भस्मालिप्ताङ्गभूषाभरणसितवपुर्व्वृद्धरूपी त्रिनेत्रो लोकानामिष्टदाताऽभयलसितकरः सृष्टिसंहारकारी॥

अत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी श्यामा पीताम्बराद्यैर्व्विविधविरचनालङ्कृता मत्तचित्ता । ध्यात्वैतन्नाभिपद्मं प्रभवति नितरां संहृतौ पालने वा वाणी तस्याननाब्जे निवसति सततं ज्ञान- सन्दोहलक्ष्मीः ॥ २१ ॥

ध्यायेदिति । भस्मालिप्ताङ्गभूषाभरणसितवपुरिति । भस्मलेपनाङ्गभूषा- भरणाभ्यां शुक्लीकृतदेह इत्यर्थः । ध्यायेन्मेषेति । ध्याने विशेषमाहान्यत्र—

मेषस्थं साक्षसूत्रञ्च शक्तिहस्तं स्मरेत्ततः ॥ इति ॥

विशेषानभिधानादन्यहस्तद्वयं वराभयौ चिन्तनीयौ ध्यानान्तरे तथा दर्शनात् । लोकानामिष्टदाता वरदातेत्यर्थः । अभयलसितकरस्तेन वराभयधारीति भावः । अत्र वृषोपरि रुद्रो ध्येयः । स्पष्टमन्यत् ॥ २० ॥

अत्रास्ते इति । विविधविरचनेति विविधेन मणिमुक्तादियोगेन चित्र- विचित्रघटनेन विरचना यत्र तादृशमलङ्कृतं यस्या इत्यर्थः । यद्वा विविधविर- चनया अलङ्कृतं अलङ्कारो धार्य्यते यत्रेत्यर्थः । अत्र लाकिनीध्यानविशेषमाह—

(२०) ध्यायेदिति । वह्निबीजं ध्यायेदिति पूर्व्वश्लोकेनान्वयः । कीदृशम् ? मेषं अधिरूढ़ं प्रातःकालीनसूर्यतुल्यं चतुर्भिर्व्वाहुभिरुज्ज्वलाङ्गम् । तस्य बीजकोशस्य अङ्के रुद्रमूर्त्तिर्निवसति सततमेव । कीदृशः ? शुद्धसिन्दूरस्येव रक्ताकारो यस्य । भस्मलिप्तमेवाङ्गभूषाभरणं तेन प्रकाशवपुर्य्यस्य वृद्धाकारः त्रीणि नेत्राणि यस्य स तथा । त्रिलोकवासिनामभीष्टदाता अभयलसितकरः सृष्टेः संहारकारी च ।

(२१) अत्रास्ते इति । अत्रैव पद्मे सा प्रसिद्धा लाकिनी आस्ते । कीदृशी ? सर्व्वेषामेव शुभकरी । चतुर्भिर्बाहुभिरुज्ज्वलाङ्गी श्यामवर्णा पीतवस्त्राद्यैर्या नाना-

तस्योर्द्ध्वे हृदि पङ्कजं सुललितं बन्धूककान्त्युज्ज्वलं काद्यैर्द्वादशवर्णकैरुपहितं सिन्दूररागान्वितैः । नाम्नाऽनाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदं वायोर्म्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वितम् ॥

नीलां देवीं त्रिवक्त्रां त्रिनयनलसितां दंष्ट्रिणीमुग्ररूपां वज्रं शक्तिं दधानामभयवरकरां दक्षवामे क्रमेण । ध्यात्वा नाभिस्थपद्मे दशदलविलसत्कर्णिके लाकिनीं तां मांसस्थां¹ गौरभक्तोत्सुकहृदयवतीं चिन्तयेत् साधकेन्द्रः ॥

नाभिपद्मचिन्तनफलमाह ध्यात्वैतदित्यादि । नाभिपद्मं मणिपूराख्यम् । “ तत्पद्मं मणिवद्भिन्नं मणिपूरं तथोच्यते ” इति गौतमीयात् । अन्यत् स्पष्टम् ॥ २१ ॥

तदयं महावाक्यार्थनिर्णयः । नाभिपद्मं मेघवर्णदशदलं तद्दलेषु नीलाभसबिन्दु ड ढ ण त थ द ध न प फ इति दशवर्णयुक्तं । तत्कर्णिकायां त्रिकोणाकारं त्रिकोणवहिः स्वस्तिकायुक्तं रक्तवर्ण वह्निमण्डलम् । तन्मध्ये रं इति वह्निबीजं रक्तवर्ण मेषाधिरूढ़ं चतुर्भुजं वज्रशक्तिवराभयधरम् । तत्क्रोड़े रुद्रः वृषारूढ़ो रक्तवर्णो द्विभुजो वराभयधारी भस्मलेपनशुक्लाभरणाभ्यां शुक्लीकृतदेहः वृद्धरूपः । पद्मकर्णिकायां रक्तपद्मोपरि लाकिनीशक्तिः नीलवर्णा त्रिवक्त्रा त्रिनेत्रा चतुर्भुजा वज्रशक्त्यभयवरकरा घोरदंष्ट्रा रक्तयुक्तखेचरान्नमां- साभिलाषिणीति ॥ इति तृतीयप्रकरणम् ॥ * ॥

