The Serpent Power — Arthur Avalon (Sir John Woodroffe) (1924)

Open to allArthur Avalon (Sir John Woodroffe)600 segments · 204 pp
page 193

षट्चक्रनिरूपणम्

अथ तन्त्रानुसारेण षट्चक्रादिक्रमोद्गतः । उच्यते परमानन्दनिर्व्वाहप्रथमाङ्कुरः ॥ *॥

॥ ॐ ॥

महायोगज्ञानात् परिचितषडम्भोजविभवः स एवान्तस्तत्त्वप्रकटनसमर्थो न हि परः । बुधश्रेष्ठो ज्येष्ठोऽप्यमिलितकृपानाथकरुणः षडब्जान्तस्तत्त्वं षसहविभवं प्रस्फुटयितुम् ॥

अथ दुःखपङ्कमग्नं जगदुद्दिधीर्षुः परमकारुणिकः पूर्णानन्दस्वामी मुक्ति- सम्पादकतत्त्वज्ञानसिद्धये षट्चक्रे कुण्डलिनीयोगं वक्तुमिच्छन् साधकावधानाय प्रतिजानीते अथेति । अथानन्तरं स्वकृतश्रीतत्त्वचिन्तामण्यां षट्चक्रनिरूपणात् पूर्व्वप्रदर्शिततत्तत्कर्म्मकथनानन्तरमित्यर्थः । अस्यार्थः परमानन्दनिर्व्वाहप्रथमाङ्कुरः

॥ ओं नमः परदेवतायै ॥

प्रणम्य शैलाधिपकन्यकायाः, पदाब्जमब्जासनविष्णुपूज्यम् । प्रतन्यते श्रीयुतशङ्करेण, षट्चक्रटीकाख्यसुपस्तिकेयम् ॥

॥ * ॥ अथेत्यादि । यद्यप्यथशब्दो मङ्गलप्रश्नाद्यर्थे वर्त्तते, तथापि आनन्तर्य्यार्थ एव गृह्यते, यद्ग्रन्थीयप्रस्तावस्तत्प्रस्तावस्यानन्तरत्वात् । मङ्गलार्थोऽ- यमिति केचित् । तन्त्रानुसारेण शिवोक्ततन्त्रीयप्रस्तावानुसारेणेत्यर्थः । षट्चक्रादि- क्रमेण उद्गतो योऽर्थ इत्यर्थः । अत्रादिपदेन सहस्रदलपद्मादिकमुच्यते । परमानन्दो निरञ्जनस्तस्मिन् यो निर्ब्बाहो ज्ञानप्राप्तिस्तस्य प्रथमाङ्कुर इति यावत् ।

मेरोर्बाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षे निषण्णे मध्ये नाड़ी सुषुम्णा त्रितयगुणमयी चन्द्रसूर्य्या- [ग्निरूपा । धूस्तूरस्मेरपुष्पग्रथिततमवपुः कन्दमध्याच्छिरःस्था वज्राख्या मेढ्रदेशाच्छिरसि परिगता मध्यमेऽ- [स्या ज्वलन्ती ॥ १ ॥

उच्यते इत्यन्वयः । परमानन्दो ब्रह्म, “ नित्यं विज्ञानमानन्दं ब्रह्म ” इति श्रुतेः । तस्य निर्व्वाहस्तत्साक्षात्काररूपनिष्पत्तिः तस्मै प्रथमाङ्कुरस्तत्कारणभूतप्रथमप्र- काशमानकर्म्मस्वरूपः मया पूर्णानन्देनोच्यते इत्यर्थः । सोऽङ्कुरः किम्भूतः ? तन्त्रानुसारेण षट्चक्रादिक्रमोद्गत इति तन्त्रानुसारेण तन्त्रमतेन षट्चक्रादीनां मूलाधार-स्वाधिष्ठान-मणिपूरकानाहत-विशुद्धाज्ञाख्यानाम् आदिना तत्सम्बन्धि- नाडीलिङ्गव्योमपञ्चकशिवशक्त्यादीनाञ्च यः क्रमः, तच्चिन्तनकुण्डलिन्युत्थापन- ब्रह्मपद्मगमनागमनशिवशक्तिमेलनादिविधानानुपूर्व्विकरूपः क्रमः, तेन उद्गतः प्राप्तः योगसाधनाद्यभिन्नः इत्यर्थः । ततश्च तन्त्रविहितषट्चक्रघटितयोगसाधना- भिन्नब्रह्मसाक्षात्कारादिकारणीभूतकर्म्मस्वरूपोऽङ्कुरो मया उच्यते इति समुदया- नुगततात्पर्य्यार्थः ॥ * ॥

अथ तादृशवक्ष्यमाणयोगः षट्चक्रनाड्योर्ज्ञानं विना न सम्भवतीत्यतः प्रथमं तदुपयुक्तनाड्यो निरूप्यन्ते मेरोरित्यादित्रिभिः श्लोकैः । मेरोर्मेरुदण्डस्य स च दण्डो मूलावधिग्रीवापर्य्यन्तव्यापकपृष्ठास्थि इति स्फुटीकरिष्यामः । तद्बाह्यदेशे शशिमिहिरशिरे इति । शशी चन्द्रः, मिहिरः सूर्य्यः, शिरा नाड़ी

(१) मेरोरिति—मेरोर्बहिःस्थाने शशिमिहिरशिरे इड़ापिङ्गलाख्ये स्तः इति। सव्यदक्षे वामदक्षिणयोः तत्र प्राण्यङ्गत्वात् समाहारः । निषण्णे सुप्ते इति यावत् । मध्ये मेरोरिति सम्बन्धनीयम् । त्रितयगुणमयी सत्त्वरजस्तमोगुणमयी । त्रितय इति अवयवार्थे तयप् । यतश्चन्द्रसूर्य्याग्निरूपा अतस्त्रितयगुणमयी । कन्दमध्यात् मूला- धारादिति यावत् । शिरःस्था शिरःस्थिता । तदेव धूस्तूरपुष्पस्फुटितस्येव

ततश्च चन्द्रसूर्य्यस्वरूपिण्यौ द्वे नाड्यौ इड़ापिङ्गलाख्ये सव्यदक्षे वामदक्षिणे निषण्णे स्थिते इत्यर्थः ।

तदाह भूतशुद्धितन्त्रे—

मेरोर्व्वामे इड़ा दक्षे पिङ्गला च स्थिते उभे ॥ इति ॥

अनयोश्चन्द्रसूर्य्यस्वरूपत्वमाह सम्मोहनतन्त्रे—

वामगा या इड़ा नाड़ी शुक्ला चन्द्रस्वरूपिणी । शक्तिरूपा हि सा देवी साक्षादमृतविग्रहा ॥ दक्षे तु पिङ्गला नाम पुंरूपा सूर्य्यविग्रहा । रौद्रात्मिका महादेवी दाड़िमीकेसरप्रभा ॥ इति ॥

इमे नाड्यौ मूलादृजुरूपेणाज्ञाचक्रान्तं प्राप्य नासारन्ध्रगते ।

तदुक्तं यामले—

इड़ा च पिङ्गला चैव तस्य वामे च दक्षिणे । ऋज्वीभूते शिरे ते च वामदक्षिणभेदतः । सर्व्वपद्मानि संवेष्ट्य नासारन्ध्रगते शुभे ॥

अत्र शिरे ते च इत्यत्र चकारो वार्थः, तेन सर्व्वपद्मानि संवेष्ट्य वामदक्षिणभेदतः वामदक्षिणभेदेन वेणीबन्धक्रमेण सर्व्वपद्मानि संवेष्ट्य वा नासारन्ध्रगते इत्यर्थः । एतेनानयोः स्थित्यां द्विविधः कल्पो दर्शितः । अन्यत्रानयोर्धनुराकारेण स्थितिरुक्ता ।

तद्यथा—

विद्धि ते धनुराकारे नाड़ीड़ापिङ्गले परे ॥ इति ॥

प्रथिततमं प्रकृष्टं प्रसिद्धं वपुर्यस्याः । एतेन—उभयतो धूस्तूराकृतिर्द्विमुखीति फलितार्थः । अपरा चास्या मध्ये वज्रानाम्नी नाड़ी, सा तु मेढ्रदेशात् शिरसि परिणता सुषुम्णायाः किञ्चित् खर्व्वा सहस्रदलपङ्कजसुषुम्णास्ययोरु(?)पर्य्यधोभावेन सम्पु- टत्वात् । ज्वलन्ती देदीप्यमाना ।

धनुराकारप्रकारमाह—

या वाममुष्कसम्बन्धा सा श्लिष्यन्ती सुषुम्णया । दक्षिणं जत्रुमाश्रित्य धनुर्व्वक्रा हृदि स्थिता । वामांशजत्र्वन्तरगा दक्षिणां नासिकामियात् ॥ इति ॥

जत्रु स्कन्धभुजयोः सन्धिः ।

तथा दक्षिणमुष्कोत्था नासाया वामरन्ध्रगा ॥ इति ॥

वामदक्षिणमुष्कोत्थिते ते भ्रूमध्यपर्य्यन्तं प्राप्य तत्र इड़ापिङ्गलासुषुम्णानाड़ी- त्रयाणां त्रिवेणीरूपेण ग्रन्थिभावमापन्ने नासारन्ध्रमिलिते इत्यर्थः ।

तदुक्तम्—

इड़ायां यमुना देवी पिङ्गलायां सरस्वती । सुषुम्णायां वसेद्गङ्गा तासां योगस्त्रिधा भवेत् ॥ सङ्गता ध्वजमूले च विमुक्ता भ्रूवियोगतः । त्रिवेणीयोगः सा प्रोक्ता तत्र स्नानं महाफलम् ॥ इति ॥

मध्ये इति मेरुदण्डमध्यरन्ध्रे इत्यर्थः ।

तदुक्तं—

मेरुमध्ये स्थिता या तु मूलादाब्रह्मरन्ध्रगेत्यादि ।

तथा त्रिपुरासारसमुच्चये—

या मुण्डाधारदण्डान्तरविवरगतेत्यादि ।

अत्र यद्यपि—

मेरोर्व्वामे स्थिता नाड़ी इड़ा चन्द्रामृता शिवे । दक्षिणे सूर्य्यसंयुक्ता पिङ्गला नाम नामतः । तद्बाह्ये तु तयोर्मध्ये सुषुम्णा वह्निसंयुता ॥

इति तन्त्रचूड़ामणिवचने सुषुम्णाया मेरोर्बाह्यस्थितिः प्रतीयते, तथापि तद्वचनं मत- भेदेन, ग्रन्थकारमते तु “ सकलसरसिजान् मेरुमध्यान्तरस्थान् ” इत्युत्तरश्लोके षट्- पद्मानां मेरुमध्यरन्ध्रस्थत्वकथनेन तदाधारभूतायाः सुषुम्णाया मेरुमध्यरन्ध्रस्थत्वम् ।

त्रितयगुणमयीति त्रितयं गुणं सुषुम्णा वज्रा चित्रिणीति रूपभेदेन त्रिसूत्ररूपं तदात्मिकेत्यर्थः । अथवा त्रितयगुणं सुषुम्णादिनाड़ीत्रयमपेक्ष्य इयमेकेयमेकेयमेकेति त्रितयावर्त्तनं यत्र, सा त्रितयगुणा तन्मयीत्यर्थः । यद्वा त्रितयगुणाः सत्त्वरजस्तमोगुणा यस्यां तन्मयीत्यर्थः । ततश्च चित्रिणी सत्त्वगुणमयी, वज्रा रजोगुणमयी, सुषुम्णा तमोगुणमयीति । चन्द्रसूर्य्याग्नि- रूपेति । चित्रिणी चन्द्ररूपा तेन शुक्लवर्णा, वज्रिणी सूर्य्यरूपा तेन दाड़िमीकेसरप्रभा, सुषुम्णा वह्निरूपिणी तेन रक्तवर्णा इति । एतत्त्रिविध- व्याख्यानप्रमाणमाह सुषुम्णालक्षणमभिधाय भूतशुद्धौ—

तदन्तर्द्व्यङ्गुलोर्द्ध्वे तु वज्राख्या चित्रिणी तथा । अतः सुषुम्णा त्रिगुणा ललन्ती ललना यथा ॥ सत्त्वादित्रिगुणाधारा चन्द्रसूर्य्याग्निरूपिणी ॥ इति ॥

कन्दमध्याच्छिरःस्था इति । कन्दः सर्व्वनाड़ीनां मूलं । तल्लक्षणमाह—

गुदात्तु द्व्यङ्गुलादूर्द्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः । चतुरङ्गुलविस्तारं कन्दमूलं खगाण्डवत् ॥ नाड्यस्तस्मात् समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥ इति ॥

तद्रूपकन्दमारभ्य शिरःस्था शिरःस्थिताधोमुखसहस्रदलकमलकर्णिकावर्त्तिद्वादश- दलपङ्कजाधःपर्य्यन्तस्थितेत्यर्थः । “ कुण्डलीविवरकाण्डमण्डितं, द्वादशार्णसरसीरुहं भजे ” इति गुरुपादुकास्तोत्रस्मरणात् कुण्डलीविवरकाण्डरूपायाश्चित्रिणीनाड्याः तदवधिकत्वे तदधिकरणसुषुम्णाया अपि तदवधिकत्वम् । अन्यथा सहस्रदलोर्द्ध्व- पर्यन्तस्थायित्वे सहस्रदलपद्मस्य चत्वारिंशत्श्लोके “ शून्यदेशे प्रकाशमि ” त्यनेन शून्यदेशे स्थायित्वानुपपत्तेः । सुषुम्णावृतत्वे शून्यदेशत्वाभावात् । अत्र केचित्— “ मेरोर्मध्यपृष्ठगतास्तिस्रो नाड्यः प्रकीर्त्तिता ” इति निगमतत्त्वसारवचनं प्रमाणं दर्शयित्वा इड़ापिङ्गलासुषुम्णेति तिसृणां नाड़ीनां मेरुमध्यस्थितिं वदन्ति । तन्न

इड़ापिङ्गलयोर्मेरुबहिःस्थितेः सर्व्वतन्त्रवचनसिद्धत्वात् ग्रन्थकारेणापि मेरोर्बा- ह्यप्रदेशे इत्यनेन तयोर्बहिःस्थितेः स्पष्टमुखेनाभिधानाच्च । किञ्च इड़ापिङ्गलयो- र्मेरुमध्यस्थत्वे धनुराकारभङ्ग्या हृदयात् जत्रुसंलग्नत्वं न सम्भवति ।

निगमतत्त्वसारवचने तिस्रो नाड्य इति सुषुम्णा बज्रा चित्रिणीति तिस्रः, न त्विड़ापिङ्गलयोस्तदन्तर्भावः । अत्र सुषुम्णाया मूलादिमस्तकपर्य्यन्त- स्थितिप्रकारमाह—

सुषुम्णा चव्यवल्लीव मेरुश्लिष्टा पुरोगता । ग्रीवान्तं प्राप्य गलिता तिर्य्यग्भूता वरानने । शङ्खिनीनालमालम्ब्य गता सा ब्रह्मसादनम् ॥ इति ॥

तथान्यत्र—

चापाकारे स्थिते चान्ये सुषुम्णा प्रणवाकृतिः । पृष्ठास्थिघुण्टितो भिन्ना तिर्य्यग्भूता ललाटगा । भ्रूमध्ये कुण्डली लग्ना मुखेन ब्रह्मरन्ध्रगा ॥ इति ॥

गलिता मेरुदण्डान्निःसृता । तथा घुण्टितो भिन्ना इत्यस्याप्ययमर्थः । एतेन मेरुदण्डस्य ग्रीवापर्य्यन्तस्थितिः प्रतीयते ।

शङ्खिनीनालमालम्ब्येति । शङ्खिनीलक्षणमाह ।

ईश्वर उवाच ।—

सरस्वती कुहूश्चैव सुषुम्णापार्श्वयोः स्थिते । गान्धारी हस्तिजिह्वा च इड़ायाः पूर्व्वपार्श्वयोः ॥

तथा—

गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी । शङ्खिनी नाम सा नाड़ी सव्यकर्णान्तमिष्यते ॥

तथान्यत्र—

शङ्खिनी कण्ठविवरात् तिर्य्यग्भूता ललाटगा । चित्रिणीसङ्गताश्लिष्टा यावच्छिरसमम्बिके ॥ इति ॥

तन्मध्ये चित्रिणी सा प्रणवविलसिता योगिनां [योगगम्या लूतातन्तूपमेया सकलसरसिजान् मेरुमध्यान्तर- [स्थान् । भित्त्वा देदीप्यते तद्ग्रथनरचनया शुद्धबोधस्वरूपा तन्मध्ये ब्रह्मनाड़ी हरमुखकुहरादादिदेवान्त- [संस्था ॥ २ ॥

ततश्च सरस्वतीगान्धार्य्योर्म्मध्ये कन्दमूलमारभ्य कण्ठपर्य्यन्तं गता वक्रगत्या एकाग्रेण वामकर्णरन्ध्रमिलिता, अपराग्रेण मस्तकान्तं प्राप्तेति । अत्र केचित्—

पादादिब्रह्मरन्ध्रान्तं यदस्थि कीलकोपमम् । चतुर्द्दशानां लोकानां मेरुदण्डः प्रचक्षते ॥

इति निगमतत्त्वसारवचनं प्रमाणं दर्शयित्वा पदादिब्रह्मरन्ध्रपर्य्यन्तं मेरुदण्डस्य स्थितिमाहुः । तच्चिन्त्यम् । यः पृष्ठदण्डः स एव मेरुदण्डस्तस्य मूलकन्दादूर्द्ध्वावधि ग्रीवापर्य्यन्तस्थितेः प्रत्यक्षसिद्धत्वेन प्रत्यक्षसिद्धवस्तुनो वचनमन्यथा कर्त्तुं न शक्नोति । किञ्चाखण्डैकास्थ्नो मेरुदण्डस्य पादादिस्थितत्वे पादयोराकुञ्चनप्रसार- णादिक्रिया न स्यात्, तस्मान्मूलोर्द्ध्वावधिरेव मेरुदण्डः । निगमतत्त्वसारवचनस्य त्वयमर्थः । पादादिब्रह्मरन्ध्रपर्य्यन्तं शरीरमधिकृत्य यदस्थि कीलकोपमं कीलक- वद्धारकमिति मेढ्रदेशान्मूलकन्दाद्द्व्यङ्गुलोर्द्ध्वावधि । तदुक्तं भूतशुद्धौ—

तन्मध्ये द्व्यङ्गुलोर्द्ध्वे तु बज्राख्या चित्रिणी तथा ॥ इति ॥ १ ॥

तन्मध्ये इति वज्रामध्ये इत्यर्थः । प्रणवविलसिता आज्ञाचक्रावच्छेदे तन्मध्ये प्रणवप्रकाशेन प्रकृष्टोद्दीप्यमाना ; अतएव ग्रन्थकारेण सप्तत्रिंशत्श्लोके

(२) तन्मध्ये इति । तन्मध्ये वज्रामध्ये चित्रिण्याख्यनाड़ी प्रसिद्धत्वेन विलसति । प्रणव इव विलसिता प्रदीप्ता । योगिनां योगगम्या अतिसूक्ष्मत्वात्