हृदि पङ्कजं निरूपयति तस्योर्द्ध्वे इत्यादि षड्भिः । हृदि पङ्कजमिति । एवम्भूतं पङ्कजं हृदि ध्यायेदिति क्रियाध्याहारेणान्वयः । सुललितं सुस्निग्ध-

विरचना तया अलङ्कृता । मत्तं चित्तं यस्याः सा तथा । एतन्नाभिपद्मं मणिपूरकाख्यं ध्यात्वा इत्यर्थः । संहारपालने च प्रभवति समर्थो भवति । तस्याननाब्जे सततमेव वाणी विलसति । कीदृशी ? ज्ञानसमूहसंप्राप्तिः एतेन ब्रह्मविष्णुशिवतुल्यो भवतीत्यर्थः ।

(२२) तस्योर्द्ध्वे इति । तस्य पद्मस्य ऊर्द्ध्वे हृदि सुललितं मनोरमं नाम्ना अनाहतसंज्ञकं पद्ममास्ते । कीदृशम् ? बन्धूककान्तिवदुज्ज्वलं सिन्दूरराग इव

¹ ‘ मांसाशीं गौररक्तासृक् ’ इति पाठान्तरम् ।

तन्मध्ये पवनाक्षरञ्च मधुरं धूमावलीधूसरं ध्यायेत्पाणिचतुष्टयेन लसितं कृष्णाधिरूढ़ं परम्। तन्मध्ये करुणानिधानममलं हंसाभमीशाभिधं पाणिभ्यामभयं वरञ्च विदधल्लोकत्रयाणा- मपि ॥ २३ ॥

मित्यर्थः । काद्यैरिति । क ख ग घ ङ च छ ज झ ञ ट ठ इति द्वादश- वर्णकैरिति बोध्यम् । तैरुपहितं युक्तमित्यर्थः । नाम्नानाहतसंज्ञकमिति ।

शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते । अनाहताख्यं पद्मं तत् मुनिभिः परिकीर्त्तितम् ॥

इति वचनादनाहतनामपद्ममिति तात्पर्य्यम् । यतः सुरतरुं कल्पतरुस्वरूप- मतो वाञ्छातिरिक्तफलप्रदमिति हेतुगर्भविशेषणमिति भावः । तत्पद्मकर्णिकायां वायुमण्डलस्थितिमाह वायोरिति ॥ २२ ॥

वायुमण्डलमध्ये वायुबीजमाह तन्मध्य इति । पवनाक्षरं यं इति बीजं मधुरं मनोहरम् । धूमावलीधूसरमिति धूमश्रेण्यावृतदेहत्वात् धूमधूम्रवर्णमिति भावः । कृष्णाधिरूढ़मिति कृष्णसाराधिरूढ़मित्यर्थः । वरुणहस्ते पाशदर्शनादत्र वायुहस्तेऽङ्कुशो ध्येयः । वायुवीजमध्ये ईशस्थितिमाह तन्मध्य इति स्पष्टम् । सर्व्वत्र शिवस्य त्रिनेत्रं शिवस्य त्रिनेत्रत्वादयं त्रिनेत्रः । एवं “ ग्रैवेयाङ्गदहारनू-

अञ्चितैः प्राप्तैः ककाराद्यैः ठकारान्तैर्द्वादशसंख्यकवर्णैर्दलमध्यवर्त्तिभिरुपशोभितम् । पुनः कीदृशम् ? सुरतरुः कल्पवृक्षस्तत्तुल्यं अतो वाञ्छातिरिक्तप्रदं वाञ्छितस्याप्य- तिददातीति तत्तथा । अयम्भावः—कल्पवृक्षाः पूर्णवाञ्छितफलदातारः, अयन्तु तदतिरिक्तं मोक्षं फलञ्च ददातीत्यर्थः । अत्रैव मण्डले वायोर्म्मण्डलं विद्यते । कीदृशम् ? धूमसदृशम् । पुनः कीदृशम् ? षट्कोणकोणस्य या शोभा तया अन्वितम् । [एतन्मते “ सिन्दूररागाञ्चितैः ” इति पाठः । ]

(२३) तन्मध्ये इति । तस्य मण्डलस्य मध्ये पवनाक्षरं वायुबीजम् । अक्षरपदेन बीजमुच्यते । एतत् प्रकारं यस्य मण्डलं तस्यैव बीजमिति दृष्टत्वात् ।

अत्रास्ते खलु काकिनी नवतड़ित्पीता त्रिनेत्रा शुभा सर्व्वालङ्करणान्विता हितकरी सम्यग् जनानां मुदा । हस्तैः पाशकपालशोभनवरान् संबिभ्रती चाभयं मत्ता पूर्णसुधारसार्द्रहृदया कङ्कालमाला- धरा ॥ २४ ॥

पुरयुतं क्षौमाम्बरं चिन्तयेत् ” इत्यादिकर्म्मान्तरोक्तध्यानप्राप्तक्षौमाम्बरत्वमीशस्य । एवं “कान्तं कान्तशशाङ्ककोटिकिरणं प्रोद्यत्कपर्द्दोज्ज्वलम् ” । इति ॥ २३ ॥

अत्र कर्णिकायां काकिनीशक्तिस्थितिमाह अत्रास्ते इति । मत्ता अस्वभावस्था स्खलितभावा । पूर्णसुधारसार्द्रहृदयेति । पूर्णः सम्पूर्णः तृप्तिजनको यः सुधारसस्तेनार्द्रं परोपकाराभिमतकोमलं हृदयं चित्तं यस्या इत्यर्थः । यद्वा पूर्णः पूर्णानन्दजनको यः सहस्रदलकमलान्तर्व्विगलितपरमामृतरसस्तेनार्द्रं परमानन्दोत्फुल्लशिथिलं हृदयं यस्या इत्यर्थः । अन्यत् स्पष्टम् ।

कृष्णाम्बरपरीधानां नानाभरणभूषिताम् । ध्यायेत् शशिमुखीं नित्यां काकिनीं मन्त्रसिद्धये ॥

इति ध्यानप्राप्तकृष्णाम्बरत्वमस्या बोध्यम् ॥ २४ ॥

कीदृशम् ? मधुरं हृदयङ्गमम् । पुनः कीदृशम् ? दीपकलिकाकारजीवात्मसम्बन्धिनी या धूमावली तया धूसरम् । पाणिचतुष्टयेन लसितं कृष्णाजिनाधिरूढं परं प्रकृष्टञ्च एवम्भूतं बीजं ध्यायेत् । तत्र वायुमण्डले ईश एवाभिधा नाम यस्य एवम्भूतं शूलपाणेर्व्वपुरास्ते । कीदृशम् ? करुणावारिधिस्वरूपम् अमलं निर्म्मलं हंसाभं सूर्य्य इव शोभा यस्य । पुनः कीदृशम् ? पाणिभ्यां कराभ्यां अभयं वरञ्च लोकत्र- याणामपि विदधत् । एतेन इयं मूर्त्तिः हस्तपादादिविशिष्टेति ।

(२४) अत्रास्ते इति । अत्रैव पद्मे खलु निश्चितं काकिनी देवी आस्ते । नूतनविद्युदिव पीतवर्णा । त्रीणि नेत्राणि यस्याः सा । शुभाशुभदायिका, सर्व्वा- लङ्कारैरावृता, मुदा हर्षेण जनानां सम्यक्प्रकारेण हितकरी । चतुर्भिर्हस्तैः कपाल- शूलशोभनवराभयान् संबिभ्रती । मत्ता उन्मत्ता, कङ्कालमालाधरा अस्थिमाल्यधरा ।

एतन्नीरजकर्णिकान्तरलसच्छक्तिस्त्रिकोणाभिधा विद्युत्कोटिसमानकोमलवपुः सास्ते तदन्तर्गतः । बाणाख्यः शिवलिङ्गकोऽपि कनकाकाराङ्गरागोज्ज्वलो मौलौ सूक्ष्मविभेदयुङ्मणिरिव प्रोल्लास- लक्ष्म्यालयः ॥ २५ ॥

एतत्पद्मकर्णिकामध्ये त्रिकोणं निरूपयति एतदिति । त्रिकोणाभिधा त्रिकोणाकारा शक्तिरित्यनेन त्रिकोणस्याधोमुखत्वं ज्ञापितम् । सा आस्ते इत्यन्वयः । एतत्त्रिकोणं वायुबीजस्याधोदेशे ।