“ तदनु च नवीनार्कबहुलप्रकाशं ज्योतिर्व्वा गगनधरणीमध्यमिलितमि ” त्युक्तम् । लूतातन्तूपमेया मर्कटसूत्रतुल्यसूक्ष्मा तद्ग्रथनरचनया भित्त्वा देदीप्यते इत्यर्थः ।

यत्तु—

चित्रिणीशून्यविवरे संजाताम्भोरुहाणि षट् । तत्पत्रेषु महादेवी भुजङ्गी विहरन्ति च ॥

इति कल्पसूत्रचतुर्थकाण्डीयवचनं तत् एकवचनान्तभुजङ्गीकर्त्र्या बहुवचनान्त- विहरन्तिक्रियान्वयायोगादमूलम् । समूलत्वेऽपि तस्यायमर्थः—विहरन्तीति शिवोक्तत्वात् एकवचनार्थे बहुवचनम् । चित्रिणीरन्ध्रविवरे इति करणार्थविषया- धारे सप्तमी । ततश्च भुजङ्गी कुण्डलिनी महादेवी चित्रिणीशून्ये चित्रिणीनाड्या मध्यरन्ध्रे यत् विवरम् इतस्ततो वहिर्गमनपथः, तेन पथा चक्रभेदक्रमेण षड़म्भोरुहाणि संजाता सम्प्राप्ता सती तत्पत्रेषु विहरति दीप्यते इत्यर्थः । यद्वा यानि षड़म्भोरुहाणि सुषुम्णान्तराले विहरन्ति प्रकाशन्ते, भुजङ्गी चित्रिणीरन्ध्र- विवरेण तत्पत्रेषु संजाता संस्थिता सती अनन्तरं सहस्रदले विहरतीति । न तु तद्वचनात् षट्पद्मानां चित्रिणीविवरे स्थितिः प्रतीयते । तन्मध्ये चित्रिणीमध्ये । ब्रह्मनाड़ीति अत्र नड़गताविति धातोर्नड्यते गम्यतेऽनया पदव्या इति नाड़ी पदवी, ब्रह्मणो नाड़ीति व्युत्पत्त्या ब्रह्मनाड़ी ब्रह्मपदवी शब्दब्रह्मरूपायाः कुण्डलिन्याः परमशिवसन्निधिगमनपथरूपचित्रिणीनाड्यन्तर्गतशून्यभाग इति यावत् । न तु चित्रिणीमध्ये नाड्यन्तरमस्तीति निष्कर्षः । हरमुखकुहरात् स्वयम्भुलिङ्गच्छिद्रात् । आदिदेवः सहस्रदलकमलकर्णिकामध्यस्थपरविन्दुः । अन्यत् सुगमम् ॥ २ ॥

अत एव लूतातन्तूपमेया । सकलसरसिजान् मूलाधारादीन् । मेरुमध्ये सुषुम्णा- वज्रानाड्यौ तयोरन्तरस्थान् मध्यस्थान् भित्त्वा तेषां पद्मानां ग्रथनरचनया देदीप्यते भृशं दीप्तिं करोतीत्यर्थः । एतस्या मध्यवर्त्तिनी ब्रह्मनाड़ी कन्दस्थहरमुखच्छिद्रात् परमशिवान्तरस्थिता मध्ये आश्रिता शुद्धबुद्धीनां बोधो ज्ञानं यस्याः ।

विद्युन्मालाविलासा मुनिमनसि लसत्तन्तुरूपा [सुसूक्ष्मा शुद्धज्ञानप्रबोधा सकलसुखमयी शुद्धबोध- [स्वभावा । ब्रह्मद्वारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेशं ग्रन्थिस्थानं तदेतद्वदनमिति सुषुम्णाख्यनाड्या [लपन्ति ॥ ३ ॥

श्लोकान्तरेण तां विशेषयति विद्युन्मालेति । लसत्तन्तुरूपेति । लसन्ती दीप्यमाना तन्तुरूपिणी अब्जतन्तुसदृशी कुण्डलिनी यत्र सेत्यर्थः । सकल- सुखमयी सर्व्वानन्दमयीत्यर्थः । शुद्धबोधस्वभावेति शुद्धबोधाय तत्त्वज्ञानाय स्वस्य आत्मनो भावो भावना यत्रेत्यर्थः । तदास्ये ब्रह्मनाड्याः आस्ये हरमुखकुहरे ब्रह्मद्वारं कुण्डलिन्याः शिवसन्निधिगमनाय प्रवेशनिर्गमपथरूपमित्यर्थः । सुधाधारगम्यप्रदेशमिति । सुधाधारः परमशिवशक्तिसामरस्यनिःसृतामृतधारो गम्यते मूलाधारस्थशिवशक्तिभ्यां लभ्यते येन द्वारेण तद्रूपप्रदेशमित्यर्थः । तदेतदिति तस्य द्वारस्य एतत्समीपवर्त्तिप्रदेशं सुषुम्णाया ग्रन्थिस्थानं कन्द- सुषुम्णयोः सन्धिस्थानं सुषुम्णाया वदनञ्च इति लपन्ति आगमज्ञा वदन्ति इति समुदायार्थः ॥ ३ ॥ * ॥

(३) विद्युन्मालेत्यादि । एतस्या ब्रह्मनाड्या एव विशेषणान्याह, विद्युन्मालेति । विद्युन्मालेव विलासः प्रकाशो यस्याः । मुनिमनसि प्रकाशमृणालतन्तुरूपा अतः सूक्ष्मा । शुद्धज्ञानस्य प्रकाशो यस्याः । अतः कलासहितानां सुखमयी, यद्वा सर्व्वेषां सुखमयी शुद्धभाव एवात्मभावो यस्याः, यद्वा शुद्धभावानां स्वे परमात्मनि भावो ज्ञानं यत् सा तथा । तस्या मुखे ब्रह्मद्वारं प्रकाशते । अमृतस्य य आसारः शीकरस्तस्य गम्यप्रदेशो गमनप्रकृति यदास्यमिति यावत् । “ प्रदेशः स्थानमार्गयोः ” इति त्रिकाण्डशेषः । तदेतद्वदनं सुषुम्णानामनाड्या ग्रन्थिस्थानम् । सुधियो वदन्तीति तत् तया सहास्यलग्नं मिलनं तत्रैवेति ॥ [अत्र मते शुद्धभावस्वभावेति पाठः ।]

अथाधारपद्मं सुषुम्णास्यलग्नं ध्वजाधो गुदोर्द्ध्वं चतुःशोणपत्रम् । अधोवक्त्रमुद्यत्सुवर्णाभवर्णै- र्वकारादिसान्तैर्युतं वेदवर्णैः ॥ ४ ॥