तदाहान्यत्र—तत्क्रोड़े ईशं तदधस्त्रिकोणे बाणलिङ्गकम् ॥ इति ॥

बाणाख्यलिङ्गं विशेषयति मौलौ सूक्ष्मविभेदयुगिति । शिवलिङ्गमस्तकेऽर्द्ध- चन्द्रबिन्दुयोगात् तद्बिन्दुमध्ये शून्यरूपो विभेदश्छिद्रं तेन युक्त इत्यर्थः । तदाह

त्रिकोणान्तर्बाणलिङ्गं कनकाभरणैर्युतम् । चन्द्रार्द्धमस्तकं देवं मध्ये रक्ताम्बुजं परम् ॥ इति ॥

मध्ये रक्ताम्बुजमिति हृत्पद्मस्य कर्णिकाधोदेशे ऊर्द्ध्वमुखरक्तवर्णाष्टदलपद्ममित्यर्थः । एतत्पद्मोपरि मानसपूजा कार्य्या ।

तदुक्तं यथा—

तन्मध्येऽष्टदलं रक्तं तत्र कल्पतरुं तथा । इष्टदेवासनं चारुचन्द्रातपविराजितम् ॥

(२५) एतन्नीरज इति । एतत्पद्मकर्णिकान्तरप्रकाशात् त्रिकोणाभिधा शक्तिरास्ते । प्रसिद्धत्वात्सेति । तदन्तर्गता सती आस्ते इति सम्बन्धः । यद्वा स एव शिवः अन्तर्गतो यस्याः सा तथा । तस्याः शक्तेः मौलावुपरि बाणाख्यः शिवलिङ्गकः समास्ते । स्वर्णाकारेणाङ्गरागेणोज्ज्वलः सूक्ष्मरूपेण विशेषभेदं युनक्तीति । एवम्भूतो मणिरिव । पुनः कीदृशः ? प्रोद्दामलक्ष्म्यालयः सूक्ष्मभेदकत्वात् तस्याः शक्तेरेव प्रकृष्टोद्दामश्रियः तत्रालय इति । [अत्र मते “प्रोद्दामलक्ष्म्या- लयः ” पाठः] ।

ध्यायेद्यो हृदि पङ्कजं सुरतरुं शर्व्वस्य पीठालयं देवस्यानिलहीनदीपकलिकाहंसेन संशोभितम् । भानोर्म्मण्डलमण्डितान्तरलसत्किञ्जल्कशोभाधरं वाचामीश्वर ईश्वरोऽपि जगतां रक्षाविनाशे क्षमः ॥ २६ ॥

तथा—

नानापुष्पफलैर्युक्तं मञ्जुवाक्पक्षिशोभितम् ।

इत्याद्यभिधाय

तत्र ध्यायेदिष्टदेवं तत्तत्कल्पोक्तमार्गतः ॥ इति ॥

अलं विस्तरेण प्रकृतमनुसरामः । बाणलिङ्गमस्तके बिन्दुप्रकाशदृष्टान्तमाह मणिरिवेति । यथा सरन्ध्रमणिप्रकाशस्तथा शिवलिङ्गोपरि बिन्दुप्रकाश इति भावः । प्रोल्लासलक्ष्म्यालय इति प्रोल्लासः कामोद्गमः तच्छोभायुक्त इत्यर्थः ॥ २५ ॥

हृत्पद्मचिन्तनफलमाह ध्यायेदित्यादिद्वाभ्याम् । अस्यार्थः यो जनो हृदि पङ्कजं ध्यायेत् स जनो वाचामीश्वरो बृहस्पतिसमो भवति एवं सर्व्वत्र ईश्वर इत्यादिप्रथमान्तेन भवति क्रियान्वयो बोध्यः ।

अत्र पद्मकर्णिकायां हंसरूपजीवात्मस्थितिमाह अनिलहीनदीपकलिका- हंसेन संशोभितमिति । वायुरहिता या दीपकलिका तत्सदृशहंसेन संशोभित- मित्यर्थः । ततश्च पद्मकर्णिकायां वाताहतिरहितस्थिरतरदीपशिखाकारहंसरूपः जीवात्मा वर्त्तते इति भावः ।

(२६) ध्यायेदिति । य एतत् पद्मं कल्पवृक्षतुल्यं हृदि ध्यायेत् सः एवमेवम्भवति । वाचामीश्वरः बृहस्पतितुल्यः जगतामीश्वरः रक्षाविनाशक्षमश्च अर्थात् जगताम् । पद्मं कीदृशं ? शर्व्वस्य देवस्य पीठालयम् । पुनः कीदृशं ? अनिलहीनदीप- कलिकारूपहंसेनात्मना संशोभितम् । भानोर्मण्डलेन मण्डिते अन्तरे लसन्प्रकाशमानः केसरशोभाभावो यस्य तत्तथा ।

Commentary
page 194

No commentary for this page.