अमुष्मिन् धरायाश्चतुष्कोणचक्रं समुद्भासि शूलाष्टकैरावृतं तत् । लसत्पीतवर्णं तड़ित्कोमलाङ्गं तदन्ते समास्ते धरायाः स्वबीजम् ॥ ५ ॥

नाड़ीं निरूप्य अङ्गप्रत्यङ्गादिसहितं मूलाधारचक्रं निरूप्यते अथाधार- पद्ममिति नवभिः श्लोकैः । सुषुम्णास्यलग्नं चतुष्पार्श्वे कन्दसुषुम्णयोः सन्धिस्थान- संलग्नपत्रमित्यर्थः । ध्वजाधो गुदोर्द्ध्वं लिङ्गमूलादधोऽवधि सुषुम्णापर्य्यन्तं इत्यर्थः । चतुःशोणपत्रं रक्तवर्णचतुर्द्दलम् । वकारादिसान्तैः व श ष स इति वेदवर्णैर्युतम् । अत्र षट्चक्रेषु पद्मानां दलावच्छेदे दक्षिणावर्त्तेन वर्णयोगश्चि- न्तनीयः । तदुक्तं विश्वसारतन्त्रे—

सर्व्ववर्णात्मकं पत्रं पद्मानां परिकीर्त्तितम् । दक्षिणावर्त्तयोगेन लिखनं चिन्तयेद्धिया ॥ इति ॥ ४ ॥

अमुष्मिन् धरायाश्चतुष्कोणचक्रमिति । एतत्पद्मकर्णिकायां चतुष्कोणरूपं पृथ्वीमण्डलं समास्ते इत्यर्थः । मण्डलं विशेषयति समुद्भासीत्यादिना ।

(४) अथाधार इति । नाड़ीप्रस्तावनानन्तरं षट्पद्मानां यथाक्रमं मूलतः सङ्गतिः कथ्यते । अथाधारपद्मं वक्ष्ये इति सम्बन्धः । सुषुम्णाया आस्ये संलग्नं ध्वजाधो गुदशब्दोऽयं गुदस्योर्द्ध्वं अपानस्थाने तत्पद्मस्य अवस्थितिः । चतुःशोणपत्रं चत्वारि रक्ताकारपत्राणि यस्य । अधःस्थितं वक्त्रं कर्णिकादिर्यस्येति । उद्यत्सुवर्णस्य या आभा तस्या इव वर्णः यस्य । एवम्भूतैरन्तस्थीयवकाराद्यैर्दलैः सकारान्तैश्चतुर्व्वर्णैर्युतम् । एतेन एतद्वर्णोपलक्षितदलान्यस्य वक्ष्यमाणस्वदलान्तरालमध्यवर्त्ति तद्भूतवर्णत्वात् ॥

(५) अमुष्मिन् इति । अमुष्मिन् पद्मे धरायाः पृथिव्याश्चतुष्कोणावच्छिन्नं चक्रं सम्यक्प्रकारेण उद्भासितुं शीलं येषां एवम्भूतैरष्टशूलैरावृतं तच्चक्रं इति श्रीमद्भगवद्भै-

चतुर्बाहुभूषं गजेन्द्राधिरूढ़ं तदङ्के नवीनार्कतुल्यप्रकाशः । शिशुः सृष्टिकारी लसद्वेदाबहु- र्म्मुखाम्भोजलक्ष्मीश्चतुर्भागभेदः ॥ ६ ॥

तस्य मण्डलस्याष्टदिक्षु प्रकाशमानाष्टशूलैर्युक्तं एतन्मण्डलं पीतवर्णं, स्पष्टमाह ।

मूलाधारे धराचक्रं चतुष्कोणं प्रियम्वदे । पीतवर्णं परिवृतञ्चाष्टशूलैः कुलाचलैः ॥ इति ॥

शूलैः कीदृशैः कुलाचलैरिति कामिन्याः स्तनसदृशाग्रैरित्यर्थः ।

यद्वा—कुलाचलैरिति ।

नीलाचलं मन्दरञ्च पर्व्वतं चन्द्रशेखरम् । हिमालयं सुवेलञ्च मलयञ्च सुपर्व्वतम् । चतुष्कोणे वसेद्देवि एतत् सप्तकुलाचलम् ॥

इति निर्व्वाणतन्त्रवचनात् यथा पृथ्वीमध्ये सप्तकुलाचलास्तथात्राष्टशूलानि कुलाचलसदृशानि इति भावः । तदन्ते इति तस्य धरामण्डलस्य अन्ते मध्ये धरायाः स्ववीजं लकारः समास्ते । एतद्बीजमपि पीतवर्णं तद्यथा—

बीजं तन्मध्यतश्चैन्द्रं पीतवर्णं चतुर्भुजम् । वज्रहस्तं महावाहुमैरावतगजस्थितम् ॥ इति ॥

तेन लसत्पीतवर्णमित्युभयसम्बन्धः ॥ ५ ॥

धरावीजध्यानमाह चतुरित्यादि । यदेव धरावीजं तदेवैन्द्रवीजमित्य- विरुद्धम् ।

रवीकलाविर्भूतडाकिन्यादिनिवासभूतत्वात् । पृथिव्यादिचक्राणां तत्राधिष्ठितत्वाच्च मूलाधारादीनां चक्रसंज्ञा प्रतीयते । भैरवीचक्रसंस्थितिरित्यादि यामलवचनात् । कीदृशं लसत् पीतवर्णः यस्य । विद्युदिव अङ्गं यस्य तच्चक्रमध्ये पृथिव्याः स्वबीजमास्ते । सानुस्वारलकार इति ॥

(६) चतुर्व्वाहुभूषमिति । वीजस्य विशेषणं चत्त्वारो वाहवो भूषा अलङ्कारा इव यस्य । गजेन्द्रं अधिरूढ़ं गत्यर्थाकर्म्मकेत्यादिसूत्रात् कर्त्तरि क्तः । तदङ्के तस्याङ्के

तदङ्के इति धरावीजस्याङ्के सृष्टिकारी ब्रह्मा वसेदित्यन्वयः । तदङ्के धरावीजस्य बिन्दुमध्ये इति बोध्यम् । तदुक्तं—

मूलाधारे धरावीजं तद्बिन्दौ ब्रह्मणः स्थितिः । तदङ्के शिशुरूपस्य गजारूढ़ोऽमराधिपः ॥ इति ॥

शिशुरूपस्य ब्रह्मणः स्थितिरित्यन्वयः ।

तदङ्के धरावीजक्रोड़े अमराधिप इति तु मतान्तरम् ।

स्वमते धराबीजैन्द्रबीजयोरभेदात् “ मन्त्रार्णा देवता प्रोक्ता देवता मन्त्ररूपिणी ” इति वचनाच्च तयोरभेदवर्णनम् । निर्व्वाणतन्त्रे—

ऐन्द्रबीजं वरारोहे लिङ्गस्य वामदेशके । सुसिद्धं ब्रह्मसदनं नादोपरि सुसुन्दरम् । तत्रैव निवसेद्ब्रह्मा सृष्टिकर्त्ता प्रजापतिः ॥ इति ॥

अत्र धराबीजस्योर्द्ध्वे नादोपरि ब्रह्मस्थितिकथनेन नादोर्द्ध्वे बिन्दुमध्ये स्थितिरवगम्यते । लिङ्गस्य वामदेशके इति मतान्तरम् । अत एव शारदायां—

आधारांश्च विदुस्तत्र मतभेदादनेकधा । इत्युक्तम् ।

स किम्भूतः ? लसद्वेदबाहुरिति । अत्र केचित् ब्रह्मणो द्विभुजदर्शनेन लस- द्बाहुवेदाः सामवेदादयो बाहौ यस्येति व्युत्पत्तिं कृत्वा तदेव संस्थापयन्ति । तन्न ब्रह्मणो हस्ताभ्यां वेदधारणस्य कुत्राप्यदर्शनात् । किन्त्वत्र ब्रह्मा चतुर्भुजत्वेनैव ध्येयः । तथा स्पष्टमाह भूतशुद्धौ—

तदङ्के च चतुर्बाहुं रक्तवर्णं शिशुं शिवे । चतुर्वक्त्रं हंसपृष्ठे ब्रह्माणं विद्धि पार्व्वति ॥ इति ॥

बीजाकारमूर्त्तेरङ्के प्रातःकालीनसूर्य्यतुल्यदीप्तिः सृष्टिकारी शिशुर्विराजते । लसच्चत्वारो बाहवो यस्य । मुखाम्भोजलक्ष्मीश्चतुर्भागो वेदो यस्य अर्थात् चतुर्म्मुखविशिष्टब्रह्मा इत्यर्थः । [अत्र मते चतुर्भागवेद इति पाठः ।]

वसेदत्र देवी च डाकिन्यभिख्या लसद्वेदवाहूज्ज्वला रक्तनेत्रा । समानोदितानेकसूर्य्यप्रकाशा प्रकाशं वहन्ती सदा शुद्धबुद्धेः ॥ ७ ॥

मुखाम्भोजलक्ष्मीश्चतुर्भागभेदः इति । अस्य ब्रह्मणश्चतुर्भिर्भागैर्यो भेदः अवयवेषु विशेषः सैव मुखाम्भोजलक्ष्मीरित्यर्थात् ब्रह्मणश्चतुर्म्मुखत्वमायातम् । यद्वा—मुखे अम्भोजलक्ष्मीर्यस्य तथा चतुर्भिर्भागैः अर्थात् मुखावच्छेदे भेदो यस्येति विशेषणद्वयम् । “ चतुर्भागवेद ” इति पदे अभेदरूपेण पूर्व्वप्रकारार्थः । अत्र ब्रह्मणो हस्तेऽस्त्रानभिधानेऽपि—

दण्डकमण्डलुधरां अक्षसूत्राभयन्तथा । ध्यायेत्तां रक्तवर्णाञ्च ब्राह्मीं कृष्णाजिनोज्ज्वलाम् ॥

इति विश्वसारतन्त्रोक्तब्राह्मीध्याने ब्रह्मशक्तिहस्ते दण्डकमण्डल्वक्षसूत्राभय- दर्शनादत्रापि तथा कल्प्यते “ यस्य देवस्य यद्रूपं ” इत्यादिना सप्तशतीस्तोत्रे शिवशक्त्योरेकास्त्रदर्शनात् इति वदन्ति । वस्तुतस्तु—

अभयवरदहस्तं कुण्डिकामक्षमालाम् । दधतममलभूषं चिन्तयेदादिमूर्त्तिम् ॥

इति यामलोक्तकर्म्मान्तरीयध्यानप्राप्ताभयवरादीनि ध्येयानि । स्पष्टमन्यत् ॥६॥

आधारपद्मे डाकिनीशक्तिस्थितिमाह वसेदिति । अत्र पद्मे डाकिनी नाम्नी देवी वसेदित्यन्वयः । सा किम्भूता ? सदा सर्व्वस्मिन् काले शुद्धबुद्धे-

(७) वसेदत्रेति । अत्रैव चक्रे डाकिन्यभिख्या नाम यस्याः सा वसेत् । “ अभिख्या नामशोभयोः ” इत्यमरः । लसद्भिः प्रकाशद्भिश्चतुर्बाहुभिरुज्ज्वला रक्ताकारनेत्रा च सा देवी । समानोदितेति ; एककालीनोदितानां अनेकसूर्य्याणामिव प्रकाश उदयो यस्याः सा तथा । सर्व्वदा शुद्धबुद्धीनां प्रकाशं वहन्ती परमार्थविषयी- भूता सदृशं विभावयन्ती तद्भावान्वितानां ज्ञानमेव ददातीत्यर्थः ।

स्तत्त्वज्ञानस्य प्रकाशं वहन्ती तत्त्वज्ञानसम्पादयित्रीत्यर्थः । तथाच योगाङ्गत्वेनात्र तां ध्यात्वा तत्त्वज्ञानमाप्नोति इति भावः ।

इयं देवी चक्राधिष्ठात्री तदुक्तं—

वक्त्रं वशषसोपेतं डाकिन्या समधिष्ठितम् ॥ इति ॥ तथा—

डाकिनी राकिणी चैव लाकिनी काकिनी तथा । शाकिनी हाकिनी चैव क्रमात् षट्पङ्कजाधिपाः ॥ इति ॥

अस्या ध्यानविशेषमाहान्यत्र—

रक्ताक्षी रक्तवर्णां पशुजनभयकृच्छूलखट्वाङ्गहस्तां वामे खड्गं दधानां चषकमपि सुधापूरितं चैकवक्त्राम् । अत्युग्रामुग्रदंष्ट्रामरिकुलमथनीं पायसान्ने प्रसक्तां मूलाधारेऽमृतार्थे परिवृत्तवपुषं डाकिनीं चिन्तयेत्ताम् ॥ इति ॥

तथा—

सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् । कृष्णाम्बरपरीधानां नानाभरणभूषिताम् ॥

इत्यादिकर्म्मान्तरोक्तडाकिनीध्याने प्राप्ते कृष्णाम्बरं ध्येयमिति । अत्र ब्रह्मादीनां षट्चक्रस्थसकलदेवानां भावभेदेनोर्द्ध्वाधोवक्त्रेण स्थितिचिन्तनमाह शाक्तानन्द- तरङ्गिणीधृतमायातन्त्रे—पार्व्वत्युवाच ।

अधोवक्त्रस्थितिस्तत्र अधोभागे कथं भवेत् । इति प्रश्ने,

महादेव उवाच ।

तत्सर्व्वं पङ्कजं देवि सर्व्वतोमुखमेव च । प्रवृत्तिभावचिन्तायामधोवक्त्राणि चिन्तयेत् । निवृत्तिभावमार्गेषु सदैवोर्द्ध्वमुखानि च ॥ इति ॥

अन्यत् सुगमम् ॥ ७ ॥

वज्राख्यावक्त्रदेशे विलसति सततं कर्णिकामध्यसंस्थं कोणं तत् त्रैपुराख्यं तड़िदिव विलसत्कोमलं कामरूपम् । कन्दर्पो नाम वायुर्निवसति सततं तस्य मध्ये समन्तात् जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिसूर्य्य- प्रकाशः ॥ ८ ॥

मूलचक्रकर्णिकायां त्रिकोणं निरूप्यते वज्राख्यावक्त्रदेशे इति । सुषुम्णाया आस्यात् द्व्यङ्गुलोर्द्ध्वं लिङ्गमूलादधो वज्रावक्त्रम् । तत्तु मूलाधारकमलकर्णिका- मध्यस्थगह्वरान्तर्व्वर्त्ति तत्र त्रिकोणं विलसति इत्यन्वयः । त्रिकोणं कीदृशं ? त्रैपुराख्यमिति । त्रिकोणगर्भस्थकामबीजघटकककारमध्ये त्रिपुरसुन्दर्य्यधिष्ठानात् त्रैपुराख्यमिति तात्पर्य्यम् । तदुक्तं शाक्तानन्दतरङ्गिण्यां ककारतत्त्वकथनमुपक्रम्य—

तेषां मध्ये स्थिता देवी सुन्दरी परदेवता । इति ।

कोमलं सुस्निग्धम् । तथा कामरूपं कामं निरूप्यतेऽनुभूयते येन तादृशं मदनागारात्मकमित्यर्थः । अत एव—

त्रिकोणं तत्तु विज्ञेयं शक्तिपीठं मनोहरम् । इत्युक्तम् ।

एतत् त्रिकोणं धराबीजस्योर्द्ध्वं । तदुक्तं सम्मोहने धराबीजमधिकृत्य—

वामा ज्येष्ठा तथा रौद्री त्रिरेखा च तदूर्द्ध्वतः । इति ।

(८) वज्राख्येति । अस्यैव पद्मस्य कर्णिकामध्यस्थं त्रैपुराख्यं त्रिपुरासम्बन्धीदं त्रैपुरं तदेवाख्या नाम यस्य । चतुष्कोणं वज्राख्यनाड्याः समदेशे प्रकाशते । सर्व्वदैव विद्युदिव प्रकाशते कोमलं कामरूपपीठम् । यद्वा भक्ताभिलाषस्वरूपं तस्य कोणस्य मध्ये समन्ताच्चतुर्दिक्षु सर्व्वदैव कन्दर्पो नाम वायुर्विलसति काम एव वायुभूतोऽत्रास्ति इति गुरुचरणाः । तेनैव हेतुना जीवात्मनाविर्भवतीति आह जीवेश इति । किम्भूतः ? बन्धूकपुष्पसमूहं अत्यर्थं उपहसन्निव । ततोऽप्यत्यर्थ- रक्ताकारः अतो वायुः रूपवानित्यादि सांख्यसिद्धान्तमपि सङ्गच्छते । पुनः कीदृशः ? कोटिसूर्य्याणां इव प्रकाशो दीप्तिर्यस्येति ।

तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलः पश्चिमास्यो ज्ञानध्यानप्रकाशः प्रथमकिसलयाकाररूपः स्वयम्भुः । विद्युत्पूर्णेन्दुबिम्बप्रकरकरचयस्निग्धसन्तानहासी काशी- वासी विलासी विलसति सरिदावर्त्तरूपप्रकारः ॥ ९ ॥

तत्त्रिकोणमध्ये कन्दर्पवायुस्थितिमाह कन्दर्प इति । समन्तात् त्रिकोणव्यापक- रूपेणेत्यर्थः । जीवेश इति अस्य जीवधारकत्वाज्जीवेश इत्युक्तम् । तथा हि—

कन्ददेशे वसेत् प्राणो ह्यपानो गुदमण्डले ।

इत्यादिवचने गुदमण्डलस्थवायोरपानत्वाभिधानात् तादृशगुदमण्डलस्थकन्दर्पवायो- रप्यपानांशः । ततश्च—

अपानः कर्षति प्राणं प्राणोऽपानञ्च कर्षति । रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः । तथा चैतौ विसम्वादे सम्वादे सन्त्यजेदिमम् ॥ इति ॥

विसम्वादे परस्परवैपरीत्यगमने एतौ प्राणापानवायू तथा कर्षाकर्षिणौ सम्वादे अविरोधिगमने इमं देहं सन्त्यजेदित्यर्थकतद्वचने कन्दर्पावान्तरनामकापानवायोः प्राणाकर्षकत्वेन देहधारणत्वाज्जीवधारकत्वं प्रतीयते अतो जीवेश इत्युक्तिरिति भावः । अत एव ग्रन्थकृता दशमश्लोके “ श्वासोच्छ्वासविभञ्जनेन जगतां जीवो यया धार्य्यते ” इत्यनेन श्वासोच्छ्वासरूपयोः प्राणापानयोर्जीवधारकत्वं स्वयमेवोक्तम् । स्पष्टमन्यत् ॥ ८ ॥

त्रिकोणमध्ये स्वयम्भुलिङ्गस्थितिमाह तन्मध्य इति । त्रिकोणमध्ये लिङ्गरूपी स्वयम्भुः स्वयम्भुनामकशिवलिङ्गं विलसतीत्यन्वयः । द्रुतकनककला-

(९) तन्मध्ये इति । तत्कोणस्य किञ्चित् उपरि लिङ्गरूपी स्वयम्भुः भावरूपेण तिष्ठति । कीदृशः ? द्रुता या कनककला वह्निश्लथीभूता तस्या इव

कोमलः तप्तकाञ्चनावयव इव स्निग्धभाव इत्यर्थः । पश्चिमास्योऽधोमुखः तदुक्तं कालीकुलामृते—

तत्र स्थितो महालिङ्गः स्वयम्भुः सर्व्वदा सुखी । अधोमुखः क्रियावांश्च कामबीजेन चालितः ॥ इति ॥

ज्ञानध्यानप्रकाश इति ज्ञानध्यानाभ्यां प्रकाशो यस्य तादृश इत्यर्थः । तथा च ज्ञानेन निर्गुणरूपप्रकाशः ध्यानेन सगुणरूपप्रकाशो यस्य स एवायं स्वयम्भुरिति भावः ।

दृष्टान्तेन विशेषयति प्रथमकिसलयाकाररूप इति अचिरोत्पन्नपत्राङ्कुर- वत् आकारः रूपं यस्य तेन स्थूलमूलात् सूक्ष्माग्रपर्य्यन्तं चम्पककुसुममध्यस्थित- शलाकावदुन्नतः श्यामवर्णश्चेत्यर्थः । तदुक्तं शाक्तानन्दतरङ्गिण्याम्—

स्वयम्भुलिङ्गं तन्मध्ये सरन्ध्रं पश्चिमाननम् । ध्यायेच्च परमेशानि शिवं श्यामलसुन्दरम् ॥ इति ॥

यत्तु—

मूलाधारे स्मरेद्दिव्यं त्रिकोणमतिसुन्दरम् । तस्याग्निरेखामानीय अधऊर्द्ध्वव्यवस्थिताम् । नीलतोयदमध्यस्थां तडित्कोटिसमप्रभाम् ॥

इति यामलवचने कुण्डलिन्या नीलतोयदमध्यस्थविशेषणेन स्वयम्भुलिङ्गस्य नीलवर्णत्वमायातं तन्नीलश्यामयोरेकपर्य्यायत्वान्न विरुद्धम् ।

विद्युत्पूर्णेन्दुबिम्बप्रकरकरचयस्निग्धसन्तानहासीति। विद्युत्पूर्णचन्द्रविम्बयोर्यः प्रकृष्टकरः उत्तापरहितकिरणः तत्तुल्यकिरणसमूहेन मृदुप्रवाहविशिष्टप्रकाशो- ऽस्यास्तीत्यर्थः । काशीवासी विलासीति अत्र काशीवासतुल्यवासविशिष्टः सन् विलासीत्यर्थः । तेन यथा काशीवासे सुखं भुनक्ति तद्वदत्रापीति भावः ।

कोमलः । पश्चिमास्योऽधोमुखः । ज्ञानध्यानाख्ययोगाभ्यां प्रकाश उदयो यस्य । नवीनपल्लवाकारस्येव रूपं यस्य । विद्युत्पूर्णेन्दुबिम्बसमूहानां करबृन्दस्निग्धसमूहस्येव हास्य इव सविशेषो यस्य । तत्स्थानमपि विलसितुं शीलं अस्य सरिदावर्त्तरूपप्रकारा आकृतिर्यस्य अतिचञ्चलत्वात् एवम्भूतः सन् विलसति ॥

तस्योर्द्ध्वे बिसतन्तुसोदरलसत्सूक्ष्मा जगन्मोहिनी ब्रह्मद्वारमुखं मुखेन मधुरं संछादयन्ती स्वयम् । शङ्खावर्त्तनिभा नवीनचपलामालाविलासास्पदा सुप्ता सर्पसमा शिवोपरि लसत्सार्द्धत्रिवृत्ताकृतिः॥१०॥

अथवा विलास उल्लासः कामप्रफुल्लभाव इति यावत् तद्विशिष्ट इत्यर्थः । “ कामबीजेन चालित ” इति वचनात् अयं स्वयम्भुः काशीवासी एतेनास्य विश्वेश्वरत्वं सूचितं इति । सरिदावर्त्तरूपप्रकार इति सरिदावर्त्ते यद्रूपन्तत्प्रकारः ततश्च यथा भ्राम्यमाणनदीजले मध्यनिम्नस्तन्मध्ये किञ्चिदुन्नतं शङ्खमध्योन्नतवदिति भावः । अयं स्वयम्भुः कामबीजोपरिस्थितः तदाह कालीकुलामृते—

किञ्जल्कोपरि शृङ्गाटः सरन्ध्रः सुमनोहरः । तत्र स्थितो महालिङ्गः स्वयम्भुः सर्व्वदा सुखी । अधोमुखः क्रियावांश्च कामबीजेन चालितः ॥ इति ॥

तथान्यत्र—

पूर्व्वोक्ता डाकिनी तत्र कर्णिकायां त्रिकोणकम् । यन्मध्ये विवरं सूक्ष्मं रक्ताभं कामबीजकम् । तत्र स्वयम्भुलिङ्गञ्चाधोमुखालक्तकप्रभम् ॥

इति मतान्तरम् ॥ ९ ॥

स्वयम्भुलिङ्गे कुण्डलिनीशक्तिस्थितिमाह तस्योर्द्ध्वे इति द्वाभ्याम् । अनयो- र्थः । यया कुण्डलिन्या श्वासोच्छ्वासविभञ्जनेन प्रवर्त्तनेन जगतां जीवो

(१०) तस्योर्द्ध्वे इति । तस्य शिवस्य ऊर्द्ध्वेऽध इत्यर्थः । मृणालतन्तुसदृशी शरीरकला यस्याः एवम्भूता सा कूजन्ती कुलकुण्डलिनीति वक्ष्यमाणश्लोकेनान्वयः । यतः बिसतन्तुसदृशी अतः सूक्ष्मा जगतां मोहिनी महामायारूपेणेत्यर्थः । ब्रह्मद्वारमुखं मुखेन मुखकमलेन स्वयमेव सञ्छादयन्ती सम्यक् प्रकारेणाच्छादयन्तीत्यर्थः । एतेन अमृतवर्त्मसञ्छादनं कृत्वा अमृतं पिबतीत्यर्थः । अतः तदमृतसंयोगेन तन्मुखं मधुरं शङ्खस्य वेष्टनाकारतुल्या । नवीनविद्युच्छ्रेणीप्रकाश एव स्थानं यस्यास्तत्सदृशीति यावत् । सुप्ता अतः सर्पतुल्या सर्पो हि सुप्तः कुण्डलाकारो भवति । शिवस्योपरि लसत् प्रकाशत् सार्द्धविवृत्तं आकृतिः शरीरं यस्याः ।

Commentary
page 193

No commentary for this page.